SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी मासक्तसूक्ष्मवल्कलम्, अनिलविलुलितेन वनतरुपुष्परेणुना धूसरित सकलावयवम्, अनेकदुःखनिधानमानुष्यकद्वेषेण वृक्षतामिव लब्धुमारब्धोद्यममाधारमिव धैर्यस्य, हृदयमिव सौहृदस्य, स्वतत्त्वमिव सत्त्वस्य, परिपाकमिव पौरुषस्य, जयस्तम्भमिवावष्टम्भस्य, दृष्टान्तमित्र कष्टुंसहानाम्, सुदुस्तरव्यसनसागरविलङ्घनैकसेतुं समरकेतुम् [ग]। आलोकितमात्र एव तत्र गलितनिः शेषहृदयातङ्कभारः सहसैवाध्यासितस्वदेशमिव दृष्टसकलस्वज्ञातिलोकमिवानेक सहायशतपरिवृतमिव प्रत्यागत समस्त पूर्वानुभूतनिर्भरक्रीडा सुख समूहमिवात्मानमुद्वहन्नधिष्ठितोभयकपोलेन सिंहलेश्वरसूनुमभि सरभसप्रधावितस्य चक्षुषः प्रसरमपवारयन्तमानन्दाश्रुजलपटलमिव परिमार्ज्जुमनवरतमुत्तिष्ठता पुलकजालकेन पिशुनितान्तः प्रहर्षोदयः किसलयाग्रहस्तपर्यस्तदशमुद्विकाशकुसुमप्रकटितस्मिताभिः पूर्णपात्र संभावनयेव वारं वारमवलम्ब्यमानमासन्नवर्तिनीभिर्वनलताभिराकर्षन् कराग्रेण सत्वरमुत्तरीयसिचयाञ्चलं कदलीगृहाभ्यन्तर एव द्वित्राणि पदान्यभिमुखमगच्छत् [घ] उपसृतं च १२३ वनतरुपुष्परेणुना वनसम्बन्धिवृक्षपुष्पधूल्या, धूसरितसकलावयवं धूसरिताः - किञ्चित्पीतश्वेतीकृताः, सकलाःसमस्ताः, अवयवाः–अङ्गानि यस्य तादृशम् । अत एव अनेकदुःखनिधानमानुष्यकद्वेषेण अनेकदुःखनिधानस्यविविधदुःखास्पदस्य, मानुष्यकस्य- मनुष्यत्वस्य, द्वेषेण-अप्रीत्या, वृक्षतां वृक्षरूपतां लब्धुमिव प्राप्तुमिव, आरब्धोद्यमं प्रवर्तितोद्योगम् । पुनः धैर्यस्य सहिष्णुतायाः, आधारमिव आश्रयमिव, पुनः सौहृदस्य सख्यस्य, हृदयमिव प्रधानाङ्गमित्र । पुनः सत्त्वस्य बलस्य, स्वतत्त्वमिव स्वकीयसारभागमिव सतत्त्वमिति पाठे वास्तविकरूपमिव । पुनः पौरुषस्य पराक्रमस्य परिपाकमिव परिणतरूपमिव । पुनः अवष्टम्भस्य दृष्टसिद्धिप्रतिबन्धस्य, जयस्तम्भमिव जयध्वजमिव । पुनः कष्ėसहानां दुःखसहनशीलानां दृष्टान्तमिव उदाहरणमिव । पुनः सुदुस्तरव्यसनसागरविलङ्घनैक सेतुं सुदुस्तरस्य-अतिदुःखेन तरीतुं शक्यस्य, व्यसनसागरस्य - कष्टसमुद्रस्य, विलङ्घने - संतरणे, एकसेतुं प्रधानसेतुभूतम् [ग] | च पुनः, तत्र तस्मिन् समरकेताविति यावत्, आलोकितमात्र एव दृष्टमात्रे सत्येव, गलित निःशेषहृदयातङ्कभारः गलितः - पतितः, निवृत्त इत्यर्थः, निःशेषः- समस्तः, हृदयस्य - चित्तस्य, आतङ्कभार :- शङ्काभारो यस्य तादृशः; पुनः सहसैव शीघ्रमेव, अध्यासित स्वदेशमिव अध्यासितः - अधिष्ठितः, स्वस्य देशः - अयोध्या येन तादृशमिव, अत एव दृष्टसकलस्वज्ञातिलोकमिव दृष्टाः - पुनः साक्षात्कृताः सकलाः समस्ताः, ज्ञातिलोकाः - बन्धुजना येन तादृशमिव पुनः अनेकसहायशतपरिवृतमिव अनेकैः - बहुभिः सहायानां सार्थगामिनां शतैः परिवृतमिव-परिवेष्टितमिव, पुनः प्रत्यागतसमस्त पूर्वानुभूतनिर्भरक्रीडासुख समूहमिव प्रत्यागतः - परावृत्तः, समस्तः - समग्रः, पूर्वानुभूतः, निर्भरक्रीडासुखसमूहः-अतिमात्रक्रीडाजन्यानन्दसन्दोहो यस्य तादृशमिव, आत्मानं खम्, उद्वहन् धारयन्; पुनः पुलकजालकेन रोमाञ्चगणेन, पिशुनितान्तः प्रहर्षोदयः पिशुनितः - सूचितः, अन्तः प्रहर्षस्य - अन्तः प्रमोदस्य, उदयः - उद्गमो यस्य तादृशः, कीदृशेन ? अधिष्ठितोभयकपोलेन अधिष्ठितः - आश्रितः, उभयकपोलः - गण्डमण्डलद्वयं येन तादृशेन; पुनः सिंहलेश्वरसूनुं सिंहलेश्वरस्य-सिंहलद्वीपाधिपतेः, चन्द्रकेतोरिति यावत्, सूनुं पुत्रं समरकेतुम्, अभि लक्ष्यीकृत्य, सरभसप्रधावितस्य सत्वरं प्रस्थितस्य, चक्षुषः, प्रसरं व्यापारम्, अपवारयन्तं निरुन्धन्तम्, आनन्दाश्रुजलपटलम् आनन्दजन्याश्रुजलराशि, परिमाष्टुमिव विशोधयितुमिव, अनवरतं निरन्तरम्, उत्तिष्ठता उद्गच्छता, पुनः कीदृशम् ? किसलयाग्रहस्त पर्यस्तदर्श करपल्लवाग्रेण, पर्यस्ता-व्याप्ता धृतेति यावत्, दशा - अन्त्यावयवो यस्य तादृशम्, पुनः उद्विकाशकुसुमप्रकटितस्मिताभिः उद्विकाशैः-उत्–उत्कृष्टः, विकाशो येषां तादृशैः कुसुमैः प्रकटितानि - प्रकाशितानि स्मितानि - मन्दहासा याभिस्तादृशीभिः, आसन्नवर्तिनीभिः निकटस्थाभिः, वनलताभिः पूर्णपात्र सम्भावनयेव पूर्णपात्रस्य - "उत्सवेषुसुहृद्भिर्यद् बलादाकृष्य गृह्यते वस्त्रमाल्यादि तत् पूर्णपात्रं" इत्युक्तस्य, सम्भावनेव - कल्पनयेव, वारं वारं मुहुर्मुहुः, अवलम्ब्यमानम् आश्रीयमाणम्, उत्तरीयसिचयाञ्चलम् उत्तरीयवस्त्रामं, सत्वरं ससम्भ्रमम्, कराग्रेण हस्ताग्रेण, आकर्षन् लताभ्यो विश्लेषयन्, कदलीगृहाभ्यन्तर एव कदलीगृहमध्य एव, द्वित्राणि द्वे वा त्रीणि वा पदानि, अभिमुखं सम्मुखम् अगच्छत् गतवान् [घ ] | "Aho Shrutgyanam"
SR No.008457
Book TitleTilakamanjiri Part 3
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy