________________
१२२
टिप्पनक-परागविवृतिसंवलिता। अथोपसृत्य पुरतः सत्वरेण स्खलत्पदप्रसरया गिरा गत्या च सूचितहृदयहर्षप्रकर्षेण 'देव ! दिष्ट्या वर्धसे, परागतो युवराजः समरकेतुः' इत्यावेदिते गन्धर्वकेण संभ्रान्तचेताः सहसैव हरिवाहनः परित्यज्य तया राजकन्यया सह प्रवृत्तां कथां 'कथय कथय, क वर्तते क वर्तते' इति सगद्गदं गदन्नासनादुत्तस्थौ [क]। द्वारदेशावस्थापितेक्षणश्च दृष्टवानीषदवनतदृष्टिम् , आपतन्तमभिमुखं, दुःखविधृतकण्ठदेशागतोद्गाढवाष्पवेगम् , अकृत्रिमानुरागेण सुहृदा प्रथममेव प्रणयिनीकृताया विद्याधरविषयभूमेर्महादेवीपदाभिषेकमिव कर्तुं तुषारनिःष्यन्द शिशिरैरानन्दाश्रुवारिभिराकर्णमायते नयनपात्रे पूरयन्तम् , अविरलकरामुलीगलन्नखमयूखजालजलधारेण रोमाञ्चजालकमुचा मन्दं मन्दं दोलायमानेन प्रांशुना भुजादण्डद्वयेन सद्य एव प्रतीर्णायाः प्रियसुहृद्दर्शनप्रतिज्ञापगायाः पारमाश्रयन्तमिव लक्ष्यमाणम् [ख], अतिशयकर्कशेन वातातपस्पर्शनातिमात्रकर्शितमपि जलनिधिमिवापरित्यक्तसहजलावण्यम् , अभिनवलताप्रताननद्धविकटोर्ध्वजूटम् , अधिजघन
अथ अनन्तरम् , सत्वरेण अविलम्बितेन, स्खलत्पदप्रसरया स्खलन्तः-भ्रंशमानाः, पदानां-स्याद्यन्त-त्याद्यन्तानां, पक्षे पदयोः-चरणयोः, प्रसराः-विस्तराः, पक्षे विक्षेपा यस्यां तादृश्या, गिरा वाण्या, च पुनः, गत्या गमनेन, सूचितहृदयहर्षप्रकर्षेण सूचितः-प्रतीतः, हृदयहर्षस्य-हार्दिकानन्दस्य, प्रकर्षः उत्कर्षो यस्य तादृशेन, गन्धर्वकेण तदाख्यप्रकृतविद्याधरबालकेन, पुरतः अग्रे, उपसृत्य गत्वा, 'देव ! राजन् !, दिष्ट्या भाग्येन, वर्धसे, युवराजः चन्द्रकेतुनृपात्मजः, समरकेतुः, परागतः प्रत्यागतवान्' इति इत्थम् , आवेदिते विज्ञापिते सति, सम्भ्रान्तचेताः त्वराकान्तहृदयः, हरिवाहनः, तया प्रकृतया, राजकन्यया विद्याधरराजपुत्र्या, सह प्रवृत्तां प्रस्तुतां, कथां, परित्यज्य विसृज्य, 'कथय कथय ब्रूहि ब्रूहि, व वर्तते क्व वर्तते कुत्र तिष्ठति कुत्र तिष्ठति' समरकेतुरिति शेषः, इति इत्थं, सगद्गदेन हर्षजन्येन अव्यक्तखरेण सहितं यथा स्यात् तथा, गदन् ब्रुवाणः, आसनात् उपवेशनस्थानात् , उत्तस्थौ उत्थितवान् [क]। च पुनः, देशावस्थापितेक्षणः द्वारदेशे-कदलीगृहप्रवेशनिर्गमदेशे, अवस्थापिते-निहिते, ईक्षणे-नयने येन तादृशः सन्, दृष्टवान् दृष्टिगोचरीकृतवान् , 'समरकेतुम्' इत्यग्रेणान्वेति । कीदृशम् ? ईषदवनतदृष्टिं किञ्चिदधोमुखनयनम् । पुनः अभिमुखं सम्मुखम् , आपतन्तं आगच्छन्तं । पुनः दुःखविधृतकण्ठदेशागतोद्गाढवाष्पवेगं दुःखेन-क्लेशेन, विधृतः-गृहीतः, निरुद्ध इत्यर्थः, कण्ठदेशागतस्य-कण्ठपर्यन्तमागतस्य, बाष्पस्य-ऊष्मवायोः, वेगो येन तादृशम् । पुनः अकृत्रिमानुरागेण खाभाविकप्रीतिमता, सुहृदा समरकेतुना, प्रथममेव प्रागेव,प्रणयिनीकृतायाः प्रीतिविषयीकृतायाः, विद्याधरविषय विद्याधरजनपदभूमेः, महादेवीपदाभिषेकं महादेव्याः-हरिवाहनपाणिग्रहणेन महाराज्ञीभूतायास्तिलकमञ्जर्याः, यत् पद-स्थानं, तस्य, अभिषेक-वैधस्नपनं, कर्तुमिव, तुषारनिःष्यन्दशिशिरैः हिमप्रस्रवणसदृशशीतलैः, आनन्दाश्रुवारिभिः आनन्दजनितनयनजलैः, आकर्ण कर्णपर्यन्तम् , आयते दीर्घ, नयनपात्रे नेत्ररूपं पात्रद्वयं, पूरयन्तं पूर्तिमापादयन्तम् । पुनः अविरलकराङ्गुलीगलन्नखमयूखजालजलधारेण अविरलं-निरन्तरं, कराङ्गुलीभ्यः- करसम्बन्ध्यङ्गुलीभ्यः, गलन्तीपतन्ती. नखमयूखजालरूपा- नखकिरणकलापरूपा, जलधारा-जलप्रवाहो यस्य तादृशेन, पुनः रोमाञ्चजालकमुचा रोमाञ्चगणोद्गामिना, पुनः मन्दं मन्दं शनैः शनैः, दोलायमानेन उद्वेलता, प्रांशुना उन्नतेन, भुजदण्डद्वयेन बाहुरूपदण्डद्वयेन, सद्य एव तत्क्षणमेव, प्रतीर्णायाः उत्तीर्णायाः, प्रियसुहृद्दर्शनप्रतिज्ञापगायाः प्रियसुहृदः-प्रियमित्रस्य हरिवाहनस्य, यद् दर्शनं तत्प्रतिज्ञारूपायाः-तत्संकल्परूपायाः, आपगायाः- नद्याः, पारम् उत्तरतीरम् , आश्रयन्तमिव आगच्छन्तमिव, लक्ष्यमाणं प्रतीयमानम् [ख] । पुनः, अतिशयकर्कशेन अत्यन्ततीव्रण, अतिदुःसहेनेत्यर्थः, वातातपस्पर्शेन वातानांवायूनाम् , आतपानां-सूर्यतेजसां च, स्पर्शन, अतिमात्रकर्शितमपि अत्यन्ततनूकृतमपि, जलनिधिमिव समुद्रमिव, अपरित्यक्तसहजलावण्यं लावण्यं-सौन्दर्य पक्षे क्षारत्वं येन तादृशम् । पुनः अभिनवलताप्रताननद्धविकटोर्ध्वजूटम् अभिनवलताप्रतानैः-नूतनलताविस्तारैः, नद्धः-ग्रथितः, विकट:-विशालः, ऊर्ध्वजूटः-उन्नतसंयतकेशपाशो यस्य तादृशम् । पुनः अधिजघनं जङ्घोपरि, आसक्तसूक्ष्मवल्कलम् सलग्नं सूक्ष्म वृक्षत्वगंशुकम् , पुनः अनिलविलुलितेन पवनोद्भूतेन,
"Aho Shrutgyanam"