________________
तिलकमञ्जरी
उदारनेपथ्यसहचरीवृन्दपरिवृतया विधूयमानेन कान्त्या विलासिनीसंहत्या च विरल विरलमुज्वलहेमदण्डेन बालव्यजनक व्रजेन वीज्यमानया सखीजनोत्सङ्गनिहितनिः सहार्धदेह योद्धृतैकैकमणिवलयमात्रालङ्कारया ताम्बूलविरहोत्कलितमधुरविम्बाधररागया शरद्दिवेव चन्दनाङ्गरागपाण्डुरपयोधरया राजहंसिकयेव सरसमृणालिकाहारभूषितशरीरया [ औ ] तत्कालमेव सलिलादुद्धृतैः कमलकुमुदकुवलयमृणालैः कल्पितोपधानमब्जिनीपत्रसंस्तरमधिशयानया जगत्र्यातिशायिरूपलावण्यया नवीनवयसा नरेन्द्रकन्यया सनाथीकृतपार्श्वम् [ अं ] अङ्घ्रिपैरपि कृतोर्ध्वावस्थानैरनुजीविभिरिव परिवृतं, कदलीभिरप्यनिलदोलायितदला भिश्चामरग्राहिणीभिरिव वीज्यमानं, धरण्याप्युपरिघृतसरलकाण्डसुरपादपया गृहीतातपत्र येवोत्सङ्गितम्, अह्नापि तरुशाखान्तरप्रवेशितप्रांशुरविकरेण प्रतिपन्नकनकवेत्रेणेव प्रकटितानुभावं हरिवाहनमद्राक्षीत् [ अ ] ।
wwwwwm
१२१
टिप्पनकम् - विधूयमानेन कान्त्या विलासिनी संहत्या च एकत्र विधूयमानेन चन्द्रायमाणेन कान्त्या, अन्यत्र प्रेर्यमाणेन विलासिनी संघातेन । शरदिवेव चन्दनाङ्गराग पाण्डुरपयोधरया चन्दनाङ्गरागवद् धवलमेघया, अन्यत्र चन्दनाङ्गरागेण धवलस्तनया । राजहंसिकयेव सरसमृणालिकाहारभूषितशरीरया एकत्र भार्द्वमृणालभोजन पुष्टदेहया, अन्यत्र सरसमृणालहारशोभितदेहया [ औ ] ।
कृत पार्श्व सनाथीकृतं - सहितम्, अधिष्ठितमित्यर्थः, पार्श्व - वामभागो यस्य तादृशम् कीदृश्या तया ? उदारनेपथ्यसहचरीवृन्दपरिवृतया उदारम् - उज्ज्वलम्, नेपथ्यं - कृत्रिमवेषो यस्य तादृशेन, सहचरीवृन्देन - सखीसमूहेन, परिवृतया - परिवेष्टितया; पुनः कान्त्या दीया, विधूयमानेन चन्द्रायमाणेन । च पुनः, विलासिनीसंहत्या विलासशीलाङ्गनागणेन विधूयमानेन प्रेर्यमाणेन, विरलविरलं मन्दं मन्दं यथा स्यात् तथा, उज्वलहेमदण्डेन उज्जवल सुवर्णदण्डावलम्बितेन, बालव्यजनक - व्रजेन चामरगणेन, वीज्यमानया पवनस्पर्शमाणयाः पुनः सखीजनोत्सङ्ग निहित निः सहार्धदेहया सखीजनोत्सङ्गेसखीजनकोडमध्ये, निहितः - स्थापितः, निःसहः - दुर्बलः, अर्धदेहः - देहार्धभागो यया तादृश्या; पुन; उद्धृतैकैकमणिवलयमात्रालङ्कारया विरहक्षीणबलतया उद्धृतः - करमूले परिहितः, एकैकः, मणिवलयमाल - केवलरत्नकङ्कणात्मकः, अलङ्कारःभूषणं यया तादृश्याः पुनः ताम्बूलविरहोत्कलितमधुर बिम्बाधररागया ताम्बूलविरहेण - ताम्बूलरससम्पर्कभावेन, उत्कलितः-उद्दीप्तः, मधुरः - दृष्टिप्रियः, स्वाभाविक माधुर्य रससम्भृतस्य वा, बिम्बाधरस्य - बिम्बफल तुल्यरक्तोष्ठद्रयस्य, रागः- रक्तता यस्यास्तादृश्या; पुनः शरद्दिवेव शरदृतुसम्बन्धिदिनश्रियेव, चन्दनाङ्गरागपाण्डुरपयोधरया चन्दनाङ्गरागेण - चन्दनद्रवः रूपाङ्गोपलेपनद्रव्येण, पाण्डुरौ - किञ्चित्पीतश्वेतवर्णी, पयोधरौ - स्तनौ यस्यास्तादृश्या, पक्षे चन्दनाङ्गरागवत्, पाण्डुरः- धवलः, पयोधरः–मेघो यस्यां तादृश्या; पुनः राजहंसिकयेव रक्तचरणचञ्चुकहंस्येव, सरसमृणालिकाहारभूषितशरीरया विरहानिशान्तये सरसानाम् आर्द्राणां मृणालिकानां - बिसलतानां, हारेण-माल्येन, पक्षे आहारेण-भक्षणेन, भूषितं शोभितं, पक्षे पुष्टं शरीरं यस्यास्तादृश्या; [ औ ] तत्कालमेव तत्क्षणमेव, सलिलात् जलात्, उद्धृतैः ऊर्ध्वमानीतैः, कमल-कुमुदकुवलयमृणालैः कमलस्य - साधारणपद्मस्य, कुमुदस्य - श्वेतपद्मस्य, कुत्रलयस्य- नीलपद्मस्य, मृणालैः - बिसतन्तुभिः, कल्पितोपधानं कल्पितं - रचितम् उपधानं शयन कालिकशिरोभागारोपणस्थानं यत्र तादृशम्, अजिनीपत्र संस्तरं कमलिनीपत्रशय्याम्, अधिशयानया स्वपत्या; जगत्रयातिशायिरूपलावण्यया जगत्रयातिशायि-भुवनत्रयोत्कृष्टं, रूपलावण्यंस्वरूपसौन्दर्यं यस्यास्तादृश्याः पुनः नवीनवयसा यौवनावस्थया [ अ ] । पुनः कीदृशम् ? अनुजीविभिरिव भृत्यैरिव, कृतोर्ध्वावस्थानैः ऊर्ध्वमवस्थितैः, अङ्गिपैरपि वृक्षैरपि परिवृतं परिवेष्टितम् । पुनः अनिलदोलायितदलाभिः, अनिलेन - वायुना, दोलायितानि - उत्क्षिप्तानि, दलानि - पत्राणि यासां तादृशीभिः कदलीभिरपि पुनः चामरग्राहिणीभिरिवेत्युत्प्रेक्षा, वीज्यमानं पवनेन सम्पर्च्यमानम् । पुनः उपरिधृतसरलकाण्डसुरपादपया उपरिधृतः, सरलकाण्डः - सरलः - ऋजुः, काण्डः - स्कन्धो यस्य तादृशः, सुरपादपः- देववृक्षः पारिजात इत्यर्थः, यया तादृश्या, धरण्यापि पृथिव्यापि, गृहीतातपत्रयेव धृतच्छायेव, उत्सङ्गितं स्वकोडे स्थापितम् । पुनः तरुशाखान्तरप्रवेशित प्रांशुरविकरेण तरुशाखान्तरे - वृक्षशाखामध्ये, प्रवेशितः, प्रांशुः - उन्नतः, रविकरः- सूर्यकिरणो येन तादृशेन, अह्नापि दिनेनापि, प्रतिपन्नकनकवेत्रेणेव गृहीतसुवर्णदण्डेनेव, प्रकटितानुभावं प्रकटितः - प्रदर्शितः, अनुभावः- प्रभावो यस्य तादृशम् [ अ ] ।
१६ तिलक०
"Aho Shrutgyanam"