________________
१२०
टिप्पनक- परागविवृतिसंवलिता ।
स्त्यानतां गते पृथुनि कुरुविन्दमणिशिलातले निषण्णम्, अच्छशिशिरेण शैलेन्द्रमिव हिमद्रवेण चन्द्रातपरुचा दिव्यचन्दनेनापादमनुलिप्तम्, अतिविमलघनसूत्रेण संख्यानशास्त्रेणेव नवदशालङ्कृतेन श्वेतचीनवस्त्रद्वयेन संवीतम् [ ए ] अखिलदेहाभरणमणिसंक्रान्ताभिरासन्नचामरग्राहिणी प्रतिमाभिर्विद्यादेवताभिरिव सद्यः साधिताभिः सर्वतोऽधिष्ठितशरीरम्, आनाभिलम्बमभिनवं मौक्तिकप्रालम्बमद्याप्यशुष्कमभिषेकवारिकणकला वि हेमाचलशिलाविशालेन वक्षसा धारयन्तम् [ ऐ] निसर्गनिर्मला लोकाभ्यामभिनवं नयमार्गमुपदेष्टुममरगुरुभार्गवाभ्यामिवोपगताभ्यामिन्दुमणिकुण्डलाभ्यामाश्रितोभयश्रवणम्, अलिकतटसङ्गिना विततभास्वरेण कनकपट्टबन्धेन वलयितमुत्तमं मणिमुकुटमरिकुलविनाशार्थमुद्गतं तपनमण्डलमिव सपरिवेषमुत्तमाङ्गस्थमुद्रहन्तम्, इतस्ततः प्रहिततरलतारका भिर्दिग्भिरिव सेवागताभिश्चतसृभिर्वारवनिताभिरुद्धूयमानचामरम् [ओ]
टिप्पणकम् — कुरुविन्दः- पद्मरागमणिः । संख्यानशास्त्रेणेव नवदशालङ्कृतेन श्वेतची नवस्त्रद्वयेन संवीतम् संवेष्टितम्, एकन्न नवदशाङ्ककशोभितेन, अन्यत्र नूतन दशिकाराजितेन, संख्यानशास्त्रं - गणितशास्त्रम् [ ए ] । अलिकं-ललाटम् [ओ ] |
इत्यग्रेणान्वेति । कीदृशम् ? कुरुविन्दमणिशिलातले पद्मरागमणिमयशिलोपरि, निषण्णम् उपविष्टम् कीदृशे ? अमलांशुकाच्छादिते निर्मलसूक्ष्म श्लक्ष्णवस्त्रास्तीर्णे, पुनः किंशुकच्छविनि पलाशकुसुमसदृशरक्त कान्तिशालिनि, अत एव स्त्यानतां संहतावस्थां गते प्राप्ते, चरणारविन्दरुचिसन्तान इव चरणकमलकान्तिकला पश्चेत्युत्प्रेक्षा, पुनः पृथुनि विशाले । पुनः कीदृशम् ? हिमद्रवेण प्रालेयपङ्केन, शैलेन्द्रमिव हिमालयमिव, अच्छशिशिरेण धवलशीतलेन, चन्द्रातपरुचा चन्द्रकिरणकान्तिशालिना, दिव्यचन्दनेन स्वर्गीयचन्दनेन, चन्दनोत्तमेनेत्यर्थः, आपादं चरणपर्यन्तम्, अनुलिप्तम् कृतानुलेपनम् । पुनः अतिविमलघनसूत्रेण अतिविमलधनानि - अत्यन्तस्वच्छसान्द्राणि, सूत्राणि - तन्तवो यस्मिंस्तादृशेन, पुनः संख्यानशास्त्रेणेव गणितशास्त्रेणेव, नवदशालङ्कृतेन नवीनदशिकाशोभितेन, पक्षे नव-दशाङ्ककशोभितेन, श्वेतची नवस्त्रद्वयेन चीनदेशोद्भवधवलसूक्ष्मश्लक्ष्णवस्त्रयुगलेन, संवीतम् आवृताम् [ ए ] । पुनः अखिलदेहाभरणमणिसंक्रान्ताभिः शरीरालङ्करणभूताशेषमणिप्रविष्टाभिः आसन्नचामरग्राहिणीप्रतिमाभिः सन्निहितचामरधारिणीजनप्रतिबिम्बैः सद्यःसाधिताभिः तत्कालोपासनाप्रमोदिताभिः, देवताभिरिव विद्याधिष्ठातृदेवताभिरिव सर्वतः सर्वावयवावच्छेदेन, अधि.. ष्ठितशरीरं व्याप्तदेहम् । पुनः आनाभिलम्बं नाभिपर्यन्तं लम्बमानं पुनः अभिनवं नवीनं, मौक्तिकप्रालम्बं मुक्तामणिमयं कण्ठाधस्तादृग्लम्बि माल्यम्, अद्यापि अधुनापि, अशुष्कं शुष्कतामनापन्नम्, अभिषेकवारिकणाकलापमिव विद्याधरचक्रवर्तिपदाधिरोहणकालिकाभिषेकजलबिन्दुसन्दोहमिव, हेमा चलशिलाविशालेन सुमेरुशिला तुल्यविस्तारेण, वक्षसा उरःस्थलेन, धारयन्तं परिदधानम् [ ऐ ] । पुनः निसर्गनिर्मला लोकाभ्यां निसर्गेण - प्रकृत्या, निर्मल:- स्वच्छ:, आलोकः-प्रकाशो ययोस्तादृशाभ्याम्, अभिनवं नूतनं, नयमार्गं नीतिपथम् उपदेष्टुं शिक्षयितुम्, उपगताभ्यां कर्णान्तिकमागताभ्याम्, अमरगुरु भार्गवाभ्यामिव बृहस्पति शुक्राभ्यामिव, इन्दुमणिकुण्डलाभ्यां चन्द्रकान्तमणिमयकुण्डलाभ्याम्, आश्रितोभयश्रवणम् आश्रितम् - अधिष्ठितं विभूषितमिति यावत्, उभयं दक्षिणं वामं च, श्रवणं कर्णो यस्य तादृशम् । पुनः अलिकतटसङ्गिना ललाटप्रान्तलम्बिना, विततभास्वरेण विस्तृतद्युतिशालिना, कनकपट्टबन्धेन सुवर्णमयपट्टबन्धेन, वलयितं वेष्टितम् उत्तमम् उत्कृष्टम्, मणिमुकुटं मणिमय किरीटम्, अरिकुलविनाशार्थं वैरिवर्गविध्वंमनार्थम्, उद्गतम् उदितम्, पुनः सपरिवेषं परिवेषेण - उत्पातात्मकसूर्यतेजोमण्डलेन, सहितम्, उत्तमाङ्गस्थं मस्तकवर्ति, तपनमण्डलमिव सूर्यबिम्बमिव उद्वहन्तम् उपरि धारयन्तम् । पुनः इतस्ततः अत्र तत्र, प्रहिततरलतारकाभिः प्रहिताः - प्रक्षिप्ताः, तरला - चञ्चलाः, तारकाः-तारा याभिस्तादृशीभिः दिग्भिरिव प्राच्यादिचतुर्दिग्भिरिव, सेवागताभिः निषेवणार्थमुपस्थिताभिः, चतसृभिः चतुः संख्यिकाभिः, वारवनिताभिः वेश्याभिः उद्भूयमानचामरम् उद्धूयमानम्उद्वेल्यमानं, चामरं यस्मिंस्तादृशम् [ अ ] । पुनः कीदृशम् ? नरेन्द्रकन्यया विद्याधरराजकन्यया तिलकमञ्जर्या, सनाथी
"Aho Shrutgyanam"
·