________________
तिलकमञ्जरी
श्रवसि गृहीतसविशेषभूषणया स्मरप्रणयिन्या शतशोऽवतंसिता किसलयस्य दिङ्मुखविसर्पणक्षीणपरिमलेन मलयमरुता सततमापीतपरिमलस्य परिमण्डलतयातिमनोहरस्य नातिमहतः पारिजातकतरोर्निरन्तराभिरविरलस्तबकभारखर्वितशिखाभिः शाखाततिभिः समन्ततः स्थगितम् [ ऋॠ ] उभयतः कृतोर्ध्वावस्थानैः पृथुतरोरुस्तम्भशोभिभिः शरन्नभः सन्निभासितपत्रप्रभाश्यामायमानशरीरकान्तिभिः कदलीद्रुमैरिवापरैरुपरचितपङ्क्तिभिः पुरुषैः पुरोदर्शितदीर्घरध्यामुखम् [ ऌ ] अजिरकुट्टिमोपविष्टनिभृतभूपाललोकम्, एकदेशारब्धमधुरगानगाथकपेटकोपजुष्टम्, उद्धुष्टजयशब्द बन्दिवृन्दाध्यासितसविधभूभागमागृहीत कनकदण्डप्रतीहारमण्डलाधिष्ठितद्वारदेशम्, अभिरामदर्शनम्, आरामलक्ष्म्याः साक्षादिव चतुःशालम्, अतिविशालम्, अकठोर हारीतहरितप्रभं रम्भागृहमपश्यत् [ ऌ ] ।
तस्य च मध्यभागे कृतावस्थानम्, अमलांशुकच्छादिते किंशुकच्छविनि चरणारविन्द रुचिसंतान इव
एकम्,
११९
मुनिजनमनः स्खलितमार्गणप्रसरामर्षितेन मुनिजनानां - मुनिव्यक्तीनां मनोभ्यः - हृदयरूपलक्ष्येभ्यः, स्खलितेनच्युतेन व्यर्थीभूतेनेत्यर्थः, मार्गणप्रसरेण-बाणगणेन, अमर्षितेन क्रुद्धेन, कुसुमधनुषा कामदेवेन, असकृत् मुहुर्मुहुः, सायकीकृतकुसुमस्य सायकीकृतं - बाणरूपतामापादितं, कुसुमं - पुष्पं यस्य तादृशस्य, पुनः दक्षिणश्रवसि दक्षिणकर्णे, गृहीतसविशेषभूषणया गृहीतं धृतं सविशेषं प्रशस्तं भूषणम् - अलङ्करणं यया तादृश्या, स्मरप्रणयिन्या रतिसंज्ञिकया कामदेवप्रियया, शतशः शतधा, अवतंसिताः अलङ्करणीकृताः, अग्र किसलयाः पल्लवाग्रभागा यस्य तादृशस्य, पुनः दिङ्मुखविसर्पणक्षीणपरिमलेन दिङ्मुखविसर्पणेन-दिगन्तपर्यन्तवहनेन, क्षीणः- ध्वस्तः, परिमल:- श्रीखण्ड सौरभं यस्य तादृशेन, मलयमरुता मलयाचलपवनेन सततं निरन्तरम्, आपीतपरिमलस्य आपीतः - अपहृतः, परिमलो यस्य तादृशस्य, पुनः परिमण्डलतया वर्तुलाकारतया, अतिमनोहरस्य अतिसुन्दरस्य पुनः नातिमहतः अनतिदीर्घस्थूलस्य । कीदृशीभिः शाखाततिभिः ? निरन्तराभिः अतिसान्द्राभिः पुनः अविरलस्तबकभारखर्वितशिखाभिः अविरलानांनिरन्तराणां, स्तबकानां-पुष्पगुच्छानां भारेण, खर्विताः - हस्वीकृताः, अधोनमिता इत्यर्थः, शिखाः - अग्रभागा यासां तादृशीभिः [ऋ]। पुनः कीदृशं रम्भागृहम् ? कदलीद्रुमैरिव कदली वृक्षैरिव, उभयतः पार्श्वद्वये, कृतोर्ध्वावस्थानैः कृतम्, ऊर्ध्वम्उपरि, अवस्थानं-स्थितिर्यैस्तादृशैः पुनः पृथुतरोरुस्तम्भशोभिभिः पृथुतरः- अतिविशालो य ऊरुः - जानूपरिभागः, तद्रूपस्तम्भशोभि, पुनः शरन्नभःसन्निभासितपत्रप्रभाश्यामायमानशरीरकान्तिभिः शरन्नभसा - शरत्कालिका काशेन, तत्कान्त्येत्यर्थः, सन्निभा सिता - सम्यगुपमिता, पत्रप्रभाश्यामायमाना - पत्रप्रभाभिः - पत्रद्युतिभिः, श्यामायमाना - श्यामतामापाद्यमाना, शरीरकान्तिः - शरीरशोभा येषां तादृशैः, यद्वा शरन्नभः सन्निभा - शरत्कालिकगगनतुल्या, असितपत्राणां - श्यामकदलीदलानां, या कान्तिस्तया श्यामायमाना शरीरकान्तिर्येषां तादृशैः, पुनः उपरचितपङ्गिभिः वद्धश्रेणीकैः, अपरैः अन्यैः पुरुषैः पुरोदर्शितदीर्घरथ्यं पुरः - अग्रे, दर्शिता - दृष्टिगोचरकारिता, दीर्घा - विस्तृता, रथ्या- कदलीगृहमध्यवर्तिमार्गों यस्य तादृशम् [ल]। पुनः अजिरकुट्टिमोपविष्टनिभृतभूपाललोकम् अजिरकुट्टिमे प्राणवर्तिमणिबद्धभूमौ उपविष्टाः, निभृताः-स्थिराः, भूपाललोकाः- नृपजना यस्य तादृशम् । पुनः एकदेशारब्धमधुरगानगाथकपेटकोपजुष्टम् एकदेशे - एकभागे, आरब्धं - प्रवर्तितं मधुरं - श्रवणप्रियं, गानं यैस्तादृशानां, गायकानां - गाथकानां, पेटकैः - बाह्यमञ्जूषाभिः समूहैर्वा, उपजुष्टम्अधिष्ठितम् । पुनः उद्धुष्टजयशब्द बन्दिवृन्दाध्यासितसविधभूभागम् उद्घुष्टः - उच्चारितः, जयशब्दो बन्दिवृन्देन - स्तुतिपाठकजनगणेन, अध्यासितः - अधिष्टितः, सविधभूभागः - निकट भूमिप्रदेशो यस्य तादृशम् । पुनः आगृहीत कनकदण्डप्रतीहारमण्डलाधिष्ठितद्वारदेशम् आगृहीतः - उत्थापितः, कनकदण्डः - सुवर्णमयदण्डो येन तादृशेन, प्रतीहार मण्डलेन-द्वारपालगणेन, अधिष्ठितः - आक्रान्तः, द्वारदेशः - अन्तः प्रवेशनिर्गमदेशो यस्य तादृशम् । पुनः अभिरामदर्शनम् अभिरामं - मनोहरं, दर्शनं यस्य तादृशम् । पुनः आरामलक्ष्म्या : उद्यानश्रियः, साक्षात्, चतुःशालमिव अन्योन्याभिमुखशालचतुष्टयात्मकगृहविशेषमिव । पुनः अतिविशालम् अतिविस्तृतम् । पुनः एकम् अद्वितीयम् । पुनः अकठोरहारीतहरितप्रभम् अकठोरा - अतीत्रा, हारीतस्येव - पक्षिविशेषस्येव, हरितप्रभा - हरितकान्तिर्यस्य तादृशम् [ ] | तस्य निरुक्तकदलीगृहस्य, मध्यभागे अभ्यन्तरप्रदेशे, कृतावस्थानम् अवस्थितं, हरिवाहनम् अद्राक्षीत् दृष्टवान्,
"Aho Shrutgyanam"