________________
११८
टिप्पनक-परागविवृतिसंवलिता । संघातमिव नभसः शर्वरी विरह विनोदनागतम् [उ] अनिलसङ्गतरला भिरुष्णसमयमवजित्यावर्जिताभिर्वैजयन्तीविततिभिरिव प्रान्तपातितपनपादच्छेदनवाञ्छया व्यापारिताभिः परश्वधपरम्पराभिरिव पत्रराजिभिरव्यज्यमानविवराभिर्विराजितम् [ऊ] अविरतारब्धवारिच्छटासेककिङ्करपुरुषमध्यपतितेन शतपत्रकोशरजःकषायमुदकशीकरनिकरमादाय पुनरुक्तमापतता पर्यन्तसरसीसमीरणेन कौतुकादिव चतुर्दिशमुपसिच्यमानम् , उपरचितसिन्दूरकुट्टिमकमनीयाभ्यन्तरम् [ऋ] अन्तःप्ररूढस्य किञ्चिदारूढप्रौढेरुगाढसौकुमार्यावलीढसुदृढमूलस्य मूलभागकल्पितेनानल्पीयसा कार्तस्वरशिलापीठबन्धेन महार्हसिंहासनेनेव यथार्थीकृतसकलवनस्पत्याधिपत्यस्य प्रवालभङ्गमुग्धस्निग्धपल्लवालङ्कृतस्य मरकतहरितहारिपत्रनिवहनिवारितदिनेशदीधितिप्रवेशविशदच्छायस्य विसारिसौरभाहृताभिरपहायोपवनपादपानुपसर्पन्तीभिर्मदान्धमधुपधोरणीभिरहमहमिकयेव विलुप्यमानमञ्जरीजालकस्य मुनिजनमनःस्खलितमार्गणप्रसरामर्षितेन कुसुमधनुषासकृत्सायकीकृतकुसुमस्य दक्षिण
रथाधिष्ठितध्वजः, तन्निकुरम्ब-तत्समूहमिवः पुनः वीचिविघट्टनभ्रष्टं वीचिभिः-तरङ्गैः, विघटनेन-आघातेन, भ्रष्ट-पतितम् ,
बरमन्दाकिनीजम्बालकटमिव आकाशगङ्गाशैवालपुञ्जमिव; पुनः नमसः आकाशात् , शर्वरीविरहविनोदनागतं शर्वर्याः-रात्र्याः , यः, विरहः-विश्लेषः, तद्विनोदनाय-तन्निवारणाय, ३.वरीसम्पादनायेत्यर्थः, आगतम्-आपतितम् , अभ्रसमयध्वान्तसंघातमिव मेघकालिकान्धकारराशिमिवेत्युत्प्रेक्षा [3] । पुनः पत्रराजिभिः दलावलिभिः, विराजितं विशोभितम् , कीदृशीभिः ? अनिलसङ्गतरलाभिः पवनाघातचञ्चलाभिः, अत एव उष्णसमयं ग्रीष्मकालम् , अवजित्य पराजित्य, आवर्जिताभिः वर्षाकालेनावनमिताभिः, वैजयन्तीविततिभिरिव विजयपताकापरम्पराभिरिव, पुनः प्रान्तपातितपनपादच्छेदनवाञ्छया प्रान्तपातिनः-स्वनिकटाक्रामिणः, तपनस्य-सूर्यस्य, पादच्छेदनवाञ्छया-किरणकर्तनाकाङ्कया, व्यापारिताभिः-विक्षिप्ताभिः परश्वधपरम्पराभिरिव कुठारपतिभिरिव, पुनः अव्यज्यमानविवराभिः अलक्ष्यमाणान्तराभिः, सान्द्राभिरित्यर्थः । पुनः कीदृशम् ? पर्यन्तसरसीसमीरणेन प्रान्तस्यन्दिमहासरःपवनेन, कौतुकादिव खोत्कटस्नेहादिव, चतुर्दिशं परितः, उपसिच्यमानम्-आर्द्रतामापाद्यमानम् , कीदृशेन ? अविरतारब्धवारिच्छटासेककिङ्करपुरुषमध्यपतितेन अविरतं-निरन्तरम् , आरब्धः-प्रवर्तितः, वारिच्छटाभिः-जलधाराभिः, सेकः-क्षरणं यैस्तादृशानां, किङ्करपुरुषाणां-भृत्यजनानां, सेचनकर्मनियुक्तजनानामित्यर्थः, मध्यपतितेन-निपत्योपस्थितेन, शतपत्रकोशरज:कषायं शतपत्राणां-कमलानां, कोशेषु-वुङ्गलेषु, यानि रजांसि-पुष्परेणवः, तैः कषायं-किञ्चिद्रक्तम् , उदकशीकरनिकरं जलकणगणम् , आदाय गृहीत्वा, पुनरुक्तं पुनः पुनः, आपतता आगच्छता, वहतेत्यर्थः । पुनः कीदृशम् ? उपरचित । सिन्दूरकुट्टिमकमनीयाभ्यन्तरम् उपरचितेन-निर्मितेन, सिन्दूरकुट्टिमेन-रक्तमणिबद्धभूम्या, कमनीयं-मनोहरम् , अभ्यन्तर-मध्यं यस्य तादृशम् [ऋ] । पुनः कीदृशम् ? पारिजातकतरोः पारिजातकाख्यदिव्यवृक्षस्य, शाखाततिभिः शाखासमूहैः, समन्ततः सर्वतः, स्थगितम् आवृतम् , कीदृशस्य? अन्तःप्ररूढस्य अभ्यन्ताङ्कुरितस्य, पुनः किञ्चिदारूढ़प्रौढेः किञ्चिदारूढा--किञ्चिदवाप्ता, प्रौढिः-प्रागल्भ्य, तारुण्य मित्यर्थः येन तादृशस्य, पुनः उद्दाढसौकुमार्यावलीढदृढमूलस्य उद्गाढेन-अत्यन्तेन, सौकुमार्येण-मार्दवेन, अवलीढम्-आक्रान्तं, दृढं मूलं यस्य तादृशस्य, पुनः महार्हसिंहासनेनेव प्रशस्तनृपासनेनेव, मूलभागकल्पितेन अधोभागरचितेन, अनल्पीयसा अत्यन्तबृहदाकारेण, कार्तस्वरशिलापीठबन्धेन सुवर्णमयशिलाफलकबन्धेन, यथार्थीकृतसकलवनस्पत्याधिपत्यस्य यथार्थीकृतं-सार्थकीकृतं, सकलवनस्पतीनां समस्तवृक्षाणाम् , आधिपत्यम्-अधिपतित्वं यस्य तादृशस्य, पुनः प्रवालभङ्गमुग्धस्निग्धपल्लवालकृतस्य प्रवालभङ्गवत्-विद्रुमखण्डवत् , मुग्धैः-सुन्दरैः, रक्तरित्यर्थः, स्निग्धैः-सरसैः, पल्लवैः-अभिनवदलैः, अलङ्कृतस्य-विभूषितस्य, पुनः मरकतहरितहारिपत्रनिवहनिवारितदिनेशदीधितिप्रवेशविशदच्छायस्य मरकतस्य-तदाख्यहरितमणेः, यः हरितः-हरितकान्तिः, तद्धारिणा-तदपहारिणा, पत्रनिवहेन-पत्रगणेन, निवारितः-निरुद्धः, दिनेशदीधितीनां-सूर्यकिरणानां, प्रवेशो यस्यां तादृशी, विशदास्वच्छा, छाया यस्य तादृशस्य, पुनः विसारिसौरभाहृताभिः विसारिभिः-विस्तारिभिः, सौरभैः-सुगन्धैः, आहृताभिःआकृष्टाभिः, उपवनपादपान् उद्यानवृक्षान् , अपहाय त्यक्त्वा, उपसर्पन्तीभिः आपतन्तीभिः, अहमहमिकयेव परस्पर्धयेव, विलुप्यमानमञ्जरीजालकस्य विलुप्यमानं-विच्छिद्यमानं, मञ्जरीजालं-मञ्जरीपुञ्जो यस्य तादृशस्य, पुनः
"Aho Shrutgyanam"