________________
तिलकमञ्जरी
११७
रतिरसतरङ्गिणीपूरायमाणस्तरुगहनान्तरितमूर्तेर्गाथकजनस्य प्रबलवेणुवीणाविलाससंवलनतारो गीतझात्कारः कर्णमूलमविशत् [ई] ।
तेन च मनुष्यलोकदुःश्रवेण श्रवणेन्द्रियाह्लादिना सुहृदवस्थानलीलापिशुनेन श्रवणविषयमुपसेदुषा दिव्यगीतशब्देनोत्सार्य गाम्भीर्य मुद्गताश्रुबिन्दुक्किन्नलोचनोदरेण कठोरपुलकपक्ष्मलितकपोलभित्तिना स्मितज्योत्स्नाविशदेन वदनशशिना व्यक्तीकृतं हर्षवैकृतं नियन्तुमितस्ततो दृष्टिपातैः कृतालीकचित्तव्याक्षिप्तिः, अभ्यर्णेष्टसमागमप्रीतिरसविसंस्थूलैरखिलाङ्गैः परवानिव, अनेकसहस्रसंख्यानामेकनीलवर्णमिव विश्वं दर्शयितुमुत्थितानां पृथक्पृथग्वीथीक्रमनिर्मितानामपि परस्परसंपर्किणातिमांसलेन हसितनीलीरसनीलिन्ना प्रभाप्लवेन निर्विभागानामिव विभाव्यमानानां भुवनविजयप्रवृत्तमकरध्वजगजानीककदलिकासंदोहसंदेहदायिनां कदलीगृहाणामन्तरेण स्तोकान्तरमतिक्रम्य अङ्घ्रिपच्छायाकलापमिव पल्लवितमश्वकान्तिहरितं हरिदश्वरथपताकानिकुरम्बमिव प्रतिबिम्बितमम्बरमन्दाकिनीजम्बालकूटमिव वीचिविघट्टनभ्रष्टमभ्रसमयध्वान्त
कण्ठकन्दलीदीर्घेण दीर्घीकृतकण्ठनालगम्भीरेण, कूजितेन अव्यक्तशब्देन, क्रियमाणषड्जस्वरानुवाद इव क्रियमाणः, षड्जस्वरस्य-तदाख्यखरस्य, अनुवादः - प्रतिध्वननं यस्मिंस्तादृश इवः पुनः रतिरसतरङ्गिणीपूरायमाणः प्रीतिरसनदीप्रवाहायमाणः; पुनः प्रवलवेणुवीणाविलाससंवलनतारः प्रबलैः - प्रचुरैः, वेणूनां - वंशवाद्यविशेषाणां, वीणानां च, विलासैः-ध्वनिसौष्ठवैः, संवलनेन - सम्पर्केण, तारः - अत्यन्ततीत्रः कस्य गीतझात्कारः ? तरुगहनान्तरितमूर्तेः वृक्षवृन्दाच्छन्नशरीरस्य, गाथकजनस्य गानकुशलजनस्य [ई]
च पुनः, मनुष्यलोकदुःश्रवेण मनुष्यलोकैः - मनुष्यजनैः, दुःखेन श्रोतुं शक्येन, श्रवणेन्द्रियाह्लादिना श्रवणेन्द्रियप्रसादकेन, सुहृदवस्थानलीलापिशुनेन सुहृदः - मित्रस्य, हरिवाहनस्येत्यर्थः, अवस्थानं - तत्र स्थितिः, तल्लीला पिशुनेनतद्विलाससूचकेन, श्रवणविषयं श्रवणगोचरताम्, उपसेदुषा प्राप्तवता, तेन अधुनैवोपवर्णितेन, दिव्यगीतशब्देन मनोहरगानशब्देन, गाम्भीर्यं हर्षविकार संवरणकौशलम् उत्सार्य परित्यज्य, उद्गताश्रुविन्दुक्लिन्नलोचनोदरेण उद्गतैःउत्थितैः, अश्रुबिन्दुभिः-अश्रुकणैः, क्लिन्नम् - आर्द्रीकृतं, लोचनोदरं - नयनमध्यं यस्मिंस्तादृशेन, पुनः कठोरपुलकपक्ष्मलितकपोल भित्तिना कठोरैः, पुलकैः - रोमाञ्चैः, पक्ष्मलिता - पूरिता, कपोलभित्तिः - गण्डस्थली यस्मिंस्तादृशेन, पुनः स्मितज्योत्स्नाविशदेन मन्दहासमरीचिधवलेन, वदनशशिना मुखचन्द्रेण व्यक्तीकृतं प्रकटीकृतं, हर्षवैकृतं हर्षोद्गारं, नियन्तुं संवरीतुम्, इतस्ततः अत्र तत्र दृष्टिपातैः दृष्टिविक्षेपैः कृतालीकचित्तव्याक्षिप्तिः कृता-विहिता, अलीका - कृत्रिमा, चित्तव्याक्षिप्तिः–चित्तव्यग्रता येन तादृशः, अभ्यर्णेष्ट समागमप्रीतिरसविसंस्थूलैः अभ्यर्णेन-निक्टेन, इष्टसमागमेनहरिवाहनाख्यप्रियजनसङ्गमेन यः प्रीतिरसः - प्रसादात्मको रसः, तेन विसंस्थूलैः -शिथिलैः, अखिलाङ्गैः सर्वावयवैः, परवानिव पराधीन इव, नियन्त्रित इवेत्यर्थः, समरकेतुरित्यर्थः, अनेकसहस्रसंख्यानां बहुसहस्रसंख्यावताम्, पुनः विश्वं जगन्मण्डलम्, एकनीलवर्ण नीलरूपैकवर्ण, दर्शयितुमिव, उत्थितानाम् उद्गतानाम्, पुनः पृथक्पृथग्वीथीक्रमनिर्मितानामपि भिन्नभिन्नपङ्किक्रमनिवेशितानामपि परस्परसंपर्किणा परस्परसंकीर्णेन, अतिमांसलेन अत्यन्तसान्द्रेण पुनः हसितनीली सनी लिम्ना हसितः - तिरस्कृतः, नील्याः - नीलवर्णौषधिविशेषस्य, यो रसः - द्रवः, तत्सम्बन्धी नीलिमा- नीलकान्तिर्येन तादृशेन, प्रभावेन कान्तिकलापेन, निर्विभागानामिव संश्लिष्टानामिव विभाव्यमानानां लक्ष्यमाणानां पुनः भुवनविजयप्रवृत्तमकरध्वजगजानीककदलिका सन्दोहसन्देहदायिनां भुवनविजये - जगद्वशीकरणे, प्रवृत्तस्य, मकरध्वजस्यकामदेवस्य, ये गजानीकाः - गजसैन्याः, तत्सम्बन्धिक दलिकानां - तत्सम्बन्धिपताकानां, संदोहस्य- विचारस्य, सन्देहदायिनां - सन्देहकारिणां कदलीगृहाणां रम्भास्तम्भमयगृहाणाम्, अन्तरेण मध्येन, स्तोकान्तरं किञ्चिद्दूरम्, अतिक्रम्य लङ्घित्वा, गत्वेत्यर्थः, ‘एकं रम्भागृहं कदलीगृहम् अपश्यत् दृष्टवान्' इत्यप्रेणान्वेति कीदृशम् ? पल्लवितं प्रवृद्धम्, अङ्घ्रिपच्छायाकलापमिव वृक्षच्छायासमूहमिव; पुनः अश्वकान्तिहरितम् अश्वकान्तिभिः - अश्वक्षुतिभिः, अश्वकान्तिवद् वा हरितं - हरितवर्णम् ; पुनः प्रतिबिम्बितं प्रतिबिम्बात्मनाऽऽपतितं, हरिदश्वरथपताका निकुरम्बमिव हरिदश्वस्य - सूर्यस्य, या रथपताका
"Aho Shrutgyanam"