________________
टिप्पनक-परागविवृतिसंवलिता । वलमानस्तब्धकर्णशुक्तियुगलमनवरतचरणाग्रवल्गनायासितवल्गावलग्नप्रेष्यपुरुषपरुषहुङ्कारपुनरुक्तोन्नमनिमांसमुखनालमापूरितवनान्तरालतरुतलमतुलमश्ववृन्दमद्राक्षीत् [इ]।
___दृष्ट्वा च विस्मितमनसः 'सरस्तीरातिमुक्तकलतामन्दिरोदरप्रसुप्तेन निद्राविरामे मया श्रुतो यः श्रुतिपथोन्माथी हेषाध्वनिः स नूनममुना सरोभ्यर्णचारिणा प्रथममिदमुद्यानमवतरता तुरङ्गव्यूहेन कृतः' इति वितर्कयत एवास्य मकरकेतुसैन्यास्फालितचापसहस्रनि?षमांसलो गृहागतहरिवाहनप्रहर्षप्रनृत्ताया रसनाकलापरव इवोद्यानश्रियो दशनार्धगृहीतदर्भगर्भस्थलीस्थितप्रोथपुटान्युत्कोटिविषाणच्छलेन स्थूलशूलप्रोतानीवातिनिश्चलानि मुखान्युहमानैरामीलित दृष्टिभिः कृष्णसारैः श्रूयमाण इतस्ततस्तारकितभूतलमानन्दाश्रुबिन्दुविसरमिव कुसुमप्रकरमनवरतमुत्सृजद्भिः विरहकविटपैः सूच्यमानपञ्चमस्वरप्रवृत्तिरामन्द्रास्फालितमृदङ्गनादोत्कण्ठितानां च शितिकण्ठवयसामुदञ्चितकण्ठकन्दलीदीर्पण क्रियमाणषड्जस्वरानुवाद इव कूजितेन
wwwww
टिप्पनकम्-प्रोथं-तुण्डम् , उदञ्चिता-दीर्घाकृता [ई ] ।
त्वरया, वलमान-कम्पमानं, स्तब्धं-निश्चलं, कर्णरूपं,शुक्तियुगलं-शुक्तिद्वयं यस्य तादृशम् ; पुनः अनवरतचरणाग्रवल्गनायासितवल्गावलग्नप्रेष्यपुरुषपरुषहुङ्कारपुनरुक्तोन्नमन्निौंसमुखनालम् अनवरतं-निरन्तरं, चरणाग्रवल्गनेन-खुराप्रोत्क्षेपणेन, आयासितस्य-श्रमितस्य, वल्गावलग्नस्य-अश्वमुखरजुधारकस्य, प्रेष्यपुरुषस्य-भृत्यजनस्य, परुषैः-कठोरैः, हुङ्कारैःपुनरुक्तः-पुनर्मुखरितः, उन्नमन् , निर्मासः-मांसशून्यः, मुखनालः-मुखकाण्डो यस्य तादृशम् ; पुनः आपूरितवनान्तरालतरुतलम् आपूरितं-व्याप्त, वनान्तरालतरुतलं-बनमध्यवर्तिवृक्षाधःस्थलं येन तादृशम् [3]
__च पुनः, दृष्ट्वा अश्ववृन्दं दृष्टिगोचरीकृत्य, विस्मितमनसः आश्चर्यापन्नहृदयस्य, सरस्तीरातिमुक्तकलतामन्दिर उप्तेन सरसः-निरुक्तसरोवरस्य, तीरे यत् अतिमुक्तकलतामन्दिरं-माधवीलतामण्डपः, तदुदरे-तन्मध्ये, प्रसप्तेननिद्राणेन. मया निद्राविरामे निद्राक्षये सति, श्रुतिपथोन्माथी श्रवणमार्गव्यथकः, हेषाध्वनिः अश्वशब्दः, श्रुतः श्रवणगोचरीकृतः, सः, सरोऽभ्यर्णचारिणा प्रकृतसरोवरान्तिके भ्रमणकारिणा, अमुना दूरपुरोवर्तिना, तुरङ्गव्यूहेन अश्ववृन्देन, इदं प्रत्यक्षभूतम् , उद्यानं प्रकृतोपवनम् , प्रथमम् , अवतरता प्रविशता, नूनं निश्चयेन, कृतः, इति वितर्कयत एव, अस्य समरकेतोः, गीतझात्कारः गानध्वनिः, कर्णमूलं कर्णविवरम् , अविशत् प्रविष्टवान् ; कीदृशः ? मकरकेतुसैन्या- . स्फालितचापसहस्त्रनि?षमांसल: मकरकेतोः-कामदेवस्य, सैन्यैः-सैनिकैः, आस्फालितस्य-आकृष्टस्य, चापसहस्रस्यधनुःसहस्रस्य, निर्घोषैः-टङ्कारैः, मांसलः-सान्द्रः; पुनः गृहागतहरिवाहनप्रहर्षप्रवृत्तायाः गृहागतेन हरिवाहनेन यः प्रहर्षः-अत्यन्तहर्षः, तेन प्रनृत्तायाः-अतिनृत्यप्रवृत्तायाः, उद्यानश्रियः प्रकृतोपवनलक्ष्म्याः , रसनाकलापरव इव काञ्चीनिचयझणत्कार इव; पुनः कृष्णसारैः मृगविशेषः, श्रूयमाणः, कीदृशैः? दशनार्धगृहीतदर्भगर्भस्थलीस्थितप्रोथपुटानि दशनार्धन-दन्तार्धेन, गृहीताः, दर्भाः-कुशाः, गर्भे-मध्ये, यस्यास्तादृश्यां, स्थल्याम्-अकृत्रिमभूमो, स्थितः प्रोथपुटः- नासापुटो मुखपुटो वा येषां तादृशानि, पुनः उत्कोटिविषाणच्छलेन उत्-उत्कृष्टा तीक्ष्णा, कोटि:-अग्रभागो येषां तादृशानां विषाणानां-दन्तानां, छलेन-व्याजेन, स्थूलशूलप्रोतानि इव स्थूलैः, शूलैः-बाणैः, प्रोतानि-व्याप्तानि इव, अतिनिश्चलानि अतिस्थिराणि मुखानि, उद्वहमानैः धारयद्भिः, पुनः आमीलितदृष्टिभिः आमीलिता-मुद्रिता, दृष्टि:-नेत्रं यैस्तादृशैः; पुनः कीदृशः इतस्ततस्तारकितभतलम इतस्ततः-अत्र तत्र, तारकितं-सजाततारक, भूतलं येन तादृशम् , पुनः आनन्दाथबिन्दुविसरमिव आनन्दजन्यनेत्राम्बुकणगणमिव, कुसुमप्रकरं पुष्पपुञ्जम् , अनवरतं निरन्तरम् , उत्सृजद्धिः उत्क्षिपद्भिः, विरहकविटपैः विरहवृक्षैः, सूच्यमानपञ्चमस्वरप्रवृत्तिः सूच्यमाना-प्रत्याय्यमाना, पञ्चमखरस्य-पञ्चमाख्यस्वरविशेषस्य, प्रवृत्तिः-संचारो यस्मिंस्तादृशः; च पुनः, आमन्द्रास्फालितमृदङ्गनादोत्कण्ठितानाम् आमन्द्रम्-अतिगम्भीरं यथा स्यात् तथा, यद्वा आमन्द्रः-अतिगम्भीरैः, आस्फालितस्य-ताडितस्य, मृदङ्गस्य-तदाख्यवाद्यविशेषस्य, नादैःध्वनिभिः, उत्कण्ठितानां-घनगर्जनभ्रान्त्या तेजितानां, शितिकण्ठवयसां नीलकण्ठपक्षिणां मयूराणामिति यावत् , उदश्चित
"Aho Shrutgyanam"