________________
तिलकमञ्जरी काश्चिदिन्द्रनीलप्रकृतीरुपान्तज्वलन्मणिप्रदीपप्रतिबिम्बकरम्बितावयवतया निश्चलोल्काकलापदन्तुरमुत्पातान्तरिक्षमिवाक्षिपन्तीः [अ], रूपान्तरनिरीक्षणप्रवर्धमानाक्षेपतया मन्दीभूतहरिवाहनदिदृक्षारसः क्षरदमन्दानन्दबाष्पवृष्टिललाटघटिताञ्जलिपुटः गौरवाकृष्टेनेव सुदूरमवनमता मुहुर्मुहुरुत्तमाङ्गेन वन्दमानो जिनानामजितादीनामप्रतिमशोभाः प्रतिमाः प्रदक्षिणीकृतमूलायतनस्तत्कालम् 'इत इतो गम्यताम्' इत्यभिधाय पुरः स्थितेन स्कन्धदेशारोपितकृपाणयष्टिना गन्धर्वकेणोपदिश्यमानसरणिरुत्तरप्राकारप्रतोलिकया निर्जगाम [आ ] ।
__ गत्वा च किश्चिदन्तरमुत्तरदिग्विभागेनोद्यानस्य दूरादेव रदनविघट्टनजन्मनाऽतिमुखरेण खरखलीनखणखणारवेणाऽनुमीयमानमाननस्रस्तपाण्डुरफेनपिण्डस्तबकतारकितभूतलमालोलकर्णचामरशिखाहतिविषमविकूणितेक्षणं पर्याणवर्धपर्यन्तोद्गतदरार्द्धश्यावफेनराजिव्यज्यमानदूरागमनखेदमितस्ततः शब्दानुसारसंभ्रम
टिप्पनकम्-खलीनं-कविकम् [इ] ।
अवयवान् , दधतीःधारयन्तीः,पुनः काश्चित् का अपि, इन्द्रनीलप्रकृतीः इन्द्रनील:-नीलमणिः, प्रकृतिर्यासांतादृशीः, तन्मयीरित्यर्थः, उपान्तज्वलन्मणिप्रदीपप्रतिबिम्बकरम्बितावयवतया उपान्ते-सन्निधौ,ज्वलता-दीप्यमानानां, मणिप्रदीपानां, प्रतिबिम्बैः, करम्बिताः-व्याप्ताः, अवयवाः-यासां तादृशतया, निश्चलोल्काकलापदन्तुरं निश्चलोल्काकलापैः-तेजोविकारपुजैः, दन्तुरं-पूर्णम् , उत्पातान्तरिक्षं प्रलयकालिकगगनम् , आक्षिपन्तीरिव तिरस्कुर्वन्तीरिवेति सर्वत्रोत्प्रेक्षा अजितादीनां अजितनाथप्रभृतीनां, जिनानाम् , अप्रतिमशोभाः अनुपमशोभामयीः, प्रतिमाः मूर्तीः, रूपान्तरनिरीक्षणप्रवर्धमानापेक्षतया रूपान्तरनिरीक्षणे-अन्यान्यरूपदर्शने, प्रवर्धमाना-अत्यन्तं वर्धमाना, अपेक्षा-आकाङ्क्षा यस्य तादृशतया, मन्दीभूतहरिवाहनदिदृक्षारसः मन्दीभूतः-मान्द्यमापन्नः, हरिवाहनदिदृक्षारसः-हरिवाहनदर्शनौत्सुक्यं यस्य तादृशः, क्षरदमन्दानन्दबाष्पवृष्टिः क्षरन्ती-स्यन्दमाना, अमन्दानन्देन-अत्यन्तानन्देन, बाष्पवृष्टिः-अश्रुधारा यस्मिंस्तादृशः, पुनः ललाटघटिताञ्जलिपुटः ललाटे-भालतले, घटितः-निवेशितः, अञ्जलिपुटः-सम्पुटितपाणियुगलं येन तादृशः सन् , गौरवाकृष्टेनेव अञ्जलिभाराकृष्टेनेव, मुहुर्मुहुः पुनः पुनः, सुदूरम् अतिदूरम् , अवनमता अधोगच्छता, उत्तमाङ्गेन शिरसा, वन्द्यमानः वन्दनं कुर्वाणः, प्रदक्षिणीकृतमूलायतनः प्रदक्षिणीकृतं-प्रदक्षिणक्रमेण पर्यटितं, मूलं-प्रधानम् , आयतनं-मन्दिरं येन तादृशः, इत इतः अत्र अत्र, गम्यतां मार्ग आरुह्यताम् , इति इत्थम् , अभिधाय कथयित्वा, तत्कालं तस्मिन्नेव क्षणे, पुरः अग्रे, स्थितेन कृतस्थितिना, स्कन्धदेशारोपितकृपाणयष्टिना स्कन्धदेशे-स्कन्धतले, आरोपिता-स्थापिता, कृपाणयष्टिःखगदण्डो येन तादृशेन, गन्धर्वकेण तदाख्यप्रकृतविद्याधरबालकेन, उपदिश्यमानसरणिः उपदिश्यमाना-प्रदर्यमाना, सरणिः-मार्गों यस्य तादृशः, समरकेतुरिति शेषः, उत्तरप्राकारप्रतोलिकया उत्तरप्राकारस्य - उत्तरदिग्वर्तिप्राकारभागस्य प्रतोलिकया-द्वारमार्गेण, निर्जगाम बहिर्ब आ ।
च पुनः, उद्यानस्य प्रकृतारामस्य, उत्तरदिग्भागेन उत्तरदिग्वर्तिना मार्गेणेत्यर्थः, किञ्चित् ईषत् , अन्तरं दूर, गत्वा, अश्ववृन्दम् अश्वयूथम् , अद्राक्षीत् दृष्टवानित्यग्रेणान्वेति; कीदृशम् ? दादेव दूरदेशादेव, खरखलीनखणखणारवेण खरस्य-कठोरस्य, खलीनस्य- खुरस्य यः, खणखणारवेण-खणखणात्मकः, रवः-ध्वनिस्तेन, अनुमीयमानम् अनुमितिगोचरीक्रियमाणम् , कीदृशेन ? रदनविघट्टनजन्मना दन्तविश्लेषणजन्येन; पुनः आननस्रस्तपाण्डुरफेनपिण्डस्तबकतारकितभूतलम् आननस्रस्तानां-मुखस्खलितानां, पाण्डुरफेनानां-श्वेतलालानां, पिण्डस्तबकेन-पिण्डपुजेन, तारकितं-सञ्जाततारक, भूतलं-पृथ्वीपृष्ठं येन तादृशम् ; पुनः आलोलकर्णचामरशिखाहतिविषमविकूपितेक्षणम् आलोलयोः-अतिचञ्चलयोः, कर्णचामरयोः-कर्णरूपयोश्चामरयोः, शिखाभ्याम्-ऊर्श्वभागाभ्याम् , आहत्या-आघातेन, विषम-विलक्षणं यथा स्यात् तथा, विकूणिते-निमीलिते, ईक्षणे-नयने येन तादृशम् ; पुनः पर्याणवर्धपर्यन्तोद्गतदरार्द्धश्यावफेनराजिव्यज्यमानदरागमनखेदं पर्याणवर्धपर्यन्ते-पृष्ठास्तरणचर्मप्रान्ते, उद्गताभिः-उत्पतिताभिः, दरार्द्धश्यावाभिः-किञ्चित्कृष्णपीतवर्णाभिः, फेनराजिभिः-मुखस्यन्दिलालापतिभिः, व्यज्यमानः-लक्ष्यमाणः, दूरागमनखेदः-दूरागमनश्रमो यस्य तादृशम् । पुनः इतस्ततः शब्दानुसारसम्भ्रमवलमानस्तब्धकर्णश युगलम् इतस्ततः-अत्र तत्र, शब्दानुसारेण-शब्दश्रवणजन्येन, सम्भ्रमेण
"Aho Shrutgyanam"