________________
११४
टिप्पनक-परागविवृतिसंवलिता। कुसुमसमृद्धपादपोत्तरमुत्तरं भूभागमध्यास्ते [क्ष ]।' इत्यावे दिते समरकेतुरेकहेलयोत्तीर्णनिखिलदुःखभारः प्रशान्तनिःशेषहृदयातङ्कतया क्षीरसागरोदर इव क्षिप्तममृतनिर्झरैरिव प्लावितं हरशिरःशशाङ्केनेवाङ्कमारोपितमुद्वहन्नानन्दनिर्भरमात्मानमतिदूरविकसितेक्षणो मत्तवारणकादुदतिष्ठत् [ज्ञ] ।
निर्गत्य च मठात् प्रत्यअखं प्रचलितः क्रमेण तेषां प्रागुपवर्णितानामा दिदेवायतनपर्यन्तवर्तिनां स्फाटिकप्रासादानामन्तःप्रतिष्ठिताः काश्चित् पुष्परागनिर्मिताः समन्ततः प्रसृतबहलोद्दयोतबद्धपरिवेषमण्डलतया समवसतिसालमध्यवर्तिनीरिव विराजमानाः, काश्चित् पद्मरागमयीमहानीलसिंहासनोल्लसितकान्तिसंततिसंगत्या परित लिनकालमेघपटलान्तरितविग्रहं ग्रहग्रामण्यमिव निगृह्णतीः, काश्चिञ्चन्द्रकान्तनिर्वृताः सर्वपथीनदीप्तिपटलाप्लावितभद्रपीठतया क्षीरोदसलिलक्षाल्यमानमेरुपृष्ठां जन्माभिषेकलीलामिव दर्शयन्तीः, काश्चिन्मरकतप्रभवाः प्रभाप्रवाहहरितायमानकान्तिनिर्भरतया शेवालितलावण्यजलानीवाङ्गानि दधती:,
टिप्पनकम्-ग्रहग्रामण्यं चन्द्रम् [अ]।
पोत्तरम् अनेकैः-बहुभिः, फलकुसुमसमृद्धैः-फलपुष्पपूर्णैः, पादपैः-वृक्षैः, उत्तरम्-उत्कृष्टम् , उत्तरम् उदीच्यम् , भूभाग. भूमिप्रदेशम् , अध्यास्ते अधितिष्ठति [क्ष]। इति इत्थम् , आवेदिते विज्ञापिते सति, समरकेतुः, एकहेलया युगपत् , उत्तीर्णनिखिलदुःखभारः उत्तीर्णः-त्यक्तः, निखिलानां-समस्तानां, दुःखानांभारो येन तादृशः, प्रशान्तनिःशेषहृदयातङ्कतया प्रशान्तः-निवृत्तः, निःशेषः-समस्तः, हृदयातङ्कः-हृदयतापो यस्य तादृशतया, क्षीरसागरोदरे क्षीरसमुद्रमध्ये, क्षिप्तमिव निहितमिव, पुनः अमृतनिझरैः अमृतप्रवाहैः, प्लावितमिव प्रवाहितमिव, पुनः हरशिरःशशाङ्केन शिवमस्तकवर्तिचन्द्रेण, अङ्क स्वक्रोडम्, आरोपितमिव अध्यासितमिव, आनन्दनिर्भरम् आनन्दपूर्णम् , आत्मानं स्वम्, उद्वहन् धारयन् , अतिदूरविकसितेक्षणः अत्यन्तदूरपर्यन्तविस्तृतदृष्टिः सन् , मत्तवारणकात् स्थानविशेषात् , उदतिष्ठत् उत्थितवान् [ज्ञ]|
च पुनः, मठात् निरुक्तनिवासात् , निर्गत्य निःसृत्य, प्रत्यङ्मुखं पश्चिममुखं यथा स्यात् तथा, प्रचलितः प्रयातः, क्रमेण पर्यायेण, तेषां प्रकृतानां, प्रागुपवर्णितानां वर्णितपूर्वाणाम् , आदिदेवायतनपर्यन्तवर्तिनाम् आदिदेवस्यनाभिनन्दनस्य, यत् आयतनं- मन्दिरं, तत्पर्यन्तवर्तिनां-तत्प्रान्तवर्तिनाम् , स्फाटिकप्रासादानां स्फाटिकाख्यमणिमयमहागृहाणाम् , अन्तः मध्ये, प्रतिष्ठिताः अधिष्ठिताः, काश्चित् कतिपयाः, पुष्परागनिर्मिता पद्मरागाख्यरक्तमणिमयीः, अत एव समन्ततःप्रसृतबहलोद्योतबद्धपरिवेषमण्डलतया समन्ततः-सर्वतः, प्रसृतैः-विस्तृतैः, बहलैः-प्रचुरैः, उद्योतैःप्रकाशैः, बद्ध-रचितं, परिवेषमण्डलं-परिधिविस्तारो याभिस्तत्तया, समवसतिसालमध्यवर्तिनीरिव समवसरणप्रकारान्तर्वर्तिनीरिव, विराजमानाः शोभमानाः। पुनः काश्चित् कतिपयाः, पद्मरागमयीः रक्तमणिनिर्मिता अपि, स्वयं रक्तकान्तीरपीत्यर्थः, महानीलसिंहासनोल्लसितकान्तिसन्ततिसङ्गत्या महानील:-इन्द्रनीलमणिः, तन्मयं यत् सिंहासनं-महाऽऽसनं, तस्य या उल्लसिता उज्वलिता, कान्तिसन्ततिः-द्युतिधारा, तत्सङ्गत्या- तन्मिश्रणेन, परितलिनकालमेघपटलान्तरितविग्रहं परितलिनं-सर्वतः खच्छं विरलं वा, यत् कालं-श्यामलं, मेघपटलं-मेघमण्डलं, तदन्तरितविग्रह-तत्तिरोहितमूर्ति, ग्रहग्रामण्यं ग्रहपति, सूर्यमित्यर्थः, निगृह्णातीरिव तिरस्कुर्वन्तीरिव । पुनः काश्चित् का अपि, चन्द्रकान्तनिवृता चन्द्रकान्तमणिमयीः, सर्वपथीनदीप्तिपटलाप्लावितभद्रपीठतया सर्वपथीनानां-सकलमार्गव्यापिनीनां, सर्वतोमुखीनामित्यर्थः, दीप्तीनां-कान्तीनां, पटलेन-पुजेन, आप्लावितं-व्याप्तं, भद्रपीठं-सिहासनं यासां तादृशतया, क्षीरोदसलिलक्षाल्यमानमेरुपृष्ठां क्षीरोदसलिलैःक्षीरसागरजलैः, क्षाल्यमानं-सिच्यमानं, मेरुपृष्ठ-सुमेरुसानुर्यस्यां तादृशी,जन्माभिषेकलीलां जन्मकालिकाभिषेकोत्सवं, दर्शयन्तीरिव प्रकटयन्तीरिव । पुनः काश्चित् का अपि, मरकतप्रभवाः हरितमणिमयीः, प्रभाप्रवाहरितायमानकान्तिनिर्भरतया प्रभाप्रवाहेण-दीप्तिधारया, हरितायमाना-हरितरूपतयाऽवभासमाना या कान्तिः, तन्निर्भरतया-तत्पूर्णतया, शेवलितलावण्यजलानीव सञ्जातः, शेवल:-जलतृणविशेषो यस्मिंस्तादृशं, लावण्यजलं-सौन्दर्यरूपं जलं येषु तादृशानीव, अङ्गानि
"Aho Shrutgyanam"