________________
तिलकमञ्जरी
कथा, उत्तिष्ठ तावद्, भव प्रष्ठो मे, प्रतिष्ठस्व कतिचित् पदानि [ह] । पश्याद्यैव संसिद्धसकलविद्यमचिरानुभूतभुवनत्रयाद्भुतमहाराज्याभिषेकमङ्गलमासादितमहार्हविद्याधरचक्रवर्तिपदमुन्मयूखमाणिक्यखण्डखचितकाञ्चनकिरीटभास्वर शिरोभिः खेचरेश्वरैः प्रणम्यमानपादपङ्कजं सहस्राक्षमिव साक्षादवनिमवतीर्ण भ्रातरमात्मीयम् । अनुभवाभिमानसलिलसेकसंवर्धितस्य दुःसहानेकमार्गदुःखोपनिपातदुर्वात विद्रवैरप्यनिन्दितप्रसरस्य निरत्ययप्रदर्शितयशः कुसुमसंपदो निजव्यवसायकल्पपादपस्य स्वादुफलम्, अतिचिरकालमनुभूतकष्टां कुरु कृतार्थं नयनसृष्टिम्, अप्रतर्कितामृतवृष्टिकल्पेन कोटिमधिरोहतु परामस्यापि भवदास्यकमलावलोकनेन परमाभ्युदयलाभसंभवः प्रमोदः, पश्चादखिल लोकोत्पादिताश्चर्यमस्मद्वृत्तान्त मपरमप्ययोध्या निर्गमात् प्रभृति यत् पृष्टं तदपि सर्वं क्रमेण ज्ञाताऽसि । देवोऽपि हरिवाहनश्चण्डगहरनाम्नि वैताढ्य - शिखरे खेचरैर्विहितमनुभूय राज्याभिषेकमायातो नातिबहुपरिच्छदः सांप्रतमस्यैव दिव्यकाननस्यानेकफल
I
११३
मनाभावहेतुं किं कथयामि निवेदयामि । सर्वथा सर्वप्रकारेण, एषा प्रकृतिविषयिणी, कथा वार्ता, तिष्ठतु निवर्तताम् । तावदिति वाक्यालङ्कारे; उत्तिष्ठ सज्जो भव, सज्जीभूय च, मे मम, प्रष्ठः अग्रगः, भव, त्वमिति शेषः, कतिचित् कतिपयानि, पदानि पादारोपणस्थानानि, प्रतिष्ठस्व प्रयाहि [ह] | अद्यैव अस्मिन्नेव दिने, आत्मीयं स्वकीयं भ्रातरं सोदरकल्पं, सुहृदं हरिवाहनमित्यर्थः, पय अवलोकस्व, कीदृशम् ? संसिद्धसकल विद्यं संसिद्धा - सम्यङ्किष्पन्ना, सकला-समस्ता, विद्या यस्य तादृशम् ; पुनः अचिरानुभूतभुवनत्रयाद्भुतमहाराज्याभिषेकमङ्गलम् अचिरं - किञ्चित्पूर्वम्, अनुभूतं - साक्षात्कृतं, भुवनत्रयाद्भुतस्य-लोकत्रयविलक्षणस्य, महाराज्यस्य - महाधिपत्यसम्बन्धि, अभिषेकमङ्गलम् - अभिषेकोत्सवो येन तादृशम् ; पुनः आसादितमहार्हविद्याधरचक्रवर्तिपदं आसादितं प्राप्तं, महार्हं महतां योग्यं, विद्याधरचक्रवर्तिपदं विद्याधरसम्राट् - पदं येन तादृशम् ; पुनः उन्मयूखमाणिक्यखण्डखचितकाञ्चनकिरीटभास्वरशिरोभिः उन्मयूखैः -- उत् ऊर्ध्वाः, मयूखाः- किरणा यस्य तादृशेन, माणिक्यखण्डखचितेन - माणिक्यखण्डैः - रत्नखण्डैः खचितेन व्याप्तेन काञ्चनकिरीटेन- सुवर्णमुकुटेन, भाखरं-दीव्रं, शिरः- मस्तकं येषां तादृशैः, खेचरेश्वरैः विद्याधराधिपैः, प्रणम्यमानपादपङ्कजं प्रणम्यमानम्, अभिवाद्यमानं, पादपङ्कजं-चरणकमलं यस्य तादृशम् ; पुनः साक्षात् स्वयम्; अवनिं भूमिम्, अवतीर्णम् आगतं, सहस्राक्षमिव इन्द्रमिव, पुनः निजव्यवसाय कल्पपादपस्य स्वकीयोद्योगात्मक कल्पवृक्षस्य, स्वादुफलं मधुरफलम्, अनुभव साक्षाकुरु, कीदृशस्य ? अभिमानसलिल सेकसंवर्धितस्य अभिमानरूपेण - सलिलेन, जलेन, यः सेकः- सेचनं, तेन संवर्धितस्यसम्यगुन्नमितस्य, पुनः दुःसहानेकमार्ग दुःखोपनिपातदुर्वात विद्रवैरपि दुःसहानां - दुःखेन सोढुं शक्यानाम्, अनेकमार्गदुःखानां-बहुविधमार्गलङ्घनक्लेशानाम्, उपनिपातरूपः - उपागमनरूपः, यः, दुर्वातः - विषमपवनः तद्विद्रवैरपि तदुपद्रवैरपि, अनिन्दितप्रसरस्य अनिन्दितः - अव्याहतः, प्रसरः - विस्तारो यस्य तादृशस्य, पुनः निरत्ययप्रदर्शितयशः कुसुमसम्पदः निरत्ययं-निर्बाधं यथा स्यात् तथा, प्रदर्शिता - आविष्कृता, यशः कुसुमसम्पत् - यशोरूपपुष्पसमृद्धिर्येन तादृशस्य । पुनः अतिचिरकालम् अतिदीर्घकालम्, अनुभूतकष्टां भुक्तदुःखां, नयनसृष्टिं स्वनयनरचनाम्, कृतार्थी सफल, कुरु सम्पादय, हरिवाहनावलोकनेनेति शेषः । अस्यापि हरिवाहनस्यापि परमाभ्युदयलाभसम्भवः अत्यन्तैश्वर्यप्राप्तिप्रयुक्तः, प्रमोद : हर्षः, अप्रतर्कितामृतवृष्टिकल्पेन आकस्मिकामृतवर्षणसदृशेन, भवदास्यकमलावलोकनेन भवन्मुखकमलदर्शनेन, परां निरतिशयां, कोटिम् उत्कर्षम्, अधिरोहतु प्राप्नोतु । पश्चात् तद्दर्शनादनन्तरम्, अखिललोकोत्पादिताश्चर्यम्, अखिलानां सर्वेषां, लोकानाम्, उत्पादितम् - अनुभावितम् आश्चर्यं येन तादृशम् । अस्मद्वृत्तान्तम् अस्माकं समाचारं, पुनः अयोध्या निर्गमात् अयोध्यातो निष्क्रमणात् प्रभृति आरभ्य, अपरमपि अन्यदपि, यत् वृत्तं पृष्टं भवता जिज्ञासितं, तदपि, सर्व समग्र, क्रमेण पर्यायेण, ज्ञाताऽसि ज्ञास्यसि । हरिवाहनः तदाख्यः, देवोऽपि विद्याधरचक्रवर्त्यपि, चण्डगह्वरनाम्नि तत्संज्ञके, वैताढ्य शिखरे वैताढ्यपर्वतशिरोदेशे, खेचरैः विद्याधरैः विहितं कृतं, राज्याभिषेकं राज्यनिमित्तकं वैधस्नपनम् अनुभूय गृहीत्वा, आयातः आगतः सन् नातिबहुपरिच्छदः अनत्यधिकपरिग्रहः, परिमित परिग्रह इत्यर्थः, साम्प्रतम् अधुना, अस्यैव सन्निकृष्टस्यैव, दिव्यकाननस्य मनोहरोपवनस्य, अनेकफलकुसुमसमृद्धिपाद
१५ तिलक०
"Aho Shrutgyanam"