________________
११२
टिप्पनक-परागविवृतिसंवलिता । सार्धमधुनैव कृत्वा संलापमुत्फुल्ललोचनः किमपि हर्षेणावतीर्णो भवान्' [प] इत्यादिपृष्टः सविस्तरं सिंहलेन्द्रसूनुना गन्धर्वकः स्थित्वा मुहूर्तमवचनः सत्रप इव शनैरवोचत्-'आर्य ! किं ब्रवीमि, बुद्धिरपि मे न पश्यति वक्तव्यम् , विवक्षापि न प्रवर्तयति वाचम् , वागपि न संसृज्यते जिह्वाग्रेण । प्रनष्टनिःशेषकष्टरूपः प्राक्तनावस्थः स्वस्थचेतास्तथाविधाकार एवाद्य दृष्टः, किमुत्तरं प्रयच्छामि, वितथभाषी च विधिना कृतः, किं तदानीमनागमनकारणमात्मनः कथयामि, अनुपजातप्रतिज्ञातार्थनिर्वाहेण युक्तियुक्तमप्युच्यमानं कीदृशं, किं पुनरसंभाव्यमानतया शिशुजनस्यापि हास्यरसवृद्धिहेतुरीदृशं, यञ्च विशदप्रतिभासमतिदीर्घकालमनुभूतमात्मनापि शक्यते न श्रद्धातुम् , तद् विचारचतुरबुद्धेः कथ्यमानं महाभागस्य कथमिव प्रतीतिपथमवतरिष्यति [स] । तथाहि- दिव्यैरप्यशक्यप्रतीकारं व्यसनमापन्नोऽस्मीति प्रत्यक्षविरुद्धम् , त्वत्कार्यसाधनपराधीनतैव विघ्नहेतुरित्यप्रातीतिकम् , जीवन्नेव पञ्चत्वमापन्न इत्युन्मत्तप्रलापः, शरीरमपि तन्नैतदिति प्रत्यभिज्ञानानुपपत्तिः, एवं च सर्वतो निरवकाशवाक्प्रवृत्तिः, किमनागमनकारणं कथयामि, सर्वथा तिष्ठत्वेषा
सञ्चरणसमुचितः-सञ्चारयोग्यः, पृष्ठदेशः-ऊर्ध्वदेशो यस्य तादृशस्य, च पुनः, काष्ठाधिरूढशोभासम्पदः काष्ठाधिरूढ़ाउत्कर्षापन्ना, शोभासम्पत्-सौन्दर्यसमृद्धिर्यस्य तादृशस्य, अस्य प्रत्यक्षस्य, मठस्य छात्रऋष्यादिनिवासाश्रमस्य, शिखरभूमिकाम् ऊर्श्वभूमिम् , कः, अधितिष्ठति अध्यास्ते, येन सार्ध सह, अधुनैव सम्प्रत्येव, संलापं सम्भाषणं, कृत्वा, उत्फुल्ललोचनः विकसितनयनः सन् , किमपि अनिर्वचनीयेन, हर्षेण प्रमोदेन, भवान् , अवतीर्णः अधस्तादागतः [ष]। इत्यादि अनेन प्रकारेण, सिंहलेन्द्रसूनुना सिंहलेन्द्रस्य-सिंहद्वीपाधिपतेः, चन्द्रकेतोरित्यर्थः, सूनुना-पुत्रेण, समरकेतुना, सविस्तरं सप्रपञ्चं, पृष्टः स्वजिज्ञासां ज्ञापितः, गन्धर्वकः, मुहूर्त क्षणम् , अवचनः मूकः सन् , स्थित्वा, सत्रप इव लज्जित इव, शनैः मन्दम् , अवोचत् उक्तवान्, किमित्याह-आर्य श्रेष्ठ !, किं ब्रवीमि कथयामि, मे मम, बुद्धिः अन्तःकरणम् , अपि, वक्तव्यं प्रतिवक्तुमुचितं वाक्यं, न पश्यति, किञ्च, विवक्षापि वक्तुमिच्छापि, वाचं वाणी, न प्रवर्तयति प्रेरयति, अपि च वागपि वाण्यपि, जिह्वाग्रेण जिह्वान्त्यभागेन, न संसृज्यते सम्बध्यते, प्रनष्टनिःशेषकष्टरूपः प्रनष्टम्-अत्यन्तविलीनं, निःशेषंसमग्रं, कष्टरूपं-क्लेशरूपं यस्मिंस्तादृशः, अत एव प्राक्तनावस्थः प्राचीनावस्थापन्नः, पुनः स्वस्थचेताः प्रकृतिस्थहृदयः, पुनः तथाविधाकार एव तथाविधः-पूर्वप्रकारक आकारो यस्य तादृश एव, अद्य दृष्टः दृष्टिपथावतीर्णः, अहमिति शेषः, किम् , उत्तरं प्रतिवाक्यं, प्रयच्छामि ब्रवीमि । विधिना देवेन, वितथभाषी मिथ्यावादी कृतः, अहमिति शेषः, आत्मनः स्वस्य, तदा प्रतिज्ञातकाले, अनागमनकारणम् आगमनभावहेतुं, किं कथयामि ब्रवीमि । अनुपजातप्रतिज्ञातार्थनिर्वाहेण अनुपजातः-अनुत्पन्नः, प्रतिज्ञातस्य-कर्तव्यत्वेनाध्यवसितस्य, अर्थस्य-वस्तुनः, निर्वाहः-सम्पादनं यस्य तादृशेन, जनेन, युक्तियुक्तमपि सङ्गतमपि, सत्यमपीत्यर्थः, उच्यमान-कथ्यमानं, कीदृशं किंतुल्यम् , मिथ्याकल्पमित्यर्थः, स्यादिति शेषः, पुनः असम्भाव्यमानतया सम्भावनाऽविषयतया, शिशुजनस्यापि बालजनस्यापि, हास्यरसवृद्धिहेतुः हास्यात्मकरसविस्तारकम् , ईदृशम् अनुपदमुच्यमानप्रकारकं, किं कीदृशं भवेत् , च पुनः, यत् दुर्घटनं, विशदप्रतिभासं स्फुटावभासम्, अपरोक्षावभासमित्यर्थः, यथा स्यात् तथा, दीर्घकालम् अधिककालम् , अनुभूतम् अनुभवगोचरीकृतम्, साक्षात्कृतमपीत्यर्थः, आत्मनापि खेनापि, श्रद्धातुं विश्वसितुं, न शक्यते, तत्, विचारचतुरबुद्धेः विवेकनिपुणबुद्धः, महाभागस्य महोदयस्य, तवेति शेषः, कथ्यमानं निवेद्यमानं, कथमिव इवेति वितर्के, केन प्रकारेणेव, प्रतीतिपथं विश्वासमार्ग, तद्विषयतामित्यर्थः, अवतरिष्यति आगमिष्यति [स]। तदेव दर्शयति-तथाहीति । दिव्यैरपि देवैरपि, अशक्यप्रतीकारम् अशक्यः शक्त्यासाध्यः, प्रतीकारः-निवर्तनं यस्य तादृशं, व्यसनं कष्टम् , आपन्नः प्राप्तः, अनुभूतवान् इत्यर्थः, अस्मि, इति प्रत्यक्षविरुद्धं तात्कालिकप्रत्यक्षप्रतिकूलम् । त्वत्कार्यसाधनपराधीनता भवदीयकार्यसम्पादनव्यग्रता एव, विघ्नहेतुः प्रकृतव्यसनकारणम् , इति अप्रातीतिकं प्रतीत्यगोचरम् , अविश्वसनीयमिति यावत् । जीवन्नेव प्राणान् धारयन्नेव, पञ्चत्वं मृत्युम्, आपन्नः प्राप्तवान् , इति उन्मत्तप्रलापः उन्मत्तानां-उन्मादग्रस्तानां, प्रलापः-व्यर्थवचनम् । एतत् प्रत्यक्षभूत, शरीरमपि, तन्न न पूर्वशरीरभिन्नम् ; इति प्रत्यभिज्ञानुपपत्तिः तदेवेदमिति प्रत्यक्षवुद्धिविशेषा सङ्गतिः, तद्विरुद्धमित्यर्थः । एवं च अनेन प्रकारेण, सर्वतः सर्वांशतः, निरवकाशवाकप्रवृत्तिः अवरुद्धवचनव्यापारः, अनागमनकारणम् आग
"Aho Shrutgyanam"