________________
तिलकमञ्जरी
१११ मासाः । कथय किं तदा कारणमनागमनस्य । किं सत्यमेव विस्मृता वयम् , उत अवश्यकरणीयेन वा केनापि महता कार्यान्तरेणान्तरैवोपस्थितम् , अथाध्वश्रमादिदोषोत्थापितेन प्रकृतिसुकुमारायास्तनोरपाटवेन कृतः प्रतिबन्धः [व] । किं चास्मदन्तिकादुञ्चलितेन भवता तस्मिन्नेव दिवसे समासादितः सुवेलाद्रिः, आवेदितस्तत्रभवतो विचित्रवीर्यस्य चित्रलेखासंदेशः, उपासिता द्रविडराजमहिषी गन्धर्वदत्ता, प्रापितः स तदुहितुरस्मत्प्रेषितो लेखः, कृताव स्थितिः कायां कञ्चित् कालमासादितः कोऽपि तत्रान्यत्र वा राजपुत्र्यास्तिलकमञ्जर्याः पाणिग्रहणसमुचितो राजपुत्रः, कास्ते स ते सहायश्चित्रमायः [श] । तथा च किंनामधेयोऽयममरगिरिणाप्यनपहार्यरामणीयकश्रीरहार्यः, केन खानितमिदं मानसेनाप्यखण्डितख्यातिमदमसंख्यजलचरविहङ्गवाचालितोपकण्ठकच्छमच्छस्वादुविपुलोदकं पद्मसरः, कस्य सुकृतिनः कीर्तिरेष सुरविमानकल्पः कल्पपादपप्रायतरुणा परिगतः सर्वत एव सार्वर्तुकेन दिव्यारामेण पद्मरागशिलामयः प्रासादः, कश्चास्य त्रिदशसंचरणसमुचितपृष्ठदेशस्य काष्ठाधिरूढशोभासंपदः शिखरभूमिकामधितिष्ठति मठस्य, येन
टिप्पनकम्-तत्र भवतः पूज्यस्य [श] । अनपहार्यरामणीयकश्रीरहार्यः अपराभवनीयरमणीयत्वशोभः, अहार्यः गिरिः । काष्ठा-प्रकर्षः [ष]।
मासाः, अतिगता व्यतीताः । कथय ब्रूहि, तदा प्रतिज्ञातसमये, अनागमनस्य आगमनाभावस्य, किं कारणं हेतुः । किं सत्यमेव निश्चितमेव, वयं विस्मृताः स्मरणपथात् प्रच्याविताः, उत अथवा, अवश्यकरणीयेन अवश्यसम्पादनीयेन, केनापि केनचित् , महता गुरुतरेण, कार्यान्तरेण अन्यकार्येण, अन्तरैव मध्य एव, उपस्थितम् उपस्थानं कृतम् , अथ अथवा, अध्वश्रमादिदोषोत्थापितेन मार्गगमनखेदादिदोषोत्पादितेन, प्रकृतिसुकुमारायाः स्वभावकोमलायाः, तनोः शरीरस्य, अपाटवेन आलस्येन, प्रतिबन्धः प्रत्यागमनप्रतिरोधः कृतः [व] च पुनः, अस्मदन्तिकात् अस्मत्समीपात्, उच्चालितेन प्रयातेन,भवता त्वया, तस्मिन्नेव प्रयाणसम्बन्धिन्येव, दिवसे दिने, सुवेलाद्रिः सुवेलपर्वतः, समासादितः, सम्प्राप्तः किम् ? पुनः तत्रभवतः श्रेष्ठस्य, विचित्रवीर्यस्य तन्नाम्नः पत्रलेखापितुः, चित्रलेखासन्देशः चित्रलेखोक्तसमाचारः, आवेदितः; पुनः द्रविडराजमहिषी द्रविड देशाधिपस्य कुसुमशेखरस्य पट्टराज्ञी गन्धर्वदत्ता, उपासिता आराधिता, पुनः अस्मत्प्रेषितः अस्माभिः सन्दिष्टः, सः प्रकृतः, लेखः पत्रं, तदुहितुः तत्कन्यकायाः, मलयसुन्दयो इत्यर्थः, प्रतिपादित उपस्थापितः; पुनः काश्यां तन्नामकनगर्याम् , कश्चित् कतिपयं, कालं, कृतावस्थितिः कृतनिवासः, राजपुत्र्याः चक्रसेनाख्यनृपकन्यकायाः, तिलकमञ्जर्याः, पाणिग्रहणसमुचितः विवाहयोग्यः, कोऽपि अविज्ञातनामा, राजपुत्रः, तत्र काश्चयां, वा अथवा, अन्यत्र स्थानान्तरे, आसादितः उपलब्धः; पुनः ते तव, सहायः सहगामी, सः प्रकृतः, चित्रमायः तदाख्यो विद्याधरः, व कस्मिन् स्थाने, आस्ते तिष्ठति [श]च पुनः, तथा तेन प्रकारेण, अमरगिरिणापि सुमेरुपर्वतेनापि, अनपहार्यरामणीयकश्री: अनपहार्या-अतिरस्कार्या, रामणीयकश्रीः-सौन्दर्यसम्पत्तिर्यस्य तादृशः, अयं सन्निकृष्टः, अहार्यः पर्वतः, किंनामधेयः किंसंज्ञकः ।मानसेनापि मानससरोवरेणापि, अखण्डितख्यातिमदम् अखण्डितःअव्याहतः, ख्यातिमदः-प्रसिद्धिगर्यो यस्य तादृशम् , पुनः असंख्यजलचरविहङ्गवाचालितोपकण्ठकच्छम् असंख्यैःसंख्यातीतैः, जलचरैः-मत्स्यमकरादिजलजीविजन्तुभिः, विहङ्गैः-पक्षिभिः, वाचालितः-नादितः, उपकण्ठकच्छः-निकटजलप्रायस्तटप्रदेशो यस्य तादृशम् , पुनः अच्छस्वादुविपुलोदकम् अच्छानि-निर्मलानि, स्वादूनि-मिष्टानि, विपुलानि-प्रचुराणि, उदकानिजलानि यस्य तादृशम् , इदं प्रत्यक्ष, पद्मसरः कमलमयकासारः, केन खानितं खननकर्मीकारितम् । पुनः सुरविमानकल्पः सुराणां-देवानां, यो विमानः-व्योमयानं, तत्कल्पः-तत्सदृशः, पुनः कल्पपादपप्रायतरुणा कल्पपादपप्रायाः-कल्पवृक्षकल्पाः, तरवो यस्मिंस्तादृशेन. सार्वर्तकेन षड़तुभाविना, सर्वदैव पुष्पफलसमृद्धिशालिनेत्यर्थः । दिव्यारामेण मनोहरोद्यानेन, सर्वत एव सर्वेष्वेव भागेषु, परिगतः व्याप्तः, पुनः पद्मरागशिलामयः रक्तमणिमयः, एषः निकटतरवर्ती, प्रासादः देवभवनं, कस्य सुकृतिनः पुण्यशालिनः, कीर्तिः-स्मारक यशः, पुनः त्रिदशसञ्चरणसमुचितपृष्ठदेशस्य त्रिदशाना-देवानां,
"Aho Shrutgyanam"