________________
११०
टिप्पनक-परागविवृतिसंवलिता । नमस्कृत्य भूयः प्रमृष्टरजसि निजवस्त्राञ्चलेन निकटवर्तिन्येकत्र पट्टशालामत्तवारणकमणिपट्टे न्यवेशयत् [२]। प्रस्तुताभिसंवाहनश्च 'गन्धर्वक ! सर्वदाभिवाञ्छितप्राप्तिना कथञ्चिदनुकूलदैवसंपादितेन दर्शनेनैव ते विगतः श्रमोऽस्माकम्' इति निवारितो वारंवारमपसृत्य नातिसंनिधौ तस्यैव मत्तवारणस्यैकपार्श्वे निषसाद । कृतासनपरिग्रहं च तं प्रहर्षपुलकितास्यमानन्दजलवर्षिणा विरतपक्ष्मस्पन्देन चक्षुषा निरीक्ष्य सुचिरमीषत्कृतस्मितः समरकेतुरुवाच—'सखे ! गन्धर्वक ! गाढं दृढस्मृतिर्भवान् , दृष्टमात्रा अपि प्रत्यभिज्ञाता वयम् , विस्मरणशीलः स काममित्येतावतो दिवसानस्माकं त्वयि बुद्धिरासीत् , येन तदानीमयोध्यायामुपवनाध्यासिनः कुमारहरिवाहनस्याग्रतः प्रातरेवाहमागमिष्यामि' [ल ] इत्यभिधाय प्रस्थितेन तत् सुवेलप्रस्थगोचरं
खेचरनगरमतिचिरेणापि न कृता प्रतिनिवृत्तिः, न च स्वकुशलदानमात्रेणापि जनिता नश्चित्तनिर्वृत्तिः, केवलमगाधशोकजलनिधौ निक्षिप्ताः । किं तस्य वृत्तम् , किं व्यसनमापतितं येन नायातः, इति भवन्तमुद्दिश्य तत्तदनभिशङ्कनीयमाशङ्कमानानामनुदिवसमस्माकमतिगताश्चत्वारोऽपि ते वर्षकल्पा वार्षिकाः
रजुभ्यां, कृतः, दृढः-अत्यन्तः, आश्लेषः-आलिङ्गनं यस्य तादृशं, तं गन्धर्वकं, भूयः पुनः, नमस्कृत्य नमस्क्रियया सत्कृत्य, निजवस्त्राञ्चलेन खकीयवस्त्रप्रान्तभागेन, प्रमृष्टरजसि विशोधितधूलिके, निकटवर्तिनि सन्निहिते, पट्टशालामत्तवारणकमणिपट्टे पट्टशाला-फलकगृहं पीठोपरिस्थं गृहं पटकुटीप्रधानशाला वा, तस्या मत्तवारणे-स्थानविशेषे, तत्र स्थापिते इत्यर्थः, मणिपट्टे-मणिनिर्मितपीठे, न्यवेशयत् उपवेशितवान् [र]। च पुनः, प्र वाहनः प्रस्तुतं-प्रवर्तितम् , अद्भिसंवाहनं-पादसम्मर्दनं येन तादृशः, गन्धर्वक इति शेषः, गन्धर्वक !, सर्वदा सन्ततम् , अभिवान्छितप्राप्तिना अभिवाञ्छिता-अभिलषिता, प्राप्तिर्यस्य तादृशेन, पुनः कथञ्चित् केनापि प्रकारेण, अनुकूलदैवसम्पादितेन अनुकूलेन-इष्टकारिणा, देवेन-भाग्येन, सम्पादितेन-कृतेन, ते तव, दर्शनेनैव, अस्माकं, श्रमः मार्गातिक्रमणक्लेशः, विगतः वस्तः, इति इत्थं, वारं वारं अनेकवारम् , निवारितः पादसम्मर्दनान्निवर्तितः, समरकेतुनेति शेषः, अपसृत्य दूरीभूय, नातिसन्निधौ किश्चिन्निकटे, तस्यैव तदध्यासितस्यैव, मत्तवारणस्य-स्थानविशेषस्य, एकपाचे एकभागे, निषसाद उपविवेश । च पुनः, कृतासनपरिग्रहं कृतः आसनस्य परिग्रहः-स्वीकारो येन तादृशम् , पुनः प्रहर्षपुलकितास्यं प्रहर्षेण-अतिहर्षेण, पुलकितंरोमाञ्चितम् , आस्यं-मुखं यस्य तादृशं, तं गन्धर्वकम् , आनन्दजलवर्षिणा आनन्दजन्याश्रुस्यन्दिना, पुनः विरतपक्ष्म- . स्पन्देन विरतः-निवृत्तः, पक्ष्मस्पन्दः-नयनरोमराजिकिञ्चिच्चलनं यस्य तादृशेन, चक्षुषा नेत्रेण, सुचिरम् अतिदीर्घकालं, निरीक्ष्य नितरां दृष्ट्वा, ईषत्कृतस्मितः किञ्चिद्विहितमन्दहासः, समरकेतुः, उवाच उक्तवान् , किमित्याह-सखे! मित्र गन्धर्वक !, भवान् , गाढम् अत्यन्तं, दृढस्मृतिः प्रबलस्मरणशक्तिः, अस्तीति शेषः, दृष्टमात्रा अपि केवलदृष्टा अपि, वयं, प्रत्यभिज्ञाताः सोऽयमिति प्रतीताः, सः गन्धर्वकः, कामम् अत्यन्तं, विस्मरणशीलः विस्मरणप्रकृतिकः, इति ईदृशी, त्वयि त्वद्विषये, अस्माकं बुद्धिः, एतावतः इयतः, दिवसान् दिनानि आसीत् , येन यस्माद्धेतोः, तदानीं तस्मिन् काले, अयोध्योपवनात् प्रयाणकाल इत्यर्थः, अयोध्यायां साकेतनगर्याम् , उपवनाध्यासिनः उद्यानवर्तिनः, कुमारहरिवाहनस्य युवराजहरिवाहनस्य, अग्रतः अग्रे, प्रातरेव प्रभातकाल एव, अहम् , आगमिष्यामि प्रत्यावर्तिष्ये[ल], इति अभिधाय उक्त्वा, प्रतिज्ञायेत्यर्थः, सुवेलप्रस्थगोचरं सुवेलाख्यपर्वतसानुस्थितं, तत् प्रकृतं, खेचरनगरं विद्याधरनगरं, प्रस्थितेन प्रयातेन, त्वयेति शेषः, अतिचिरेणापि अतिविलम्बेनापि, प्रतिनिवृत्तिः परावर्तनं, न कृता विहिता, च पुनः, स्वकुशलदानमात्रेणापि केवलखकीयकुशलप्रेषणेनापि, नः अस्माकं, चित्तनिर्वृतिः चित्तप्रसादः, न जनिता उत्पादिता, किन्तु अगाधशोकजलधौ अतलस्पर्शचिन्तासागरे, निक्षिप्ताः निपातिताः, वयमिति शेषः, तस्य गन्धर्वकस्य, किं कीदृशं, वृत्तं समाचारः, किं कीदृशं, व्यसनं कष्टम् , आपतितम् उपस्थितम् , येन न आयातः आगतः, इति इत्थम् , भवन्तं त्वाम् , उद्दिश्य अधिकृत्य, अनभिशङ्कनीयम् आशङ्कितुमयोग्यमपि, तत् तत् अनिष्टम् , अहर्दिनं प्रतिदिनम् , आशङ्कमानानां संशयानानाम् , अस्माकम् , चत्वारोऽपि चतुःसंख्यका अपि, वार्षिकाः वर्षासम्बधिनः, वर्षकल्पाः वर्षतुल्याः
"Aho Shrutgyanam"