________________
तिलकमञ्जरी
१५३ जानीथ श्रुतशालिनौ खलु युवामावां प्रकृत्यर्जुनी, त्रैलोक्ये वपुरीगन्ययुवतः संभाव्यते किं क्वचित् । एतत् प्रष्टुमपास्तनीलनलिनश्रेणीविकासश्रिणी, शङ्केऽस्याः समुपागते मृगदृशः कर्णान्तिकं लोचने ॥२॥" [श] ।
निर्वर्ण्य चातिचिरकालमालपितुकामस्तदभिमुखोऽहमभवम् । सापि मां तथागत्य द्वारदेशे कृतावस्थानमेकाकिनमाबद्धनिश्चललक्ष्येण चक्षुषा प्रत्येकमवयवानवलोकयन्तमवलोक्य समुपजातसाध्वसा सहसैव प्रबल. मारुताहता बालकदलीकन्दलीव कम्पितुमारब्धा । दृष्ट्वा च तां तथाविधामुपजातकरुणोऽहं विधायाकार संवरणमर्पितनिर्विकारस्तिमितदृष्टिस्तन्मुखारविन्दे स्थानस्थित एव तां शनैरवदम्— 'बालिके! का त्वम् , किमर्थमेकाकिनी प्रविष्टा शून्ये लताजालकेऽस्मिन्नकस्मादेवमुद्धान्तचित्ता भीतेव दिलु क्षिपसि विकसितेन्दीवरदलदामदीर्घान् दृष्टिपातान् [प] । किं च मां दृष्टाऽनिष्टशकिनीवात्मनो वारंवारमपवारिततनुस्तनीयसा
टिप्पन कम्-उदर्चिः-अग्निः 'जानीथ' इत्यादिश्लोकः, श्रुतशालिनौ श्रुतं-शास्त्रं श्रवणं च । प्रकृत्यर्जुनी स्वभावेन सरले धवले। कर्णान्तिकं श्रवणसमीपम् [श] ।
यस्यास्तादृशी, गिरिशनयनोदर्चिर्दग्धाद गिरिशस्य-शिवस्य, नयनरूपेण, उदर्चिषा-उद्गतम् अर्चिः-ज्वाला यस्मात् तेन, अग्निनेत्यर्थः, दग्धाद् भस्मीकृताद्, मनोभवपादपात् कामदेवरूपवृक्षाद् , जाता उत्पन्ना, नवकन्दली नव्याङ्कुरः, अस्तीति शेषः अत्र सदेन्हालङ्कारः॥
जानीथ श्रुतशालिनौ खलु युवामावां प्रकृत्यर्जुनी । त्रैलोक्ये वपुरीगन्ययुवतेः सम्भाव्यते किं क्वचित् ॥ एतत्प्रष्ट नपास्तनीलनलिनश्रेणीविकासश्रिणी । शङ्केऽस्याः समुपागते मृगदृशः कर्णान्तिकं लोचने ॥ २॥
आवां नयने, प्रकृत्या स्वभावेन, ऋजुनी सरलाकारे, ऊहापोहापटुतया सरलबुद्धिके च, युवा कर्णौ तु, खलु निश्चयेन, श्रुतशालिनौ श्रुतेन-शास्त्रेण, श्रवणगोचरीकृतेन युवतिजनवृत्तान्तेन च शालेते-शोभेते यौ तादृशो, जानीथ वेत्थ, यत् त्रैलोक्ये त्रिभुवने, क्वचित् कुत्रापि, अन्ययुवतेः एतदतिरिक्ततरुण्याः, ईदृक् एतादृशम् , वपुः शरीरं, सम्भाव्यते सम्भवति किम् ?, शङ्के उत्प्रेक्षे, एतत् अनुपदोक्तं, प्रष्टुं जिज्ञासितुम् , अस्याः पुरोवर्तिन्याः, मृगदृशः मृगलोचनायाः, अपास्तनीलनलिनश्रेणीविकासश्रिणी अपास्ता-तिरस्कृता, नीलनलिनश्रेण्याः-नीलकमलपढ़ेंः, विकासश्रीः-विकासशोभा याभ्यां तादृशे, लोचने नयने, कर्णान्तिकं कर्णसमीपं, समुपागते सम्यगायाते, कर्णसंसृष्टे इत्यर्थः । अत्रोत्प्रेक्षालङ्कारः [श]।
च पुनः, अतिचिरकालम् अतिदीर्घकालं, निर्वर्ण्य दृष्ट्वा, आलपितुकामः आभाषितुमिच्छुः, तदभिमुखः तत्सम्मुखः, अभवं संवृत्तोऽहम्। सापि प्रकृतबालिकापि, तथा तेन प्रकारेण, आगत्य, द्वारदेशे एलागृहप्रवेश निर्गमस्थाने, कृतावस्थानम् अवस्थितम् , पुनः एकाकिनम् असहायम् , पुनः आबद्धनिश्चललक्ष्येण आबद्धं-खाभिमुखमारोपितं, निश्चलं-स्थिरं, लक्ष्य-प्रकृतयुवतिरूपदृश्यं येन तादृशेन, चक्षुषा, प्रत्येकम् एकैकम , अवयवान् अङ्गानि, अवलोकयन्तं पश्यन्तं, माम् , अवलोक्य दृष्ट्वा, समुपजातसाध्वसा समुत्पन्नभया, प्रबलमारुताहता प्रबलपवनान्दोलिता, बालकदलीकन्दलीव नवकदलीलतिकेव, सहसैव शीघ्रमेव, कम्पितुम् , आरब्धा प्रवृत्ता। च पुनः, तां प्रकृतबालिका, तथाविधां कम्पमानां, दृष्ट्वा, उपजातकरुणः उत्पन्नदयः, अहम् , आकारसंवरणं विकृताकारगोपनं, विधाय कृत्वा, तन्मुखारविन्दे तदीयमुखकमले, अर्पितनिर्विकारस्तिमितदृष्टिः अर्पिता-आरोपिता, निर्विकारा-कामविकारशून्या, स्तिमिता-निश्चला, दृष्टिः-लोचनं येन तादृशः सन , स्थानस्थित एव अत्यक्तस्वस्थान एव, तां बालिका, शनैः मन्दम् , अवदम् उक्तवान् । बालिके ! त्वं का किंजातीया, कस्य सुता वा, एकाकिनी असहाया सती, शून्ये निर्जने, अस्मिन् प्रत्यक्षवर्तिनि, लताजालके लतापुञ्ज, प्रविष्टा प्रवेशं कृतवती, अकस्मात विनैव कारणम् , एवम् अनेन प्रकारेण, उद्धान्तचित्ता उद्विग्नहृदया, भीतेव भयाकु.लेव, विकसितेन्दीवरदलदामदीर्घान् विकसितानाम् , इन्दीवरदलानां-नीलकमलपत्राणां, यद् दाम-माल्यं, तद्वद्दीर्घान् , दृष्टिपातान् , दिक्षु, किमर्थं किमुद्दिश्य, क्षिपसि प्रेरयसि [ष] | च पुनः, मां, दृष्ट्वा, आत्मनः स्वस्य, अनिष्टशङ्किनीव प्रतिकूलसन्देहिनीव, तनीयसा अतिसूक्ष्मेण, स्तनांशकेन स्तनावरणवस्त्रेण, वारंवारम्
२० तिलक.
"Aho Shrutgyanam"