________________
१५४
टिप्पनक-परागविवृतिसंवलिता । स्तनांशुकेन संकुचसि रक्ताशोकविटपकस्यास्य मूले, कृतं सुभ्र! संभ्रमेण, मा स्म भैषीः स्वल्पमप्यस्मात् , जाननिहावस्थितामुन्मथ्यमानो मन्मथेन न त्वां निमित्तीकृत्याहमायातः, न च त्वदपहारे कृतप्रयत्नः क्रूरात्मा कश्चिदसुरो वा गुह्यको वा गन्धर्वो वा खेचरो वा भवामि, भूमिगोचरोऽहमखिलदिङ्मुखख्यातकीर्तेरखण्डितप्रसरवाहिनीवाहखुरपुटक्षुण्णदक्षिणापरपूर्वजलधिवेलावनस्य सर्वावनिपालमौलिमुकुटघृष्टाङ्गिनखमणेरिक्ष्वाकुवंशालंकारस्य राज्ञो मेघवाहनस्यात्मजन्मा हरिवाहनो नाम कुमारः कान्तारभूमौ कथञ्चिद्वीणया वशीकृत्य विधृतमात्मीयमेव सेनावारणं प्रधानमधिरूढो निरङ्कुशः केनाप्यविज्ञाततत्त्वेन व्योमचारिणा वैरिणेव तमनुप्रविश्य भूमिमेतामानीतः [स] । समुत्खातशस्त्रिकादर्शनोपजातसंत्रासेन च सहैव दूरनिर्झरिणाञ्जनिनादेन मुक्त्वा निरालम्बमम्बरतलादवाङ्मुखमात्मदेहमिह महासमुद्रगम्भीरोदरे सरसि निक्षिप्तः । समुत्तीर्य च ततो यथाकथंचित् प्रस्थितेन दृष्टा मया दृष्टिहारिणी हरिणाक्षि ! रमणीयवृक्षगुल्मेऽस्मिन् प्रदेशे सूक्ष्मसिकतायां पुलिनभूमावभिव्यक्तशुभलक्षणा चरणपदपतिः । तां च कौतुकादनुसरन् सर
अनेकवारम् , अपवारिततनुः आच्छादितशरीरा सती, किं किमर्थम् , अस्य पुरोवर्तिनः, रक्ताशोकविटपकस्य रक्ताशोकवृक्षस्य, मूले अधस्तनप्रदेशे, सङ्कुचसि सङ्कुच्य तिष्ठसि । सुभ्र! सुन्दरभ्रशालिनि !, सम्भ्रमेण भयेन, कृतं व्यर्थम् , अस्मात् मत्तः, जनात् , स्वल्पमपि अतीषदपि, मा स्म भैषीः भयं न कुरु, मन्मथेन कामदेवेन, उन्मथ्यमानः उत्पीड्यमानः, अहम्, इह अस्मिन् स्थाने, अवस्थितां जानन् त्वां. निमित्तीकृत्य लक्ष्यीकृत्य, न आयातः आगतः। च पुनः, त्वदपहारे बलात् त्वद्हणे, कृतप्रयत्नः कृतोद्योगः, अत एव, क्रूरात्मा निष्ठुरात्मा, कश्चित् कोऽपि, असुरो वा राक्षसो वा, गुह्यको वा तदाख्यदेवयोनिविशेषो वा, गन्धर्वो वा तदाख्यदेवयोनिविशेषो वा, खेचरो वा विद्याधरो वा, न भवामि अस्मि, किन्तु भूमिगोचरः भूमिवास्तव्यः, मर्त्य इयर्थः, अहम्, अखिलदिङ्मुखख्यातकीर्तेः समस्तदिगन्तप्रसिद्धयशसः, पुनः अखण्डितप्रसरवाहिनीवाहखुरपुटक्षुण्णदक्षिणापरपूर्वजलधिवेलावनस्य अखण्डितःअव्याहतः, प्रसरः-प्रसारो येषां तादृशानां वाहिनीवाहानां-सेनासमवेताश्वानां, खुरपुटैः-सम्पुटितखुरैः, क्षुष्णानि-पिष्टानि, दक्षिणापरपूर्वजलधिवेलावानाने-दक्षिणस्य, अपर स्य-पश्चिमस्य, पूर्वस्य, च जलधेः-समुद्रस्य, वेलायां-तटे यानि वनानि तानि
तादृशस्य; पुनः सर्वावनिपालमौलिमुकुटघृष्टाडिनखमणेः सर्वेषाम् , अवनिपालानां-पृथ्वीपतीनां मौलिमुकुटैःमस्तककिरीटैः, घृष्टाः-घर्षणेनोज्वलिताः, अभिनखमणयः-पादनखरूपा मणयो यस्य तादृशस्य, पुनः इक्ष्वाकुवंशालङ्कारस्य इक्ष्वाकुसंज्ञकनृपवंशभूषणस्य, राज्ञः नृपतेः, मेघवाहनस्य, आत्मजन्मा औरसपुत्रः, हरिवाहनो नाम तत्संज्ञकः, कुमार युवराजः, कान्तारभूमौ वनस्थल्यां, वीणया वीणाक्वाणनेन, कथञ्चित् केनापि प्रकारेण, वशीकृत्य खवशम विधृतं निगृहीतम् , आत्मीयमेव खकीयमेव, प्रधान मुख्यं, सेनावारणं सेनासमवेतहस्तिनम् , अधिरूढः आरूढः सन् , निरङ्कुशः तद्दमनसाधनास्त्रशून्यः, अविज्ञाततत्त्वेन अपरिचितयाथार्थ्यकेन, केनापि व्योमचारिणा आकाशगामिना, वैरिणेव शत्रुणेव, तं प्रकृतहस्तिनम् , अनुप्रविश्य, एताम् इमाम् , भूमिम् , आनीतः प्रापितः [स]। च पुनः, समुत्खातशस्त्रिकादर्शनोपजातसंत्रासेन समुत्खातायाः-सम्यगुद्धृतायाः, शस्त्रिकायाः-छुरिकायाः, दर्शनेन, उपजातेन-उत्पन्नेन, संत्रासेन-अत्यन्तभयेन हेतुना, दूरनिर्झरिणा दूरव्यापिना, आर्तनिनादेन दुःखद्योतकचीत्कारेण, सहैव समकालमेव, निरालम्बम् आलम्बनरहितम् , अवाङ्मुखम् अधोमुखम् , आत्मदेहं स्वशरीरम् , अम्बरतलात् गगनतलात् , मुक्त्वा वियोज्य, महासमुद्रगम्भीरोदरे महासागरसदृशनिम्नाभ्यन्तरे, इह अस्मिन् , सरसि कासारे, निक्षिप्तः खेन साकं निपातितः, अहमिति शेषः; हे हरिणाक्षि! मृगनयने! च पुनः, समुत्तीर्य तत्तटमागत्य, ततः तस्मात्
वरात् , यथाकथञ्चित कथङ्कथमपि, प्रस्थितेन प्रचलितेन मया, पुनः रमणीयवृक्षगुल्मे मनोहरवृक्षपुजे, अस्मिन प्रदेशे तत्तटस्थले, सूक्ष्मसिकतायां सूक्ष्मा सिकता-वालुका यस्यां तादृश्यां, पुलिनभूमौ अचिरजलोत्थितस्थल्याम् , अभिव्यक्तशुभलक्षणा प्रकटितशुभसूचकचिह्ना, पुनः दृष्टिहारिणी नयनाकर्षिणी, चरणपतिः पादप्रतिकृतिपतिः, दृष्टा, च पुनः, तां पादपड्रिं, कौत न औत्सुक्यात्, अनुसरन् अनुगच्छन् , सरस्तीरमण्डनं प्रकृतसरोवरतटालङ्कार
"Aho Shrutgyanam"