________________
तिलकमञ्जरी स्तीरमण्डनमिमं लतामण्डपमनुप्राप्तः । दृष्टा च भवती, अनुभूतं चिरादनेकजन्मान्तरसहस्रसंचितस्य सुकृतराशेरेककालमवाप्तपरमपरिपाकं फलम् , अवधारितमवधिभावेनाङ्गनारूपनिर्माणकौशलं विधातुः, कवलितोऽ. गस्त्यचुलुकस्पर्धयेवैकहेलया दूरकृतविस्तारेण चक्षुषा समस्तदिङ्मुखोल्लची लावण्यजलधिः निष्फलापि सफलीभूतेयं विदेशयात्रा, सांप्रतं यातुमिच्छामि, पृच्छामि च त्वाम , कथय-'कोऽयं जनपदः, किमाख्योऽयमचलः, केन पुण्यात्मना खानितमिदं सरः, कः प्रशास्ति भुवमेतां भूमिपतिः' इत्यादि पृष्टा मया सा कन्यका प्रसत्तिमगमत् [ह]।
___ अवनतमुखी च स्थित्वा मुहूर्तमदत्तोत्तरैव तस्मादशोकतरुतलादचलत् । आभरणमणिरणितवाचालितलतामण्डपोदरा च किञ्चिद् वामतः कुर्वती मामभिमुखमागमत् । स्थित्वा च स्थिरा द्वारनिकटे मुहूर्तमीषद्वलितकन्धरा त्रपातरलितसितेतरतारकाममरनिम्नगातरङ्गतरलायतापाङ्गनिर्गच्छदच्छप्रभावच्छादितदिगन्तरां सुधारसच्छटामिव सकालकूटामक्षिपन्मे चक्षुषि मुहुर्मुहुर्मोहाह्लादकारिणी कटाक्षदृष्टिम् । ततो लक्षिताभिप्रायेण निर्गन्तुमाकाङ्क्षतीयमिति विचिन्त्य स्तोकमपसृतेन मया द्वारि दत्तावकाशा प्रयत्नकृतविवर्त
भूतम् , इमं प्रत्यक्षवर्तिनं, लतामण्डपं लतागृहम् , अनुप्राप्तः आगतः । च पुनः, भवती त्वम् , दृष्टा दृष्टिगोचरीकृता । पुनः चिरात् दीर्घकालात् , अनेकजन्मान्तरसहस्रसश्चितस्य अनेकेषु-बहुषु, जन्मान्तरसहस्रेषु-पूर्वपूर्वभवसहस्रेषु, सञ्चितस्य-संगृहीतस्य, सुकृतराशेः-पुण्यसमूहस्य, एककालम् , अवाप्तपरमपरिपाकं प्राप्तोत्कृष्टपरिणाम, फलम् , अनुभूतम् आखादितम् । पुनः अवधिभावेन सीमात्वेन, विधातुः ब्रह्मणः, अङ्गनारूपनिर्माणकौशलं स्त्रीरूपरचनानैपुण्यम् , अवधारितं निर्णीतम् । पुनः अगस्त्यचुलकस्पर्धयेव अगस्त्यस्य-तत्संज्ञकस्य मुनेः, यच्चलुक-समुद्रपानार्थ मुकुलितकरपुटं, तत्स्पर्धयेव-तज्जिगीषयेव, एकहेलया झटिति, दूरकृतविस्तारेण दूरविस्तारितेन, चक्षुषा, समस्तदिङ्मुखोल्लची
खिलदिगन्तातिकामी, लावण्यजलधिः सौन्दयेसिन्धुः, कवलितः पीतः, सस्नेहं दृष्ट इत्यर्थः । पुनः निष्फलापि आपाततो व्यर्थापि, इयं वर्तमाना, विदेशयात्रा दूरयात्रा, सफलीभूता वस्तुतः फलवती जाता, साम्प्रतम् अधुना, यातुं परावर्तितुम् , इच्छामि, च पुनः, त्वां पृच्छामि वक्ष्यमाणजिज्ञासां विज्ञापयामि, कथय बोधय, अयं दृश्यमानः, कः जनपद: किमाख्यो देशः, अयम् अचलः पर्वतः, किमाख्यः किन्नामा, पुनः इदं प्रत्यक्षभूतं, सरः कासारः, केन पुण्यात्मना धार्मिकेण, खानितं भूम्यवदारणेन निर्मापितम् , पुनः एतां प्रत्यक्षां, भुवं पृथ्वीं, कः, भूमिपतिः राजा, प्रशास्ति अधिकुरुते । मया, इत्यादि एवम् , अन्यदपि पृष्टा जिज्ञासां विज्ञापिता, सा प्रकृता, कन्यका बालिका, प्रसत्तिं प्रमोदम् , अगमत् अन्वभूत् [ह]।
च पुनः, मुहूर्त क्षणम् , अवनतमुखी अधोमुखी सती स्थित्वा, अदत्तोत्तरैव अकृतोक्तप्रश्नोत्तरैव, तस्मात् प्रकृतात् अशोकतरुतलात् अशोकवृक्षमूलात्, अचलत् चलितुं प्रवृत्ता । च पुनः, आभरणमणिरणितवाचालितलतामण्डपोदरा आभरणमणिरणितेन अलङ्करणात्मकमणिरणत्कारेण, वाचालितं-शब्दायितं, लतामण्डपोदरे-लतागृहमध्यं यया तादृशी, किश्चित् ईषत् , वामतः दक्षिणेतरभागे, मां कुर्वती विदधती, अभिमुखं सम्मुखम् , आगमत् आगतवती। च पुनः, द्वारनिकटे द्वारस्य-प्रवेशनिर्गमप्रदेशस्य, निकटे, मुहूर्त क्षणं, स्थित्वा, स्थिरा स्थैर्यमापन्ना प्रस्तुतकन्यका, ईषद्वलितकन्धरा किञ्चिद्वक्रीकृतग्रीवा सती, मुहुर्मुहुः अनेकवारम् , मे मम, चक्षुषि दृष्टिपथे, कटाक्षदृष्टिं कुटिलाकारदृष्टिम् , अक्षिपत् व्यापारितवती, कीदृशीम् ? त्रपातरलितसितेतरतारकां त्रपया-लज्जया, तरलिता-चपलिता, सितेतरा-कृष्णवर्णा, तारकाकनीनिका यस्यां तादृशीम्, पुनः अमरनिम्नगातरङ्गतरलायतापाङ्गनिर्गच्छदच्छप्रभावच्छादितदिगन्तराम् अमरनिम्नगायाः-गङ्गायाः, तरङ्गवत् तरलाभ्यां-चञ्चलाभ्याम् , आयताभ्या-दीर्घाभ्याम् , अपाङ्गाभ्यां- नेत्रप्रान्तप्रदेशाभ्यां, निर्गच्छन्तीभिः-निःसरन्तीभिः, अच्छाभिः-निर्मलाभिः, प्रभाभिः-कान्तिभिः, अवच्छादितम्-आवृतं, दिगन्तरं-दिङा यं यया तादृशीम् , अत एव सकालकूटां विषविशेषमिश्रितां, सुधारसच्छटामिव अमृतरसधारामिवेत्युत्प्रेक्षा, पुनः मोहालादकारिणी मोहस्य-चेतनाशक्तिध्वंसस्य, आहादस्य-आनन्दस्य च, प्रयोजिकाम्। ततः तदनन्तरं, लक्षिताभिप्रायेण प्रतीततदाशयेन, पुनः इयम् अभिमुखवर्तिनी बालिका, निर्गन्तुं ततो निस्सर्तुम् , आकाङ्क्षति इच्छति, इति विचिन्त्य आलोच्य, स्तोकं किञ्चित् , अपसृतेन दूरीभूतेन, मया, द्वारि द्वारदेशे, दत्तावकाशा दत्तनिर्गममार्गा, प्रयत्नकृतविवर्तनापि
"Aho Shrutgyanam"