________________
१५६
टिप्पनक - परागविवृतिसंवलिता ।
नापि किञ्चिन्निजैरङ्गावयवैः स्पृशन्ती स्पर्शलोभेनेव समकालोल्लसितसान्द्रपुलकजालकं मदीयाङ्गवामभागममन्दमुखवासामोद बहलितेन स्वभावसुरभिणा श्वासपरिमलेन पवनलुलितेन च दिव्याङ्गरागसौरभेण समन्ततो वासयन्ती तं वनोद्देशं निर्गता तस्माल्लतामण्डापद् गता च स्खलितपद संचारया गत्या प्रावृण्वती वारंवारमुत्तरीयाञ्चलेन स्वेदनिविडासक्तसूक्ष्मसुकुमाराम्बरं नितम्बम् [क्ष ] । अहमपि तरुस्तम्बान्तरेण तां व्रजन्तीं विरतपक्ष्मास्पन्देन चक्षुषा सरागमीक्षमाणस्तत्रैव देशे इष्टं शंसन् क्षणमतिष्ठम् । ईषदुद्विग्नश्चेति चेतस्य करवम्— 'अहो लोकव्यवहारानभिज्ञत्वमस्याः कन्यकायाः, येन द्वारदेशकृतोपसर्पणस्य पुनः पुनः प्रयुक्तप्रियालापस्य दूरदेशागमन खिन्न वपुषः स्वयमाख्यातनिजवृत्तान्तस्य द्रव्यादावदर्शितार्थिभावस्य वचनमात्रेणापि मे न कृता प्रतिपत्तिः । तत् किमनया ? अन्यतो गच्छामि' इति चिन्तयित्वा ततः स्थानात् स्वदेशदिङ्मुखाभिमुखस्तस्यैव सरसः सरसशिशिरच्छायतरुणा तीरदेशेन शनैः शनैरुदचलम् [ज्ञ ] |
प्रस्थितस्य च मे चेतस्यभवत् – 'अहो ! यत् तदानीमुपवनस्थेन मया तत्र वेत्रधारिनिवेदिते दिव्य
प्रयत्नेन महता यत्नेन कृतं विवर्तनम् - अङ्गसंकोचनं यया तादृश्यपि, स्पर्शलोभेनेव तदङ्गसङ्गमस्पृहयेव, समकालोल्लसितसान्द्रपुलकजालकं समकालम् - एककालम् ; उल्लसितम् - उद्गतम्, सान्द्रं - निबिडं, पुलकजालं - रोमाञ्चराशिर्यस्मिंस्तादृशं, मदीयाङ्गवामभागं मदीयशरीरवामपार्श्व, निजैः स्वकीयैः, अङ्गावयवैः शरीरावयवैः किञ्चित् ईषत् स्पृशन्ती सङ्गमयन्ती, पुनः अमन्द मुखवासामोद बहलितेन अमन्देन - उत्कटेन, मुखवासस्य, मुखसौरभापादकताम्बूलादेः, आमोदेन - सौगन्ध्येन, बहलितेन - प्रचुरीकृतेन स्वभावसुरभिणा अकृत्रिम सौगन्ध्ययुतेन, श्वासपरिमलेन नासिकापवनसौरभेण च पुनः पवनलुलितेन वायुक्षिप्तेन, दिव्याङ्गरागसौरभेण दिव्यानाम् उत्तमानाम्, अङ्गरागाणां - शरीरविलेपनद्रव्याणां, सौरभेण-सौगन्ध्येन तं प्रकृतं, वनोद्देशं वनप्रदेशं, वासयन्ती सुरभयन्ती, तस्मात् प्रकृतात्, लतामण्डपात् लतागृहात् निर्गता निष्क्रान्ता च पुनः स्वेदनिबिडासक्तसूक्ष्म सुकुमाराम्बरं खेदैः - शरीरस्यन्दिजलैः, निबिड - सान्द्रं यथा स्यात् तथा, आसक्तः - आप्लावितः सूक्ष्मः - सुकुमारः, श्लक्ष्णथ, अम्बरः- वस्त्रं यस्मिंस्तादृशं नितम्बं कटिपश्चिमभागम्, उत्तरीयाञ्चलेन उत्तरीयवस्त्रप्रान्तेन, प्रावृण्वती समाच्छादयन्ती सती, स्खलित पदसंचारया स्खलितः - यथास्थानमप्रवृत्तः, पदसञ्चारः - पादविक्षेपो यस्यां तादृश्या, गत्या, गता प्रस्थिता [क्ष ] । अहमपि तरुस्तम्बान्तरेण वृक्षगुच्छमध्येन, व्रजन्तीं गच्छन्तीं तां कुमारिकां, विरतपक्ष्मस्पन्देन विरतः - निवृत्तः, पक्ष्मणः - नयनरोमराजेः, स्पन्दः - किञ्चिच्चलनं यस्मिंस्तादृशेन, चक्षुषा, सरागं सस्नेहम्, ईक्षमाणः पश्यन् इष्टम् अभिलषितं शंसन् सम्भावयन्, तत्रैव तस्मिन्नेव देशे, अतिष्ठम् स्थितवान् । च पुनः, उद्विग्नः व्याकुलः सन्, चेतसि हृदये, इति अनुपदवक्ष्यमाणप्रकारम्, अकरवम् आलोचितवान्, किमित्याह - अस्याः प्रत्यक्षीभूतायाः, कन्यकायाः कुमारिकायाः, लोकव्यवहारानभिज्ञत्वं शिष्टजनाचाराविज्ञत्वम्, अहो आश्चर्यम्, येन तदनभिज्ञत्वेन, वचनमात्रेणापि केवलवचनेनापि मे मम प्रतिपत्तिः सत्क्रिया, न कृता, कीदृशस्य ? द्वारदेशकृतोपसर्पणस्य द्वारप्रदेशमुपागतस्य पुनः पुनः पुनः प्रयुक्तप्रियालापस्य अनेकवारोच्चारितप्रियवाक्यस्य, पुनः दूरदेशागमनखिन्नवपुषः दूरदेशागमनश्रान्तशरीरस्य पुनः स्वयमाख्यातनिजवृत्तान्तस्य स्वयं-खेनैव, आख्यातः-कथितः, निजः - स्वकीयः, वृत्तान्तः - वार्ता येन तादृशस्य, पुनः द्रव्यादौ द्रव्यादिविषये, अदर्शितार्थिभावस्य अदर्शितः - प्रकटितः, अर्थिभावः - प्रयोजनं येन तादृशस्य । तत् तस्माद्धेतोः, अनया प्रत्यक्षीभूतया, कुमार्या, किम् न किमपि प्रयोजनम् इत्यर्थः । अन्यतः अन्यत्र गच्छामि, इति चिन्तयित्वा विचार्य, ततः तस्मात् स्थानात्, स्वदेश दिङ्मुखाभिमुखः स्वदेशदिशः - दक्षिणदिशः, यन्मुखम् - अन्तः, तदभिमुखः- तत्सम्मुखः सन्, सरस शिशिरच्छायतरुणा सरसा:- सार्द्राः, शिशिरच्छायाः - शीतलच्छायाश्च, तरवः - वृक्षा यस्मिंस्तादृशेन तस्यैव प्रकृतस्यैव, सरसः अदृष्टपाराख्यकासारस्य, तीरदेशेन तटमार्गेण, शनैः शनैः मन्दं मन्दं, उदचलं प्रस्थितवान् [ज्ञ ] ।
च पुनः, प्रस्थितस्य प्रयातस्य, मे मम, चेतसि हृदये, अभवत् प्रत्यभिज्ञाऽभूत्, अहो आश्चर्यम्, यत् तदानीं तस्मिन् काले, उपवनस्थेन अयोध्याया मत्तको किलाभिधोद्यानवर्तिना, तत्र तस्मिन् पूर्वमनुभूत इत्यर्थः, वेत्रधारिनिवेदिते
"Aho Shrutgyanam"