________________
तिलकमञ्जरी
१५७ चित्रपटे प्रकाशितमदृष्टपाराख्यं सरो दृष्टमासीत् तदेवैतत् तर्कयामि, यतस्तत्र ये यथा दर्शितास्ते तथैवात्र तिलकतालीतमालबकुलाशोकलकुचलवङ्गचन्दनादयः पादपा दृश्यन्ते, यानि च यदाकाराणि यद्वर्णानि यत्क्रमाणि तस्य पर्यन्तेषु विनिवेशितानि लतासदनानि सैकतानि देवतार्चनवेदिकावलयानि तान्यपि तथैवात्र परिस्फुटानि प्रतिभान्ति । तत् किं पुनः क्रीडानिमित्तमिह समायाता सापि कन्या न सा मद्धृदयकुमुदाकरशशाङ्कलेखा तिलकमञ्जरी । दृश्यते हि तेन चित्रपटपुत्रिकारूपेण सार्धमखिलस्याप्येतदीयाकारस्य संवादः, तथाहि-तादृशी विकचराजचम्पकच्छदावदाता देहच्छविः, ताहगुन्निद्रकनकारविन्दसुन्दरं वदनशतपत्रम् , तादृशस्तुलितकेतकोदरदलद्राधिमा नयनयोरायामः, तादृक्षा च सकलानामपि नितम्बना भिमण्डलोदरस्तनाधरप्रभृतीनामवयवानामभिरामता, सर्वतः स्फुरदनर्घरत्नाभरणरमणीयाया वेषलक्ष्म्या अपि तथाभूतमेवौदार्यम् [क] । किं बहुना, विहाय चलनस्पन्दनाद्यभावमाङ्गिक प्रमाणमङ्गनापरिवारसंपदं च सर्वमन्यत् संवदति, कथं पुनरनेकविद्याधरीवृन्दसहस्रपरिगतायास्तथा वनेऽवस्थानमेकाकित्वं च तस्याः संवृत्तम् । अथवा
प्रतीहारोपहृते, दिव्यचित्रपटे मनोहरचित्राधिष्ठितवस्त्रे, प्रकाशितं चित्रितम् , अदृष्टपाराख्यं तत्संज्ञकं, यत् सरः सरोवरः, मया हरिवाहनेन, दृष्टं दृष्टिपथमानीतम्, आसीत् , तदेव तदात्मकमेव, एतत् प्रत्यक्षभूतं सरः, तर्कयामि इत्येवमनुमिनोमि, यतः यस्माद्धेतोः, तत्र तस्मिन् पटचित्रे सरसि, ये तिलक-ताली-तमाल-बकुला-ऽशोक-लकुचलवङ्ग-चन्दनादयः तत्तत्संज्ञकादयः, पादपाः वृक्षाः, यथा येन प्रकारेण, प्रतीहारेण, दर्शिताः दृष्टिपथमवतारिताः, ते तथैव तेनैव प्रकारेण, अत्र अस्मिन् सरोवरे, दृश्यन्ते दृष्टिगोचरीक्रियन्ते च पुनः, यदाकाराणि याहगवयवसन्निवेशकानि, पुनः यद्वर्णानि यादृग्रूपवन्ति, पुनः यत्क्रमाणि यादृशपौर्वापर्याणि, यानि लतासदनानि लतामण्डपाः; पुनः सैकतानि वालुकामयानि, देवतार्चनवेदिकावलयानि देवतापूजनार्थकल्पितचतुरस्रपरिष्कृतभूमिमण्डलानि, तस्य सरोवरस्य, पर्यन्तेषु प्रान्तेषु, विनिवेशितानि चित्रणेन संस्थापितानि, तान्यपि तथैव तेनैव प्रकारेण, अत्र अस्मिन् सरसि, परिस्फुटानि विस्पष्टानि, प्रतिभान्ति प्रतीतिपथमवतरन्ति । तत् तस्माद्धेतोः, किं पुनः किं वा, इह अस्मिन् सरोवरे, क्रीडानिमित्तं क्रीडाथ, समायाता समागता, या कन्या कुमारिका सापि, सा चित्रपटे दृष्टपूर्वा, मद्धृदयकुमुदाकरशशाङ्कलेखा मदीयहृदयात्मककुमुदकाननचन्द्रलेखा सदृशी, तिलकमञ्जरी तिलकमञ्जरीनामंकविद्याधरकुमारिकैव, न? अर्थात् सेवाभाति, एतदेवाह-हि निश्चयेन, तेन दृष्टपूर्वेण, चित्रपटपुत्रिकारूपेण चित्रपटे-चित्राधारपटे, या पुत्रिका-कन्यकाप्रतिकृतिः, तद्रूपेण-तदाकारेण, सार्ध सह, अखिलस्यापि समग्रस्यापि, एतदीयाकारस्य अनुपदप्रत्यक्षीभूतकन्यकाकारस्य, संवादः साम्य, दृश्यते दृष्ट्या प्रतीयते तत्संवादमेव विशदयति-तथाहीति, विकचराजचम्पकछदावदाता विकचस्य-विकत्वरस्य, राजचम्पकस्य-चम्पकप्रवरस्य, छदवत् , अवदाता-गौरी, तादृशी चित्रितपुत्रिकादेहच्छविसदृशी, देहच्छविः शरीरकान्तिः, पुनः उन्निद्रकनकारविन्दसुन्दरम् उन्निद्रम्-उन्मीलितं, यत् कनकारविन्दं-सुवर्णकमलं, तद्वत् सुन्दरं, ताहक चित्रितकन्यकामुखारविन्दतुल्यं, वदनशतपत्रं मुखकमलम् ; पुनः तुलितकेतकोदरदलद्राघिमा तुलितः-उपमितः, केतकोदरदलस्यकेतकाख्यपुष्पवृक्षसम्बन्धिगर्भपत्रस्य, द्राघिमा-दीर्घता येन तादृशः; तादृशः चित्रितकन्यकानयनविस्तारसदृशः, नयनयोः नेत्रयोः, आयामः-विस्तारः; च पुनः, नितम्बनाभिमण्डलोदरस्तनाधरप्रभृतीनां तावदवयवविशेषादीना, सकलानामपि समग्राणामपि, अवयवानाम् अङ्गाना, तादृक्षा चित्रितकुमारिकावयवसौन्दर्यसदृशी, अभिरामता सौन्दर्यम् ; सर्वतः स्फुरदनर्घरत्नाभरणरमणीयायाः सर्वतः-सर्वावयवेषु, स्फुरद्भिः-प्रकाशमानैः, अनर्घरत्नाभरणैः-अमूल्यरत्ना लङ्करणैः, रमणीयायाः-मनोहरायाः, वेषलक्ष्म्या अपि वेषभूषाया अपि, तथाभूतमेव तादृशमेव, औदार्य वैशिष्ट्यम् [क]। बहुना अधिकसाम्योपवर्णनेन, किम् न किमपि प्रयोजनमित्यर्थः, चलनस्पन्दनाद्यभावं चित्रकल्पिततया पादविक्षेपाङ्गस्फुरणशून्यत्वम्, पुनः आनिकम् अङ्गसम्बन्धि, प्रमाणं चित्रस्थतया हवपरिमाणं, च पुनः, अङ्गनापरिवारसम्पदं चित्रितविद्याधरकुमारिकात्मकसहचरीसमूह, विहाय वर्जयित्वा, अन्यत् तद्वयतिरिक्तं, सर्व समग्रं तद्वैशिष्ट्यं, संवदति उभयसाम्येन प्रत्याययति । अनेकविद्याधरीवृन्दसहस्रपरिगतायाः अनेकैः बहुभिः, विद्याधरीवृन्दसहस्रैः
"Aho Shrutgyanam"