SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ टिप्पनक- परागविवृतिसंवलिता । नैतदालोचनीयम्, अदृष्टपारे संसारे भङ्गुरस्वभावेषु विभवादिषु सर्वभावेषु कर्मपरतन्त्राणां प्राणिनां सर्वमपि संभवति, यथा मम स्वसैन्यमध्य विहितावस्थितेरकस्मादुत्प्लुत्य कृतवियद्वर्त्मगमनेन दन्तिना कृतापहरणस्य संवृत्तम्, एवं तस्या अपि कथञ्चिद् भविष्यति । यद्वा युवतिपरिवारोऽपि तस्याः प्रकटितोऽनुमानेन यस्मात् 'सरस्तीरसैकते तत्र परिसर्पता पूर्वमवलोकितास्तदीयपदपङ्क्तिपर्यन्तेष्वनेकशतसंख्याश्चरणविन्यासा मया स्त्रीजनस्य' इति विचिन्त्य कृतनिश्चयस्तद्दर्शनाशया पुनरपि प्रतीपमगमम् [ख] । अनिरूपितविषमसमभूमिभागश्च गत्वा सत्वरस्तं प्रदेशं सर्वतो दिक्षु निक्षिप्ततरलचक्षुस्तस्य सरसः समासन्नवर्तिषु लतामण्डपेषु तरुखण्डेषु नलवनेषु वालुकापुलिनेषु जलजम्बूनिकुञ्जेषु शिलालयनेषु शैलकन्दरेषु वननदी निर्झरणेष्वन्येषु च मनोरमेषु स्थानेषु तामन्वेषितवान् । अनुपलब्धतदुदन्तश्च किञ्चित्सावशेषेऽहनि हृतस्तदनुरागेण पुनरपि तमेव पूर्वदृष्टमिष्टज्ञातिगृहमिव निवासहेतोरेलालतामण्डपमुपागमम् [ग] । दृष्ट्वा च तं नष्टसकलपूर्वशोभं निशामुखमिवास्तमित शशिलेखम्, उदधिजलमिवोद्धृतसुधम्, सौध १५८ विद्याधरजातीयकन्यकागणसहस्रैः परिगतायाः परिवृतायाः, तस्याः तिलकमञ्जर्याः, वने अवस्थानम् च पुनः, एकाकित्वम् असहायत्वम् कथं पुनः कथं तर्हि, संवृत्तं सञ्जातम् । अथवा एतत् तस्या वनेऽवस्थानादिकं, न आलोचनीयं चिन्तनीयम्, अदृष्टपारे अदृष्टः - अनवलोकितः, पारः - अन्तो यस्य तादृशे, संसारे जगति, विभवादिषु धनादिषु, सर्वभावेषु सर्वपदार्थेषु, भङ्गुरखभावेषु विनश्वरस्वभावेषु सत्सु, कर्मपरतन्त्राणां कर्माधीनसुखदुःखभोक्तृणां प्राणिनां जीवानां, सर्वमपि कर्मविपाककालभेदेन सुखं दुःखमुभयमपि, सम्भवति सम्भावनामर्हति यथा येन प्रकारेण, स्वसैन्यमध्यविहितावस्थितेः निजसैन्यमध्येऽवस्थितस्य पुनः अकस्मात् अतर्कितमेव, उत्प्लुत्य उत्पत्य, कृतवियद्वर्त्मगमनेन कृतं वियद्वर्त्मना - आकाशमार्गेण, गमनं येन तादृशेन, दन्तिना हस्तिना, कृतापहरणस्य अपहृतस्य, मम, संवृत्तं वनेऽवस्थानमेकाकित्वं च सञ्जातम्, एवम् अनेन प्रकारेण तस्या अपि तिलकमञ्जर्या अपि कथञ्चित् कयाऽपि दुर्घटनया, भविष्यति भवितुमर्हति । यद्वा अथवा, तस्याः तिलकमञ्जर्याः, युवति परिवारोऽपि युवतिजनसाहचर्यमपि, अनुमानेन पादपङ्किदर्शनजन्यानुमित्या प्रकटितः - प्रत्यायितः यस्मात् तत्र तस्मिन्, सरस्तीरसैकते प्रकृतसर स्तटवर्तिसिकतामयस्थले, परिसर्पता परिभ्रमता, मया, तदीयपदपङ्किपर्यन्तेषु तत्सम्बन्धिचरणपङ्क्तिप्रान्तेषु, अनेकशतसंख्याः बहुशतसंख्याकाः, स्त्रीजनस्य, चरणविन्यासाः पादविक्षेपचिह्नानि, पूर्वम्, अवलोकिताः दृष्टाः, इति इत्थं विचिन्त्य वितर्क्स, कृतनिश्चयः कृततिलकमञ्जरीनिर्णयः, तद्दर्शनाशया तद्दर्शनाकाङ्क्षया, पुनरपि प्रतीपं तत्प्रतिकूलं यथा स्यात् तथा, अगमं गतवान् [ख] । च पुनः सत्वरः त्वरान्वितः, अत एव अनिरूपितविषमसमभूमिभागः अनिरूपितः - अनिर्णीतः, विषमः- निम्नोन्नतः, समश्च नीचोच्चत्वशून्यश्र, भूमिभागः - भूमिप्रदेशो येन तादृशः सन् तं तदधिष्ठितं, प्रदेशं स्थलं, गत्वा, सर्वतः सर्वासु दिक्षु, निक्षिप्ततरलचक्षुः व्यापारितचञ्चललोचनः सन् तस्य प्रकृतस्य, सरसः सरोवरस्य, समासन्नवर्तिषु सन्निकटवर्तिषु लतामण्डपेषु लतागृहेषु, पुनः तरुखण्डेषु वृक्षसमूहेषु, वनेष्विति यावत्, पुनः नलवनेषु नलाख्यतृणकाण्डगुच्छेषु, पुनः वालुकापुलिनेषु सिकतामयाचिर जलोद्गतस्थलेषु, पुनः जलजम्बूनिकुञ्जेषु जलप्ररोहि जम्बूलता पिहितोदरप्रदेशेषु, पुनः शिलालयनेषु पाषाणमयगृहेषु पुनः शैलकन्दरेषु पर्वतगुहासु पुनः वननदी निर्झरणेषु वननदीप्रवाहप्रदेशेषु, च पुनः, अन्येषु तद्वयतिरिक्तेषु, मनोरमेषु मनोहरेषु स्थानेषु, तां तिलकमञ्जरीम्, अन्वेषितवान् गवेषितवान् । च पुनः, अनुपलब्धतदुदन्तः अप्राप्ततद्वार्ताकः किञ्चित्सावशेषे किञ्चिदवशिष्टे, अहनि दिने, तदनुरागेण तिलकमञ्जरी प्रीत्या, हृतः आकृष्टः सन् पुनरपि निवास हेतोः निवासार्थं, दृष्टपूर्व पूर्वमवलोकितं, तमेव प्रकृतमेव, एलालतामण्डपम् एलालतागृहम् इष्टज्ञातिगृहमिव इष्टबन्धुगृहमिव, उपागमम् उपागतवान् [ग] | च पुनः नष्टसकलपूर्वशोभं क्षीणतिलकमञ्जरीस्थिति कालिका शेष सौन्दर्यम्, अत एव अस्तमितशशिलेखम् अस्तमिता-तिरोभूता, शशिनः - चन्द्रस्य, लेखा - कला यस्मिंस्तादृशं निशामुखमिव प्रदोषसमयमिव, पुनः उद्धृतसुधम् "Aho Shrutgyanam"
SR No.008457
Book TitleTilakamanjiri Part 3
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy