SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी १५९ शिखरमिवापनीतपताकम् , कमलखण्डमिबोडीनहंसमालम् , इन्दुवदनया तया विरहितमुपारूढगुरुविषादः स्थितो द्वारदेशे तथैव तां पुरोऽवस्थितां प्रत्यक्षमिवेक्षमाणश्चेतसा सुचिरम् । उत्थाय गत्वा सरसि चिरपरिभ्रमणखेदायासिततलं प्रक्षाल्य चरणयुगलं कृत्वा च किश्चिदेवतास्मरणमभिनवोद्धृतानास्वाद्य कतिचिदपनीतपङ्कोपलेपनिर्मलान् मृणालिनीकन्दानापीय च कराङ्गुलीविवरविगलदिन्दुदीधितिधवलधारं सुधारसस्वादु स्वेच्छया सलिलमात्तकोमलतमालकिसलयस्तस्य प्रियाङ्गलतापरिष्वङ्गसुभगस्य दिव्याङ्गरागपरिमलस्तोकवाहिनो रक्ताशोकविटपकस्य निकटे शयनमरचयम् [घ]! तत्र च प्रथमदर्शनेऽपि सेयं चक्रसेनतनयेति यन्न निर्णीता, ब्रीडया साध्वसेन वा नेयमुत्तरं प्रयच्छतीति मन्यमानेन यन्न वारंवारमाभाषिता, विहाय रक्ताशोकविटपकं निकटदेशे कृतस्थिरावस्थाना यन्न करतलेनावलम्बिता, मुहुर्मुहुर्मुखावलोकनेन याचमाना निर्गमनवम॑ यद्वारदेशादीषदपसृते नानुवर्तिता, स्पर्शशङ्काविवर्तिताङ्गलता विनिर्यती बहिर्यत्प्रसारितोभयभुजेन गाढं न परिरब्धा, लब्धसुरभिश्वासपरिमलेन सविध उन्मथितामृतम् , उदधिजलमिव समुद्र जलमिव, पुनः अपनीतपताकम् अपसारितध्वजं, सौधशिखरमिव प्रासादोर्ध्वप्रदेशमिव, पुनः उडीनहंसमालम् उड्डीना-गगनमार्गेणोत्पतिता, हंसमाला-हंसश्रेणी यस्मात् तादृशं, कमलखण्डमिव कमलवनमिवेति सर्वत्रोत्प्रेक्षा, इन्दुवदनया चन्द्रमुख्या, तया तिलकमञ्जर्या, विरहितं वियुक्तं, तं लतामण्डपं, दृष्टा अवलोक्य, उपारूढगुरुविषादः उत्पन्नात्यन्तदुःखः, तथैव पूर्वप्रकारेणैव, पुरोऽवस्थिताम् अग्रतः स्थितां, तां तिलकमञ्जरी, प्रत्यक्षमिव साक्षादिव, चेतसा हृदयेन, भावनयेत्यर्थः, ईक्षमाणः पश्यन् , द्वारदेशे लतामण्डपप्रवेशनिर्गमप्रदेशे, सुचिरम् अतिदीर्घकालं, स्थितः । उत्थाय, गत्वा सरस्तटमुपस्थाय, चिरपरिभ्रमणखेदायासिततलं चिरपरिभ्रमणखेदेनदीर्घकालविचरणश्रमेण, आयासितं-श्रमितं, तलं-स्वरूपम् अधःप्रदेशो वा यस्य तादृशं, चरणयुगलं पादद्वयं, सरसि प्रकृतसरोवरे, प्रक्षाल्य विशोध्य, च पुनः, किश्चित् ईषत् , देवतास्मरणं देवताध्यानं, कृत्वा, पुनः अभिनवोद्धृतान् चिरोन्नीतान् , पुनः अपनीतपङ्कोपलेपनिर्मलान् अपनीतेन-अपसरितेन, पङ्कोपलेपेन-पङ्कसम्पर्केण, निर्मलान्-स्वच्छान् , कतिचित् कतिपयान्, मृणालिनीकन्दान् कमलाङ्कुरान् , आस्वाद्य भुक्त्वा, च पुनः, कराङ्गुलीविवरविगलदिन्दुदीधितिधवलधारं कराङ्गुलीनां-हस्ताङ्गुलीनां, विवरेभ्यः-अवकाशेभ्यः, विगलन्ती-स्रवन्ती, इन्दुदीधितिधवला-चन्द्रमरीचिशुभ्रा, धारा-प्रवाहो यस्य तादृशं, पुनः सुधारसस्वादु अमृतरसमधुरं, सलिलं जलं, स्वेच्छया स्वतृप्यनुसारम् , आपीय नितरां पीत्वा, आत्तकोमलतमालकिसलयः आत्तानि-गृहीतानि, कोमलानि, तमालकिसलयानि-तमालपल्लवा येन तादृशः सन् , तस्य रक्ताशोकविटपकस्य रक्ताशोकह्रस्ववृक्षस्य, निकटे समीपे, शयनं शय्याम् , अरचयम् रचितवान् , कीदृशस्य ? प्रियाङ्गलतापरिष्वङ्गसुभगस्य प्रियायाः-प्रीतिमत्याः, तिलकमञ्जर्या इत्यर्थः, अगलतया-शरीरात्मकलतया, परिष्वङ्गेणआलिङ्गनेन, सुभगस्य-सुन्दरस्य, पुनः दिव्याङ्गरागपरिमलस्तोकवाहिनः दिव्यस्य-मनोहरस्य, अङ्गरागस्य-अनोपलेपनद्रव्यस्य, यः परिमलः-सौरभं, स्तोकम्-अल्पं यथा स्यात् तथा, तद्वाहिनः-तत्सम्पर्किणः [घ]। च पुनः, तत्र तस्यामशोकवृक्षनिकटरचितशय्यायां, रजनी रात्रिः, क्षयं समाप्तिम् , अगमत् प्राप्तवतीत्यप्रेणान्वेति, कीदृशी ? मम दर्शनात् , उदीर्णदुस्सहोद्वेगेव उदीर्ण:-उद्भूतः, दुस्सहः-दुःखेन सोढुं शक्यः, उद्वेगः-उद्भमो यस्यास्तादृशी, कीदृशस्य ? प्रथमदर्शनेऽपि आद्यसाक्षात्कारेऽपि, चक्रसेनतनया चक्रसेनसंज्ञकविद्याधरेन्द्रसुता तिलकमञ्जरीति यावत् , या चित्रपटे दृष्टाऽऽसीदित्यर्थः, इति यत् न निर्णीता प्रत्यभिज्ञाता, पुनः वीडया लज्जया, वा पुनः, साध्वसेन भयेन, इयम् , उत्तरं प्रतिवाक्यं, न प्रयच्छति ददातीति मन्यमानेन जानता, मयेति शेषः, वारं वारम् अनेकवारं, यद् न आभाषिता आलपिता, पुनः रक्ताशोकविटपकं रक्ताशोकह्रस्ववृक्षं, विहाय सक्त्वा, निकटदेशे समीपदेशे, कृतस्थिरावस्थाना स्थिरमवस्थिता, करतलेन हस्ततलेन, यन्न अवलम्बिता निगृहीता, पुनः मुहुर्मुहुः वारं वारं, मुखावलोकनेन मदीयमुखदर्शनेन, निर्गमनवम निस्सरणार्थमवकाश, याचमाना प्राप्नुमिच्छन्ती, द्वारदेशात् , ईषत् किञ्चित् , अपसृतेन पृथग्भूतेन, मयेति शेषः, यत् न अनुवर्तिता अनुगता, पुनः स्पर्शशङ्काविवर्तिताङ्गलता स्पर्शशङ्कया-मत्स्पर्शसन्देहेन, निवर्तिता-वक्रीकृता, अगलता यया तादृशी, सा बहिः बाह्यस्थानं, विनियंती विनिर्गच्छन्ती, प्रसारितोभयभुजेन विस्ता "Aho Shrutgyanam"
SR No.008457
Book TitleTilakamanjiri Part 3
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy