________________
टिप्पनक-परागविवृतिसंवलिता । मागतेऽपि वदनस्य परिणतबिम्बपाटलेऽधरमणौ यन्न परिचुम्बिता, गत्वा किश्चिदन्तरं विवर्तितमुखी मुहुर्मुहुलताजालकान्तरेण स्थित्वा स्थित्वा तिर्यगवलोकयन्ती निर्भरानुरागापि भीतेति यत् संभाविता मुग्धता, निराकृतोचितक्रियाप्रवृत्तिश्च निरनुरोधेति जातावज्ञेन यद् व्रजन्ती पृष्ठतो नानुसृता [ङ]। तेनानेकजन्मान्तरसहस्रनिर्वर्तितेन महापातकसमूहेनेवात्यन्तमन्तरनुतप्यमानस्य, संतापवेदनाविनोदाय विहितैर्वारंवारमसमञ्जसैर्गात्रपरिवर्तनैर्व्यस्तशयनीयस्य, निदाघमध्यंदिनानिलस्पर्धिभिरनारतं वहद्भिरायतोष्णैः श्वासमारुतैर्मर्मरीकृतलतापल्लवस्य, लब्धतदीयगात्रसङ्गं वाममङ्गमनङ्गजनितस्वेदसलिलेन दोष्णा दक्षिणेनार्धमुकुलितेक्षणस्य शम्भोरिवार्धनारीश्वरस्य प्रतिक्षणं परिष्वजमानस्य, घ्राणमुपसर्पता तर्पितप्राणेन रक्ताशोकसङ्गिनस्तदङ्गरागस्य परिमलशेषेण रक्षितोत्क्रामज्जीवितस्य, अश्रुततदीयजल्पं श्रवणयुगमसत्कल्पं कलयतः; निमीलितेक्षणस्य तां सर्वतो दिक्षु पश्यतः, चक्रवाकस्येवैकाकिनः सरस्तीरे निषण्णस्य, कुमुदखण्डस्येव कणद्भिरलिकुलैराकुलीकृतस्य इन्दुना शमितनिद्रस्य मम दर्शनादुदीर्णदुःसहोद्वेगेव दूरानतविपाण्डुशशिमण्डलानना क्षयमगाद् रजनी [च]।
रितबाहुद्वयेन, गाढं निर्भरं, यत् न परिरब्धा आलिङ्गिता, पुनः लब्धसुरभिश्वासपरिमलेन लब्धः-गृहीतः, घ्रात इत्यर्थः, सुरभेः-सुगन्धेः, श्वासस्य-नासिकापवनस्य, परिमल:-सौरभं येन तादृशेन, मयेति शेषः, वदनस्य मुखस्य, सविधं समीपम् , आगतेऽपि प्राप्तेऽपि, परिणतबिम्बपाटले परिपक्वबिम्बफलवद् रक्ते, अधरमणी अधरोष्टरूपे मणौ, यत् न परिचुम्बिता स्वकीयौष्ठाभ्यां संस्पृष्टा, पुनः किश्चिदनन्तरम ईषदर, गत्वा, विवर्तितमुखी वक्रीकृतवदना, स्थित्वा स्थित्वा गमनान्निवृत्य गमनानिवृत्य, लताजालकान्तरेण लतागुल्ममध्येन, मुहुर्मुहुः-अनेकवारं, तिर्यगवलोकयन्ती कटाक्षयन्ती, । रागा सान्द्रस्नेहापि, भीता भयं प्राप्ता, इति अस्माद्धतोः, मुग्धता अप्ररूढानुरागता, यत् सम्भाविता शङ्किता, च पुनः, निराकृतोचितक्रियाप्रवृत्तिः निराकृता-परित्यक्ता, उचितक्रियायांवाचनिकमत्सक्रियायां प्रवृत्तिर्यया तादृशी, अत एव निरनरोधा निःस्पृहा, इति अस्मात् कारणात् , जातावशेन उत्पन्नानादरेण, मयेति शेषः, वजन्ती गच्छन्ती, सा पृष्ठतः पश्चाद् भागेन, यत् न अनुसृता अनुगता [ङ], अनेकजन्मान्तरसहस्रनिर्वर्तितेन अनेकपूर्वजन्मसहस्रसम्पादितेन, महापातकसमूहेनेव महापापपुञ्जनेवेत्युत्प्रेक्षा, तेन तदाभाषणाद्यभावेन, अत्यन्तम् , अन्तः-अन्तःकरणे, अनुतप्यमानस्य पश्चात्तापमनुभवतः । पुनः कीदृशस्य ? सन्तापवेदनाविनोदाय प्रकृतानुतापदुःखापनयनाय, वारंवार, विहितैः कृतैः, असमञ्जसैः अयोग्यैः, गा परिघट्टनैः, व्यस्तशयनीयस्य विघटितशय्यस्य; पुनः निदाघमध्यन्दिनानिलस्पर्धिभिः ग्रीष्मदिनमध्यचारिवायुपराजयेच्छुभिः, अनारतं निरन्तरं, वहद्भिः निर्गच्छद्भिः, आयतोष्णैः आयतैः दीर्घः, उष्णैश्च, श्वासमारुतैः श्वासवायुभिः, मर्मरीकृतलतापल्लवस्य मर्मरीकृताः-रुक्षीकृताः, लतासम्बन्धिनः, पल्लवाः-नूतनपत्राणि येन तादृशस्य; पुनः लब्धतदीयगात्रसङ्गं प्राप्ततिलकमञ्जरीशरीरस्पर्श, वामम् , अङ्गम् , अर्धमुकुलितेक्षणस्य निमीलितार्धलोचनस्य, अर्धनारीश्वरस्य अर्धे-शरीरवामभागे नारीस्वरूपस्य-पार्वतीरूपकस्य, ईश्वरस्य, शम्भोरिव शिवस्येव, अनङ्गजनितखेदसलिलेन अनङ्गेनकामदेवेन, जनितम्-उद्भावितं, खेदसलिलं-धर्मजलं यस्मिंस्तादृशेन, दक्षिणेन, दोषणा बाहुना, प्रतिक्षणं क्षणं क्षणं, परिष्वजमानस्य संश्लिष्यतः; पुनः घ्राणमुपसर्पता घ्राणगोचरीभवता, पुनः तर्पितप्राणेन तर्पितः-तृप्तिमनुभावितः प्राणःशरीरान्तः सञ्चारिवायुविशेषो येन तादृशेन, रक्ताशोकसङ्गिनः रक्ताशोकसंसृष्टस्य, तदङ्गरागस्य तदङ्गविलेपनद्रव्यस्य, परिमलशेषेण अवशिष्टसौरभण, रक्षितोत्क्रामजीवितस्य रक्षितं-स्थापितम्, उक्रामत्-ऊर्व निर्गच्छत् , जीवितं-प्राणो यस्य तादृशस्य; पुनः अश्रुततदीयजल्पम् अश्रुतः-न श्रुतः, तदीयजल्पः-तद्वचनं येन तादृशं श्रवणयुगलं-श्रोत्रद्वयम् , असत्कल्पम् अविद्यमानतुल्यं, कलयतः मन्यमानस्य पुनः निमीलितेक्षणस्य मुद्रितनेत्रस्य सतः, सर्वतः सर्वासु, दिक्षु, तां तिलकमञ्जरी, पश्यतः भावनया साक्षात् कुर्वतः; पुनः चक्रवाकस्येव तदाख्यपक्षिविशेषस्येव, एकाकिनः प्रियाविरहितस्य, सरस्तीरे प्रकृतसरोवरतटे, निषण्णस्य स्थितस्य पुनः कुमुदखण्डस्येव चन्द्रविकासिकमलकाननस्येव, कणद्धिः गुजद्भिः, अलिकुलैः भ्रमरगणैः, आकुलीकृतस्य कामोद्दीपकतया व्यथितस्य, पक्षे व्याप्तस्य; पुनः इन्दुना चन्द्रेण, शमितनिद्रस्य कामोद्दीपनद्वारा क्षपितनिद्रस्य, पक्षे निवर्तितसंकोचस्य, विकासितस्येत्यर्थः [च]।
"Aho Shrutgyanam"