SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी १६१ अथारुणकरपरामृष्टेषु प्रकटयितुमिव मे विषादान्धस्य भुवनाभोगमुज्झत्सु दिग्द्वाराणि शार्वरतिमिरेषु, जलतुषारासारवाहिषु विहन्तुमिव मद्विरहदाहहव्यवाहव्यथां वहत्सु मन्थरप्रभातपवनेषु, श्वासशेषावशेषजीवितजीवितमाश्वासयितुमिव मामितस्ततः प्रचलयन्तीषु पल्लवतालवृन्तानि प्रान्तवनलतासु, संध्यातपानुरञ्जितपत्रेषु सर्वरात्रजागरणजिझारुणाक्षमनुकर्तुमिव मामीषन्निमिषत्सु नीलोत्पलवनेषु, अवनितलनिषण्णनिःसहावस्थितेरुत्थापनाय हस्तावलम्बनमिव मे दातुमन्तलताभवनमन्तरालैरवतरत्सु भास्करकरेषु, निराकृतमदीयधैर्योत्कर्षितेन मकरकेतुना समुत्तम्भितासु जयपताकास्विव वियति विततायमानासु सरःशायिसारसक्रौञ्चकलहंसमालासु, जाते स्पष्टभासि प्रभातसमये, भूयोऽपि तामप्रगल्भमृगशावलोचनामन्वेष्टुमनुसृततदीयपदपतिरुदचलम् [छ । तां गत्वा प्रगुणमध्वनैकेन पुनरपि प्रतिनिवृत्तामुपरि पतितेन पादपप्रसवरेणुना परामृष्टपूर्वदृष्टसकलावयवशोभां कचित् सत्वरां कचित् सविलम्बां काप्यपथगां कचिन्मार्गलग्नां सरलां सैकतेषु कुञ्चितां कुश अथ रात्रिक्षयानन्तरम् , अरुणकरपरामृष्टेषु अरुणस्य-सूर्यसारथेः, सूर्यस्य वा, करैः-किरणैः, परामृष्टेषु-आक्रान्तेषु, शार्वरतिमिरेषु रात्रिसम्बन्ध्यन्धकारेषु, विषादान्धस्य प्रकृतप्रियावियोगजन्यखेदान्धीभूतस्य, मे मम, भुवनाभोगं भुवनविस्तार, प्रकटयितुमिव प्रकाशयितुमिव, दिग्द्वाराणि दिक्सम्बधीनि द्वाराणि, उज्झत्सु त्यजत्सुः पुनः जलतुषारासारवाहिषु जलसम्बन्धिशीतलधारावर्षिषु, मन्थरप्रभातपवनेषु प्रातःकालिकमन्दवायुषु, मद्विरहदाहहव्यवाहव्यथां मदीयविरहतापाग्निव्यथां, विहन्तुमिव शमयितुमिव, वहत्सु चलत्सु; पुनः माम् , श्वासशेषावशेषजीवितजीवितं श्वासशेषरूपेण अवशेषजीवितेन-अवशिष्टप्राणेन, जीवितं-प्राणवन्तम् , आश्वासयितुमिव विश्वासयितुमिव, प्रान्तवनलतासु निकटवर्तिवनसम्बन्धिलतासु, पल्लवतालवृन्तानि पल्लवव्यजनानि, इतस्ततः अत्र तत्र, प्रचलयन्तीषु उत्क्षिपन्तीषुः पुनः सन्ध्यातपानुरञ्जितपत्रेषु सन्ध्यातपेन-दिनारम्भकालिकरक्तालोकेन, अनुरञ्जितानि-रक्तीकृतानि, पत्राणि येषां तादृशेषु, नीलोत्पलवनेषु नीलकमलकाननेषु, सर्वरात्रजागरणजिझारुणाक्षं सर्वरात्रजागरणेन-समग्ररात्रिजाग़रणेन जिह्मकुटिलम् , अरुण-रक्तं च, अक्षि-नेत्रं यस्य तादृशं, माम् , अनुकर्तुमिव उपमातुमिव, ईषत् किञ्चित् , निमिषत्सु विकसत्सु; पुनः अवनितलनिषण्णनिस्सहावस्थितेः अवनितलनिषण्णस्य-भूतलोपविष्टस्य, निस्सहावस्थितेः-दुर्बलावस्थस्य, मे मम, उत्थापनाय ऊर्ध्वावस्थापनाय, हस्तावलम्बनं करावलम्बं, दातुमिव, भास्करकरेषु सूर्यकिरणेषु, अन्तलताभवनं लतागृहाभ्यन्तरम् , अन्तरालैः मध्यवर्त्यवकाशैः, अवतरत्सु आपतत्सुः पुनः, निराकृतमदीयधैर्योत्कर्षितेन निराकृतेनअपसारितेन, मदीयधैर्येण-मदीयेन दुःखसहितत्वेन, उत्कर्षितेन-उत्कर्ष-विजयमापादितेन,मकरकेतुना कामदेवेन, समुत्तम्भितासु समुन्नमितासु, जयपताकाखिव जयध्वजेष्विव, सर शायिसारसक्रौञ्चकलहंसमालासु सरःशायिनां-निरुक्त नशीलानां, सारसक्रौञ्चकलहंसानां-तत्तज्जातीयपक्षिविशेषाणां, मालासु-श्रेणीषु, वियति आकाशे, विततायमानासु विस्तृतायमानासु; पुनः प्रभातसमये प्रातःकाले, स्पष्टभासि स्फुटप्रकाशे, जाते संवृत्ते सति, अप्रगल्भमृगलोचनाम् अप्रौढमृगशिशुसदृशनयनां, तां तिलकमञ्जरी, भूयोऽपि पुनरपि, अन्वेष्टम् गवेषयितुम् , अनुसृततदीयपदपङ्क्तिः अनुगततत्सम्बन्धिपादचिह्नपक्तिः, उदचलं प्रयातवानहम् [छ]। तां पदपतिम् , एकेन, अध्वना मार्गेण, प्रगुणं सरलं यथा स्यात् तथा, गत्वा, पुनरपि प्रतिनिवृत्तां परावृत्ताम् ; पुनः उपरि पतितेन स्खलितेन, पादपप्रसवरेणुना वृक्षसम्बन्धिपुष्परजसा, परामृष्टपूर्वदृष्टसकलावयवशोभां परामृष्टा-तिरोहिता, पूर्वदृष्टा, सकला-समग्रा, अवयवशोभा-अङ्गुल्यादिचिह्नशोभा यस्यां तादृशी; पुनः क्वचित् कस्मिंश्चित् स्थाने, सत्वरां सवेगां; पुनः क्वचित् कुत्रापि, सविलम्बां विलम्बेन सहितां; पुनः क्वापि कुत्रचित् , अपथगां मार्गभ्रष्टा, पुनः क्वचित् मार्गलग्नां मार्गसंबद्धाः पुनः सैकतेषु सिकतामयस्थलेषु, सरलाम् ऋजुरूपां; पुनः कुशस्तम्बेषु २१ तिलक. "Aho Shrutgyanam"
SR No.008457
Book TitleTilakamanjiri Part 3
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy