SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १६२ टिप्पनक - परागविवृतिसंवलिता । बेषु खण्डितां गण्डशैलेषु वलितां वृक्षमूलेषु कुटिलां पङ्कपटलेषु विरलां बालवननदीवेणिकोत्तारेषु स्पष्टामूषरेषु नष्टां शिलाफलकेषु निश्चलया दृशा निपुणमीक्षमाणः पदश्रेणिमेलालतासदनस्य तस्य प्रान्तवर्तिषु वननिकुञ्जेष्वतिचिरं व्यचरम् । उपलब्धपर्यन्तश्च पर्यायेण तस्याः क्षणेनैव शिथिलीभूतसर्वाङ्गसंधिः सविधवर्तिनस्तरोरेकस्य मूले निरवलम्बमात्मानममुञ्चम् [ज] । क्रमातिवाहितविततमूर्च्छान्धकारश्च 'किं करोमि, कं पृच्छामि, कां दिशमनुसरामि, केनोपायेन तां पुनरपि द्रक्ष्यामि शून्येऽस्मिन्नरण्ये' इति विचिन्त्य वारं वारमुत्थाय च ततो वृथाशया तरलिताशयस्तुङ्गमारुह्य तटमेकमुन्मुखः सकलान्यपि समन्ततो दिङ् - खान्यवालोकयम् । अपश्यं च तस्य सरस उत्तरे तीरे दूरतः श्रूयमाणमुखरपक्षारवमेक हेलयोत्पतितमन्तरिक्षे दिङ्मुखान्याश्रयन्तं जलपतत्रिणां समूहम् । उपजातकुतूहलश्च तेन तस्याकस्मिकक्षोभेण गत्वा दृष्ट्वा च सर्वतो दत्तनिपुणदृष्टिस्तं प्रदेशमकरवं मनसि [झ ]- 'हन्त ! यथेदमतिदूरसीम न्तितसान्द्रशैवलप्रतानमभिनवोपलक्ष्यमाणकोमलमृणालिका भङ्गमसकलप्रशान्तपङ्ककलङ्कधूस रसरस्तीरसलिलम्, यथा सरसकर्णिका 3 कुशपुञ्जेषु, कुञ्चितां कुटिलां पुनः गण्डशैलेषु पर्वतच्युतस्थूलपाषाणेषु, खण्डितां विच्छिन्नां; पुनः वृक्षमूलेषु वृक्षाधःस्थलेषु, वलितां वत्रीकृतां; वलयितामिति पाठे मण्डलीभूतां पुनः पङ्कपटलेषु पङ्कराशिपु, कुटिलां वक्रां; पुनः बालवननदीवेणिकोत्तारेषु नवीन वनोद्गत नदीप्रवाहावतारेषु विरलां सान्तरां, पुनः ऊपरेषु क्षारमृत्तिकासु, स्पष्टां स्फुटां; पुनः शिलाफलकेषु प्रस्तरफलकेषु, नष्टां तिरोहितां, पदश्रेणिं पादाकृतिपङ्क्ति, निश्चलया स्थिरया, दृशा, निपुणं स्फुटम्, ईक्षमाणः पश्यन्, तस्य निरुक्तस्य, एलालतासदनस्य एलालतागृहस्य, प्रान्तवर्तिषु पार्श्ववर्तिषु, वन निकुञ्जेषु लतापिहितोदरेषु च, अतिचिरम् अतिदीर्घकालं व्यचरं भ्रान्तवान् । पर्यायेण क्रमेण, तस्याः पादश्रेण्याः, उपलब्धपर्यन्तः प्राप्तान्तावधिः, क्षणेनैव क्षणमात्रेण, शिथिलीभूतसर्वाङ्गसन्धिः शिथिलीभूताः - दौर्बल्यमापन्नाः, सर्वाङ्गसन्धयःसमग्राङ्गग्रन्थयो यस्य तादृशः सन् सविधवर्तिनः निकटवर्तिनः एकस्य, तरोः वृक्षस्य, मूले अधःस्थळे, निरवलम्बं चैतन्यशून्यं, मूच्छतमित्यर्थः, आत्मानं खम्, अमुञ्चं त्यक्तवान् [ ज ] । च पुनः क्रमातिवाहितविततमूर्च्छान्धकारः क्रमेण - शनैः शनैः, अतिवाहितः - अतिक्रान्तः, विततः - विस्तृतः, मूर्च्छारूपः - अचैतन्यरूपः, अन्धकारो येन तादृशः सन् किं करोमि प्रतिकरोमि, पुनः कं तदभिज्ञजनं, पृच्छामि तद्वार्तामित्यर्थः, पुनः कां दिशं यस्यामसी मिलेदित्यर्थः, अनुसरामि अनुव्रजामि, पुनः शून्ये निर्जने, अस्मिन्, अरण्ये वने, केन उपायेन प्रतीकारेण, पुनरपि तां तिलकमञ्जरी, द्रक्ष्यामि दृष्टिगोचरीकरिष्यामि, इति विचिन्त्य वितर्क्स, च पुनः, ततः वृक्षमूलात् वारं वारम् अनेकवारम् उत्थाय, वृथाशया निष्फलाशया, तरलिताशयः चञ्चलीकृतचेताः, तुङ्गम् उच्चम् एकं तटं तीरभागम्, आरुह्य उन्मुखः ऊर्ध्वमुखः सन्, सकलान्यपि समग्राण्यपि, दिङ्मुखानि दिगन्तान्, अवालोकयम् अवलोकितवानहम् । च पुनः, तस्य प्रकृतस्य, सरसः सरोवरस्य, उत्तरे तीरे, दूरतः दूरस्थानात् श्रूयमाणमुखरपक्षारखं श्रूयमाणाः, मुखराणां - वाचालानां, पक्षाणाम्, आरवाःध्वनयो यस्य तादृशम्, पुनः एकहेलया एक्क्रीडया, युगपदित्यर्थः, अन्तरिक्षे आकाशे, उत्पतितम् उड्डीनं, दिङ्मुखानि दिगन्तान्, आश्रयन्तं प्राप्नुवन्तं, जलपतत्रिणां जलपक्षिणां, समूहं गणम्, अपश्यं दृष्टवानहम् । च पुनः, तस्य जलपक्षिगणस्य, तेन श्रुतेन, आकस्मिकक्षोभेण अतर्कितोत्पतनेन, उपजातकुतूहल : उत्पन्नौत्सुक्यः, गत्वा च पुनः, सर्वतः सर्वभागेषु दत्तनिपुणदृष्टिः व्यापारिततीव्रलोचनः तं तदुत्पतनावधिकं, प्रदेशं स्थानं, दृष्ट्वा, मनसि हृदये, अकरवम् आलोचितवानहम् [झ ] । हन्त खेदः, अतिदूरसीमन्तितसान्द्रशैवलप्रतानम् अतिदूरे - अधिकदूरे, सीमन्तितः - विन्यस्तकेशपाशवदाबद्धः, सान्द्रशैवलप्रतानः - निविडजलतृणविशेषराशिर्यस्मिंस्तादृशम्, पुनः अभिनवोपलक्ष्यमाणकोमलमृणालिकाभङ्गम् अभिनवाः- नवीनाः, उपलक्ष्यमाणाः - नवीत्वेन प्रतीयमानाः, कोमलाः, मृणालिकाभङ्गाः - बिसखण्डा यस्मिंस्तादृशम्, इदं पुरोवर्ति, असकलप्रशान्तपङ्ककलङ्कधूसर सरस्तीरसलिलम् असकलप्रशान्तेन - असमग्रनिवृत्तेन, पङ्करूपेण कलङ्केन, धूसरं-किञ्चित्पाण्डुवर्णं, सरस्तीरस लिलं निरुक्तसरोवरतट वर्तिजलं, यथा यादृशं 'दृश्यते' इत्यग्रेणान्वेति; पुनः "Aho Shrutgyanam"
SR No.008457
Book TitleTilakamanjiri Part 3
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy