SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ तिलकमञ्जरी १६३ वलयैरविवर्णकेशरकलापैर्विकाशदूरोत्तानपत्रपङ्किभित्रुटितनालैरपि सरोरुहैरलंकृतेयं पुलिनभूमिः, यथा च तोयाद्रपदपङ्किमुद्रितरेणुरेष मार्गे दृश्यते, तथा तर्कयामि - सांप्रतमेव कृतप्रातः स्नानो दत्तदिनकरार्घाञ्जलिः पुरुषेषु नारीषु वा गतः स्थानादितः कोऽपि निजमावासम्, इति संप्रधार्योदङ्मुखस्तेनैव दृष्टेनाध्वना स्तोकमव्रजम् । अपश्यं च तं दिगन्तरव्यापिना दीप्तिनिवहेन दूरत एव सिन्दूरितनभोभागं पद्मरागशिलामयं प्रासादम्, यदीयपर्यन्तोपवनमध्यवर्ती गन्धर्वकोपदिष्टवर्त्मना मठादेत्य दृष्टस्त्वयाहम् । प्रविश्य च तत्र कृतदेवतानमस्कारो नातिनेदीयसि शिलामण्डपद्वारस्य मणिशिलादारुमत्तवारणे समुपाविशम् [ञ ] । अपश्यं च तत्राष्टादशवर्षदेशीयाम्, अचिरस्नापितस्य विकासितोत्तानपत्रप्रान्तविगलदम लोदबिन्दुभिस्तत्क्षणप्रतिबुद्धानामुद्यानदीर्घिकाजलदेवतानामीक्षणप्रवृत्तजृम्भिकाश्रुकणिकैर्मुख प्रतिबिम्बैरिव सद्यो जलादुद्धृतैः कनकारविन्दैरुपरचितपूजस्य तत्क्षणोत्क्षिप्तधूपवर्तेर्युगादिजिनबिम्बस्य पुरतो नातिनिकटे समुपविष्टामभि सरसकर्णिकावलयैः सरसम् - आर्द्र, कर्णिकावलयं - बीजकोषमण्डलं येषां तादृशैः, पुनः अविवर्णकेशर कलापैः अविवर्णःअमलिनः, केशरकलापः–किञ्जल्कपुञ्जो येषां तादृशैः, पुनः विकाशदूरोत्तानपत्रपङ्किभिः विकाशेन दूरम् उत्ताना- औन्मुखेन प्रसृता, पत्रपङ्क्ङ्किः-पत्रश्रेणी येषां तादृशैः, त्रुटितनालैरपि खण्डिताधारदण्डैरपि, सरोरुहैः कमलैः, अलङ्कृता विभूषिता, इयं प्रत्यक्षभूता, पुलिनभूमिः अचिरजलोद्गतस्थली, यथा यादृशी दृश्यते च पुनः, एषः अयं, मार्गः, यथा यादृशः, तोयार्द्रपदपङ्किमुद्रितरेणुः तोयार्द्रया- जलार्द्रया, पदपङ्ख्या - पादाकृतिपङ्क्या, मुद्रिताः - स्तब्धाः, रेणवो यस्मिंस्तथाभूतः, दृश्यते दृष्टिपथमवतरति; तथा तेन प्रकारेण, तर्कयामि सम्भावयामि, यत् साम्प्रतमेव अधुनैव, कृतप्रातः स्नानः विहितप्राभातिकस्नानक्रियः, पुनः दत्तदिनकरार्घाञ्जलिः दत्तसूर्यार्घः, पुरुषेषु नरेषु, नारीषु स्त्रीषु वा, मध्ये, कोऽपि कश्चिज्जनः, इतः अस्मात्, स्थानात् प्रकृतसरस्त प्रदेशात्, निजं स्वकीयम्, आवासं निवासस्थानं, गतः, इति इत्थं, सम्प्रधार्य निश्चित्य, उदङ्मुखः उत्तराभिमुखः, दृष्टेन पूर्वमवलोकितेन, तेनैव पूर्वं गतेनैव, अध्वना मार्गेण, स्तोकं किञ्चित्, अव्रजं गतवान् । च पुनः, दिगन्तव्यापिना दिगन्तविस्तारिणा, दीप्तिनिवहेन प्रभाजालेन, दूरत एव दूरादेव, सिन्दूरितनभोभागं सिन्दूरितः-रक्तीकृतः, नभोभागः- आकाशप्रदेशो येन तादृशं, पद्मरागशिलामयं पद्मरागाख्यरक्तमणिमयं तं प्रासादं देवतामन्दिरम् अपश्यं दृष्टवानहम्, यदीयपर्यन्तोपवनमध्यवर्ती यत्प्रान्तवर्युपवनमध्यस्थः, अहम्, गन्धर्वकोपदिष्टवर्त्मना गन्धर्वकाख्यविद्याधर बालकदर्शितमार्गेण, मठात्, एत्य आगत्य त्वया, अहं दृष्टः साक्षात् कृतः । च पुनः, तत्र तस्मिन्, प्रासादे, प्रविश्य अभ्यन्तरं गत्वा, कृतदेवतानमस्कारः, नातिनेदीयसि किञ्चिन्निकटवर्तिनि शिलामण्डपद्वारस्य निरुक्तशिलामयमन्दिरद्वारसम्बन्धिनि, मणिशिलादारुमत्तवारणे मणिमये दारौ भव्ये, मत्तवारणे - प्रमादिजनवारके स्थानविशेषे, समुपाविशं सम्यगुपविष्टवानहम् [ झ ] । च पुनः, तत्र तस्मिन् मन्दिरे, 'एकाम् असहायां, तापसकन्यकां तपखिनीं कुमारिकाम्' इत्यग्रेणान्वेति, अपश्यम् अवलोकितवान् कीदृशीम् ? अष्टादशवर्षदेशीयां किञ्चिदूनाष्टादशवर्षवयस्काम्; पुनः कीदृशीम् ? युगादिजिनबिम्बस्य युगस्य आदिः-सर्वप्रथमावतीर्णः, यो जिनः, आदिनाथ इत्यर्थः, तद्विम्बस्य - तत्प्रतिमायाः, पुरतः अग्रे, नातिनिकटे किञ्चित् समीपे समुपविष्टां सम्यगुपविष्टाम् कीदृशस्य तद्विम्बस्य ? अचिरस्नापितस्य किञ्चित् पूर्वं सम्पादितस्नानस्य, पुनः कनकारविन्दैः सुवर्णकमलैः, उपरचितपूजस्य विहितार्चनस्य, कीदृशैः ? विकासितोत्तानपत्र प्रान्तविगलदमलोद बिन्दुभिः विकासितानाम्—उत्तानानाम्, उन्नतानां पत्राणां प्रान्तेभ्यः - सीमाप्रदेशेभ्यः, विगलन्तः - स्रवन्तः, अमलाः- स्वच्छाः, उदबिन्दवःजलकणा येषां तादृशैः, पुनः तत्क्षणप्रतिबुद्धानां तत्कालजागरितानाम्, उद्यानदीर्घिकाजलदेवतानाम् उपवनवर्ति वापि का जलाधिष्ठातृदेवतानाम्, ईक्षण प्रवृत्तजृम्भिकाऽऽश्रुकणिकैः ईक्षणप्रवृत्ताः - नयनगलिताः, जृम्भिकाम्बुकणिकाःशरीरान्तर्वर्तिवायुकृतवदनव्यादानोद्गत नेत्रजलबिन्दवो येषु तादृशैः, मुखप्रतिबिम्बैरिव मुखप्रतिछायात्मकैरिव, सद्यः तत्क्षणं, जलात् वापीस्थजलमध्यात्, उद्धृतैः ऊर्ध्वमानीतैः पुनः कीदृशस्य ! तत्क्षणोत्क्षिप्तधूपवर्तेः तत्क्षणं-तत्कालम्, उत्क्षिप्ता "Aho Shrutgyanam"
SR No.008457
Book TitleTilakamanjiri Part 3
Original Sutra AuthorN/A
AuthorDhanpal Mahakavi, Shantyasuri, Lavanyasuri
PublisherVijaylavanyasurishwar Gyanmandir Botad
Publication Year
Total Pages202
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy