Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 165
________________ तिलकमञ्जरी १५३ जानीथ श्रुतशालिनौ खलु युवामावां प्रकृत्यर्जुनी, त्रैलोक्ये वपुरीगन्ययुवतः संभाव्यते किं क्वचित् । एतत् प्रष्टुमपास्तनीलनलिनश्रेणीविकासश्रिणी, शङ्केऽस्याः समुपागते मृगदृशः कर्णान्तिकं लोचने ॥२॥" [श] । निर्वर्ण्य चातिचिरकालमालपितुकामस्तदभिमुखोऽहमभवम् । सापि मां तथागत्य द्वारदेशे कृतावस्थानमेकाकिनमाबद्धनिश्चललक्ष्येण चक्षुषा प्रत्येकमवयवानवलोकयन्तमवलोक्य समुपजातसाध्वसा सहसैव प्रबल. मारुताहता बालकदलीकन्दलीव कम्पितुमारब्धा । दृष्ट्वा च तां तथाविधामुपजातकरुणोऽहं विधायाकार संवरणमर्पितनिर्विकारस्तिमितदृष्टिस्तन्मुखारविन्दे स्थानस्थित एव तां शनैरवदम्— 'बालिके! का त्वम् , किमर्थमेकाकिनी प्रविष्टा शून्ये लताजालकेऽस्मिन्नकस्मादेवमुद्धान्तचित्ता भीतेव दिलु क्षिपसि विकसितेन्दीवरदलदामदीर्घान् दृष्टिपातान् [प] । किं च मां दृष्टाऽनिष्टशकिनीवात्मनो वारंवारमपवारिततनुस्तनीयसा टिप्पन कम्-उदर्चिः-अग्निः 'जानीथ' इत्यादिश्लोकः, श्रुतशालिनौ श्रुतं-शास्त्रं श्रवणं च । प्रकृत्यर्जुनी स्वभावेन सरले धवले। कर्णान्तिकं श्रवणसमीपम् [श] । यस्यास्तादृशी, गिरिशनयनोदर्चिर्दग्धाद गिरिशस्य-शिवस्य, नयनरूपेण, उदर्चिषा-उद्गतम् अर्चिः-ज्वाला यस्मात् तेन, अग्निनेत्यर्थः, दग्धाद् भस्मीकृताद्, मनोभवपादपात् कामदेवरूपवृक्षाद् , जाता उत्पन्ना, नवकन्दली नव्याङ्कुरः, अस्तीति शेषः अत्र सदेन्हालङ्कारः॥ जानीथ श्रुतशालिनौ खलु युवामावां प्रकृत्यर्जुनी । त्रैलोक्ये वपुरीगन्ययुवतेः सम्भाव्यते किं क्वचित् ॥ एतत्प्रष्ट नपास्तनीलनलिनश्रेणीविकासश्रिणी । शङ्केऽस्याः समुपागते मृगदृशः कर्णान्तिकं लोचने ॥ २॥ आवां नयने, प्रकृत्या स्वभावेन, ऋजुनी सरलाकारे, ऊहापोहापटुतया सरलबुद्धिके च, युवा कर्णौ तु, खलु निश्चयेन, श्रुतशालिनौ श्रुतेन-शास्त्रेण, श्रवणगोचरीकृतेन युवतिजनवृत्तान्तेन च शालेते-शोभेते यौ तादृशो, जानीथ वेत्थ, यत् त्रैलोक्ये त्रिभुवने, क्वचित् कुत्रापि, अन्ययुवतेः एतदतिरिक्ततरुण्याः, ईदृक् एतादृशम् , वपुः शरीरं, सम्भाव्यते सम्भवति किम् ?, शङ्के उत्प्रेक्षे, एतत् अनुपदोक्तं, प्रष्टुं जिज्ञासितुम् , अस्याः पुरोवर्तिन्याः, मृगदृशः मृगलोचनायाः, अपास्तनीलनलिनश्रेणीविकासश्रिणी अपास्ता-तिरस्कृता, नीलनलिनश्रेण्याः-नीलकमलपढ़ेंः, विकासश्रीः-विकासशोभा याभ्यां तादृशे, लोचने नयने, कर्णान्तिकं कर्णसमीपं, समुपागते सम्यगायाते, कर्णसंसृष्टे इत्यर्थः । अत्रोत्प्रेक्षालङ्कारः [श]। च पुनः, अतिचिरकालम् अतिदीर्घकालं, निर्वर्ण्य दृष्ट्वा, आलपितुकामः आभाषितुमिच्छुः, तदभिमुखः तत्सम्मुखः, अभवं संवृत्तोऽहम्। सापि प्रकृतबालिकापि, तथा तेन प्रकारेण, आगत्य, द्वारदेशे एलागृहप्रवेश निर्गमस्थाने, कृतावस्थानम् अवस्थितम् , पुनः एकाकिनम् असहायम् , पुनः आबद्धनिश्चललक्ष्येण आबद्धं-खाभिमुखमारोपितं, निश्चलं-स्थिरं, लक्ष्य-प्रकृतयुवतिरूपदृश्यं येन तादृशेन, चक्षुषा, प्रत्येकम् एकैकम , अवयवान् अङ्गानि, अवलोकयन्तं पश्यन्तं, माम् , अवलोक्य दृष्ट्वा, समुपजातसाध्वसा समुत्पन्नभया, प्रबलमारुताहता प्रबलपवनान्दोलिता, बालकदलीकन्दलीव नवकदलीलतिकेव, सहसैव शीघ्रमेव, कम्पितुम् , आरब्धा प्रवृत्ता। च पुनः, तां प्रकृतबालिका, तथाविधां कम्पमानां, दृष्ट्वा, उपजातकरुणः उत्पन्नदयः, अहम् , आकारसंवरणं विकृताकारगोपनं, विधाय कृत्वा, तन्मुखारविन्दे तदीयमुखकमले, अर्पितनिर्विकारस्तिमितदृष्टिः अर्पिता-आरोपिता, निर्विकारा-कामविकारशून्या, स्तिमिता-निश्चला, दृष्टिः-लोचनं येन तादृशः सन , स्थानस्थित एव अत्यक्तस्वस्थान एव, तां बालिका, शनैः मन्दम् , अवदम् उक्तवान् । बालिके ! त्वं का किंजातीया, कस्य सुता वा, एकाकिनी असहाया सती, शून्ये निर्जने, अस्मिन् प्रत्यक्षवर्तिनि, लताजालके लतापुञ्ज, प्रविष्टा प्रवेशं कृतवती, अकस्मात विनैव कारणम् , एवम् अनेन प्रकारेण, उद्धान्तचित्ता उद्विग्नहृदया, भीतेव भयाकु.लेव, विकसितेन्दीवरदलदामदीर्घान् विकसितानाम् , इन्दीवरदलानां-नीलकमलपत्राणां, यद् दाम-माल्यं, तद्वद्दीर्घान् , दृष्टिपातान् , दिक्षु, किमर्थं किमुद्दिश्य, क्षिपसि प्रेरयसि [ष] | च पुनः, मां, दृष्ट्वा, आत्मनः स्वस्य, अनिष्टशङ्किनीव प्रतिकूलसन्देहिनीव, तनीयसा अतिसूक्ष्मेण, स्तनांशकेन स्तनावरणवस्त्रेण, वारंवारम् २० तिलक. "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202