Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 176
________________ १६४ टिप्पनक - परागविवृतिसंवलिता । मुखीम् [८], आबद्धपद्मासनाम्, अतिस्थिरतया कायस्य लिखितामिवोत्कीर्णामिव निखातामिव स्तम्भितामिव विभाव्यमानाम्, आयतनभित्तिसंरोधसंभृतस्य निजदेहप्रभा प्रवाहस्य मध्ये मुग्धशशिकला मिव दुग्धाब्धिपयसः कृच्छ्रेणोपलक्ष्यमाणावयवाम्, अच्छललाटलावण्यलीनमतीव महाभोगमपि भगवतो युगादिजिनस्य बिम्बमल्पाश्रयावस्थापनेन तनिमानमानीय भक्तयतिशयादिवोत्तमाङ्गेनोद्वहन्तीम् [ठ ], पृष्ठपीठावलम्बिना विरलविरलस्नानजलबिन्दुदन्तुरेण शापदानाशङ्किनेव मन्दमन्दमायामिना केशभारेण स्पृश्यमानपृथुनितम्बभाराम्, अनवरतमन्त्रोच्चारविघटितोष्ठपुटनिष्ठ्यूतैरमलकान्तिभिर्दन्तकिरणैर्ध्यानमुकुलितायतापाङ्गेषु संगलितमुत्सारयन्तीमतो गर्भगृहगोचरं ध्वान्तजालम्, आमलकीफलस्थूलमुक्ताफलग्रथितमधोमुखमयूखेन चक्षुषा लक्ष्यीकृतमक्षसूत्रमङ्गुष्ठलतया मन्त्रपाठपरिसमाप्तौ दक्षिणाग्रकरपरिगृहीतमावर्तयन्तीं, दिव्यतरुवल्कलदुकूलनिवसनाम्, एकामखिललोकत्रयातिशायिरूपां तापसकन्यकाम् [ ड ] | उपरि सञ्चारिता, धूपवर्तिः- गन्धद्रव्योत्थधूम शिखा यस्य तादृशस्य [ ट ]; पुनः कीदृशीम् ? अभिमुखीम् आदिजिन सम्मुखीम् ; पुनः आबद्धपद्मासनां रचितपद्माकारासनाम्; पुनः कायस्य शरीरस्य, अतिस्थिरतया अतिनिश्चलतया, लिखितामिव चित्रितामिव पुनः उत्कीर्णामिव मृदादिपुञ्जवदुत्क्षिप्तामिव पुनः निखातामिव स्तम्भादिवदन्तर्वद्धमूलामिव पुनः स्तम्भितामिव जडीकृतामिव विभाव्यमानां प्रतीयमानाम्; पुनः आयतनभित्तिसंरोधसम्भृतस्य आयतनभित्त्यामन्दिरकुड्येन, यः संरोधः - अवरोधः, तेन, यद्वा तद्भित्तिरूपेण, संरोधेन-तटेन, सम्भृतस्य- वर्धितस्य, निजदेहप्रभाप्रवाहस्य स्वशरीरकान्तितरङ्गस्य, मध्ये कृच्छ्रेण आयासेन, उपलक्ष्यमाणावयवाम् उपलक्ष्यमाणाः - प्रभातः पार्थक्येन प्रतीयमानाः, अवयवाः-अङ्गानि यस्यास्तादृशीम्, कस्य मध्ये कामिव ? दुग्धाब्धिपयसः क्षीरसमुद्रजलस्य, मध्ये, मुग्धशशिकलामिव मुग्धा - मूढा मनोहरा वा या शशिकला - चन्दकला तामिव पुनः अच्छललाटलावण्यलीनम् अच्छे-निर्मले, ललाटलावण्ये - ललाटसौन्दर्ये, लीनं तिरोहितम्, अतीव महाभोगमपि अत्यधिक विशालमपि, भगवतः परमैश्वर्यशालिनः, युगादिजिनस्य युगारम्भावतीर्णजिनस्य, आदिनाथस्येत्यर्थः, विम्बं मूर्तिम्, अल्पाश्रयावस्थापनेन सङ्कीर्णललाटप्रदेशावस्थापनेन, तनिमानं कृशताम्, आनीय प्रापय्य, भक्त्यतिशयादिव प्रीत्युत्कर्षादिव, उत्तमाङ्गेन शिरसा, उद्वहन्तीं .. धारयन्तीम् [ ठ ]; पुनः पृष्ठपीठावलम्बिना पृष्ठप्रदेशावलम्बिना, विरल विरलस्नानजल बिन्दुदन्तुरेण विरलविरलैःअल्पाल्पप्रमाणैः, स्नानजलबिन्दुभिः - स्नानजलकणैः, दन्तुरेण - व्याप्तेन, पुनः शापदानाशङ्किनेव अशुभाशंसनसन्देहिनेव, मन्दमन्दं शनैः शनैः, आयामिना अधःप्रसारिणा, केशभारेण केशराशिना, स्पृश्यमान पृथुनितम्बभारां स्पृश्यमानःसंपृच्यमानः, पृथुनितम्बभारः-स्थूलनितम्बमण्डलं यस्यास्तादृशीम् ; पुनः अनवरतमन्त्रोच्चारविघटितोष्ठपुटनिष्ठयूतैः अनवरतं-निरन्तरं, मन्त्रोच्चारेण मन्त्रपाठेन, विघटिताद् - विश्लिष्टात्, ओष्ठपुटात्, निष्ठयूतैः-निर्गलितैः, अमलकान्तिभिः उज्वलच्छविभिः, दन्तकिरणैः दन्तरश्मिद्वारा, ध्यानमुकुलितायतापाङ्गेषु ध्यानमुकुलितेषु-ध्याननिमीलितेषु, आयतेषुविस्तृतेषु, अपाङ्गेषु-नेत्रप्रान्तप्रदेशेषु, संगलितम् आपतितम्, गर्भगृहगोचरम् अभ्यन्तरगृहस्थं, ध्वान्तजालम् अन्धकारसमूहम्, अग्रतः अग्रे, उत्सारयन्तीम् अपनयन्तीम् ; पुनः आमलकीफलस्थूलमुक्ताफलग्रथितम् आमलकीफलस्थूलैः-आमलकीफलवत्-धात्रीफलवत्, स्थूलैः, मुक्ताफलैः - मुक्तामणिभिः, ग्रथितम्, पुनः अधोमुखमयूखेन अधोमुखकिरणेन, चक्षुषा नेत्रेण, लक्ष्यीकृतं गोचरीकृतं, दक्षिणाग्रकरपरिगृहीतं दक्षिणकराग्रधृतम्, अक्षसूत्रं जपमालां, मन्त्रपाठपरिसमाप्तौ मन्त्रपाठावसाने अङ्गुष्ठलतया लताकाराङ्गुष्ठेन, आवर्तयन्तीं पुनः पुनः सञ्चालयन्तीम् ; पुनः दिव्यतरुवल्कल दुकूलवसनाम् उत्तमवृक्षत्वग्रूपपट्टवस्त्रं परिदधानाम् पुनः अखिललोकत्रयातिशायिरूपां समग्रत्रिभुवनोत्कृष्टरूपाम् [ड ] | "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202