Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 172
________________ टिप्पनक-परागविवृतिसंवलिता । मागतेऽपि वदनस्य परिणतबिम्बपाटलेऽधरमणौ यन्न परिचुम्बिता, गत्वा किश्चिदन्तरं विवर्तितमुखी मुहुर्मुहुलताजालकान्तरेण स्थित्वा स्थित्वा तिर्यगवलोकयन्ती निर्भरानुरागापि भीतेति यत् संभाविता मुग्धता, निराकृतोचितक्रियाप्रवृत्तिश्च निरनुरोधेति जातावज्ञेन यद् व्रजन्ती पृष्ठतो नानुसृता [ङ]। तेनानेकजन्मान्तरसहस्रनिर्वर्तितेन महापातकसमूहेनेवात्यन्तमन्तरनुतप्यमानस्य, संतापवेदनाविनोदाय विहितैर्वारंवारमसमञ्जसैर्गात्रपरिवर्तनैर्व्यस्तशयनीयस्य, निदाघमध्यंदिनानिलस्पर्धिभिरनारतं वहद्भिरायतोष्णैः श्वासमारुतैर्मर्मरीकृतलतापल्लवस्य, लब्धतदीयगात्रसङ्गं वाममङ्गमनङ्गजनितस्वेदसलिलेन दोष्णा दक्षिणेनार्धमुकुलितेक्षणस्य शम्भोरिवार्धनारीश्वरस्य प्रतिक्षणं परिष्वजमानस्य, घ्राणमुपसर्पता तर्पितप्राणेन रक्ताशोकसङ्गिनस्तदङ्गरागस्य परिमलशेषेण रक्षितोत्क्रामज्जीवितस्य, अश्रुततदीयजल्पं श्रवणयुगमसत्कल्पं कलयतः; निमीलितेक्षणस्य तां सर्वतो दिक्षु पश्यतः, चक्रवाकस्येवैकाकिनः सरस्तीरे निषण्णस्य, कुमुदखण्डस्येव कणद्भिरलिकुलैराकुलीकृतस्य इन्दुना शमितनिद्रस्य मम दर्शनादुदीर्णदुःसहोद्वेगेव दूरानतविपाण्डुशशिमण्डलानना क्षयमगाद् रजनी [च]। रितबाहुद्वयेन, गाढं निर्भरं, यत् न परिरब्धा आलिङ्गिता, पुनः लब्धसुरभिश्वासपरिमलेन लब्धः-गृहीतः, घ्रात इत्यर्थः, सुरभेः-सुगन्धेः, श्वासस्य-नासिकापवनस्य, परिमल:-सौरभं येन तादृशेन, मयेति शेषः, वदनस्य मुखस्य, सविधं समीपम् , आगतेऽपि प्राप्तेऽपि, परिणतबिम्बपाटले परिपक्वबिम्बफलवद् रक्ते, अधरमणी अधरोष्टरूपे मणौ, यत् न परिचुम्बिता स्वकीयौष्ठाभ्यां संस्पृष्टा, पुनः किश्चिदनन्तरम ईषदर, गत्वा, विवर्तितमुखी वक्रीकृतवदना, स्थित्वा स्थित्वा गमनान्निवृत्य गमनानिवृत्य, लताजालकान्तरेण लतागुल्ममध्येन, मुहुर्मुहुः-अनेकवारं, तिर्यगवलोकयन्ती कटाक्षयन्ती, । रागा सान्द्रस्नेहापि, भीता भयं प्राप्ता, इति अस्माद्धतोः, मुग्धता अप्ररूढानुरागता, यत् सम्भाविता शङ्किता, च पुनः, निराकृतोचितक्रियाप्रवृत्तिः निराकृता-परित्यक्ता, उचितक्रियायांवाचनिकमत्सक्रियायां प्रवृत्तिर्यया तादृशी, अत एव निरनरोधा निःस्पृहा, इति अस्मात् कारणात् , जातावशेन उत्पन्नानादरेण, मयेति शेषः, वजन्ती गच्छन्ती, सा पृष्ठतः पश्चाद् भागेन, यत् न अनुसृता अनुगता [ङ], अनेकजन्मान्तरसहस्रनिर्वर्तितेन अनेकपूर्वजन्मसहस्रसम्पादितेन, महापातकसमूहेनेव महापापपुञ्जनेवेत्युत्प्रेक्षा, तेन तदाभाषणाद्यभावेन, अत्यन्तम् , अन्तः-अन्तःकरणे, अनुतप्यमानस्य पश्चात्तापमनुभवतः । पुनः कीदृशस्य ? सन्तापवेदनाविनोदाय प्रकृतानुतापदुःखापनयनाय, वारंवार, विहितैः कृतैः, असमञ्जसैः अयोग्यैः, गा परिघट्टनैः, व्यस्तशयनीयस्य विघटितशय्यस्य; पुनः निदाघमध्यन्दिनानिलस्पर्धिभिः ग्रीष्मदिनमध्यचारिवायुपराजयेच्छुभिः, अनारतं निरन्तरं, वहद्भिः निर्गच्छद्भिः, आयतोष्णैः आयतैः दीर्घः, उष्णैश्च, श्वासमारुतैः श्वासवायुभिः, मर्मरीकृतलतापल्लवस्य मर्मरीकृताः-रुक्षीकृताः, लतासम्बन्धिनः, पल्लवाः-नूतनपत्राणि येन तादृशस्य; पुनः लब्धतदीयगात्रसङ्गं प्राप्ततिलकमञ्जरीशरीरस्पर्श, वामम् , अङ्गम् , अर्धमुकुलितेक्षणस्य निमीलितार्धलोचनस्य, अर्धनारीश्वरस्य अर्धे-शरीरवामभागे नारीस्वरूपस्य-पार्वतीरूपकस्य, ईश्वरस्य, शम्भोरिव शिवस्येव, अनङ्गजनितखेदसलिलेन अनङ्गेनकामदेवेन, जनितम्-उद्भावितं, खेदसलिलं-धर्मजलं यस्मिंस्तादृशेन, दक्षिणेन, दोषणा बाहुना, प्रतिक्षणं क्षणं क्षणं, परिष्वजमानस्य संश्लिष्यतः; पुनः घ्राणमुपसर्पता घ्राणगोचरीभवता, पुनः तर्पितप्राणेन तर्पितः-तृप्तिमनुभावितः प्राणःशरीरान्तः सञ्चारिवायुविशेषो येन तादृशेन, रक्ताशोकसङ्गिनः रक्ताशोकसंसृष्टस्य, तदङ्गरागस्य तदङ्गविलेपनद्रव्यस्य, परिमलशेषेण अवशिष्टसौरभण, रक्षितोत्क्रामजीवितस्य रक्षितं-स्थापितम्, उक्रामत्-ऊर्व निर्गच्छत् , जीवितं-प्राणो यस्य तादृशस्य; पुनः अश्रुततदीयजल्पम् अश्रुतः-न श्रुतः, तदीयजल्पः-तद्वचनं येन तादृशं श्रवणयुगलं-श्रोत्रद्वयम् , असत्कल्पम् अविद्यमानतुल्यं, कलयतः मन्यमानस्य पुनः निमीलितेक्षणस्य मुद्रितनेत्रस्य सतः, सर्वतः सर्वासु, दिक्षु, तां तिलकमञ्जरी, पश्यतः भावनया साक्षात् कुर्वतः; पुनः चक्रवाकस्येव तदाख्यपक्षिविशेषस्येव, एकाकिनः प्रियाविरहितस्य, सरस्तीरे प्रकृतसरोवरतटे, निषण्णस्य स्थितस्य पुनः कुमुदखण्डस्येव चन्द्रविकासिकमलकाननस्येव, कणद्धिः गुजद्भिः, अलिकुलैः भ्रमरगणैः, आकुलीकृतस्य कामोद्दीपकतया व्यथितस्य, पक्षे व्याप्तस्य; पुनः इन्दुना चन्द्रेण, शमितनिद्रस्य कामोद्दीपनद्वारा क्षपितनिद्रस्य, पक्षे निवर्तितसंकोचस्य, विकासितस्येत्यर्थः [च]। "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202