Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 169
________________ तिलकमञ्जरी १५७ चित्रपटे प्रकाशितमदृष्टपाराख्यं सरो दृष्टमासीत् तदेवैतत् तर्कयामि, यतस्तत्र ये यथा दर्शितास्ते तथैवात्र तिलकतालीतमालबकुलाशोकलकुचलवङ्गचन्दनादयः पादपा दृश्यन्ते, यानि च यदाकाराणि यद्वर्णानि यत्क्रमाणि तस्य पर्यन्तेषु विनिवेशितानि लतासदनानि सैकतानि देवतार्चनवेदिकावलयानि तान्यपि तथैवात्र परिस्फुटानि प्रतिभान्ति । तत् किं पुनः क्रीडानिमित्तमिह समायाता सापि कन्या न सा मद्धृदयकुमुदाकरशशाङ्कलेखा तिलकमञ्जरी । दृश्यते हि तेन चित्रपटपुत्रिकारूपेण सार्धमखिलस्याप्येतदीयाकारस्य संवादः, तथाहि-तादृशी विकचराजचम्पकच्छदावदाता देहच्छविः, ताहगुन्निद्रकनकारविन्दसुन्दरं वदनशतपत्रम् , तादृशस्तुलितकेतकोदरदलद्राधिमा नयनयोरायामः, तादृक्षा च सकलानामपि नितम्बना भिमण्डलोदरस्तनाधरप्रभृतीनामवयवानामभिरामता, सर्वतः स्फुरदनर्घरत्नाभरणरमणीयाया वेषलक्ष्म्या अपि तथाभूतमेवौदार्यम् [क] । किं बहुना, विहाय चलनस्पन्दनाद्यभावमाङ्गिक प्रमाणमङ्गनापरिवारसंपदं च सर्वमन्यत् संवदति, कथं पुनरनेकविद्याधरीवृन्दसहस्रपरिगतायास्तथा वनेऽवस्थानमेकाकित्वं च तस्याः संवृत्तम् । अथवा प्रतीहारोपहृते, दिव्यचित्रपटे मनोहरचित्राधिष्ठितवस्त्रे, प्रकाशितं चित्रितम् , अदृष्टपाराख्यं तत्संज्ञकं, यत् सरः सरोवरः, मया हरिवाहनेन, दृष्टं दृष्टिपथमानीतम्, आसीत् , तदेव तदात्मकमेव, एतत् प्रत्यक्षभूतं सरः, तर्कयामि इत्येवमनुमिनोमि, यतः यस्माद्धेतोः, तत्र तस्मिन् पटचित्रे सरसि, ये तिलक-ताली-तमाल-बकुला-ऽशोक-लकुचलवङ्ग-चन्दनादयः तत्तत्संज्ञकादयः, पादपाः वृक्षाः, यथा येन प्रकारेण, प्रतीहारेण, दर्शिताः दृष्टिपथमवतारिताः, ते तथैव तेनैव प्रकारेण, अत्र अस्मिन् सरोवरे, दृश्यन्ते दृष्टिगोचरीक्रियन्ते च पुनः, यदाकाराणि याहगवयवसन्निवेशकानि, पुनः यद्वर्णानि यादृग्रूपवन्ति, पुनः यत्क्रमाणि यादृशपौर्वापर्याणि, यानि लतासदनानि लतामण्डपाः; पुनः सैकतानि वालुकामयानि, देवतार्चनवेदिकावलयानि देवतापूजनार्थकल्पितचतुरस्रपरिष्कृतभूमिमण्डलानि, तस्य सरोवरस्य, पर्यन्तेषु प्रान्तेषु, विनिवेशितानि चित्रणेन संस्थापितानि, तान्यपि तथैव तेनैव प्रकारेण, अत्र अस्मिन् सरसि, परिस्फुटानि विस्पष्टानि, प्रतिभान्ति प्रतीतिपथमवतरन्ति । तत् तस्माद्धेतोः, किं पुनः किं वा, इह अस्मिन् सरोवरे, क्रीडानिमित्तं क्रीडाथ, समायाता समागता, या कन्या कुमारिका सापि, सा चित्रपटे दृष्टपूर्वा, मद्धृदयकुमुदाकरशशाङ्कलेखा मदीयहृदयात्मककुमुदकाननचन्द्रलेखा सदृशी, तिलकमञ्जरी तिलकमञ्जरीनामंकविद्याधरकुमारिकैव, न? अर्थात् सेवाभाति, एतदेवाह-हि निश्चयेन, तेन दृष्टपूर्वेण, चित्रपटपुत्रिकारूपेण चित्रपटे-चित्राधारपटे, या पुत्रिका-कन्यकाप्रतिकृतिः, तद्रूपेण-तदाकारेण, सार्ध सह, अखिलस्यापि समग्रस्यापि, एतदीयाकारस्य अनुपदप्रत्यक्षीभूतकन्यकाकारस्य, संवादः साम्य, दृश्यते दृष्ट्या प्रतीयते तत्संवादमेव विशदयति-तथाहीति, विकचराजचम्पकछदावदाता विकचस्य-विकत्वरस्य, राजचम्पकस्य-चम्पकप्रवरस्य, छदवत् , अवदाता-गौरी, तादृशी चित्रितपुत्रिकादेहच्छविसदृशी, देहच्छविः शरीरकान्तिः, पुनः उन्निद्रकनकारविन्दसुन्दरम् उन्निद्रम्-उन्मीलितं, यत् कनकारविन्दं-सुवर्णकमलं, तद्वत् सुन्दरं, ताहक चित्रितकन्यकामुखारविन्दतुल्यं, वदनशतपत्रं मुखकमलम् ; पुनः तुलितकेतकोदरदलद्राघिमा तुलितः-उपमितः, केतकोदरदलस्यकेतकाख्यपुष्पवृक्षसम्बन्धिगर्भपत्रस्य, द्राघिमा-दीर्घता येन तादृशः; तादृशः चित्रितकन्यकानयनविस्तारसदृशः, नयनयोः नेत्रयोः, आयामः-विस्तारः; च पुनः, नितम्बनाभिमण्डलोदरस्तनाधरप्रभृतीनां तावदवयवविशेषादीना, सकलानामपि समग्राणामपि, अवयवानाम् अङ्गाना, तादृक्षा चित्रितकुमारिकावयवसौन्दर्यसदृशी, अभिरामता सौन्दर्यम् ; सर्वतः स्फुरदनर्घरत्नाभरणरमणीयायाः सर्वतः-सर्वावयवेषु, स्फुरद्भिः-प्रकाशमानैः, अनर्घरत्नाभरणैः-अमूल्यरत्ना लङ्करणैः, रमणीयायाः-मनोहरायाः, वेषलक्ष्म्या अपि वेषभूषाया अपि, तथाभूतमेव तादृशमेव, औदार्य वैशिष्ट्यम् [क]। बहुना अधिकसाम्योपवर्णनेन, किम् न किमपि प्रयोजनमित्यर्थः, चलनस्पन्दनाद्यभावं चित्रकल्पिततया पादविक्षेपाङ्गस्फुरणशून्यत्वम्, पुनः आनिकम् अङ्गसम्बन्धि, प्रमाणं चित्रस्थतया हवपरिमाणं, च पुनः, अङ्गनापरिवारसम्पदं चित्रितविद्याधरकुमारिकात्मकसहचरीसमूह, विहाय वर्जयित्वा, अन्यत् तद्वयतिरिक्तं, सर्व समग्रं तद्वैशिष्ट्यं, संवदति उभयसाम्येन प्रत्याययति । अनेकविद्याधरीवृन्दसहस्रपरिगतायाः अनेकैः बहुभिः, विद्याधरीवृन्दसहस्रैः "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202