Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 129
________________ तिलकमञ्जरी ११७ रतिरसतरङ्गिणीपूरायमाणस्तरुगहनान्तरितमूर्तेर्गाथकजनस्य प्रबलवेणुवीणाविलाससंवलनतारो गीतझात्कारः कर्णमूलमविशत् [ई] । तेन च मनुष्यलोकदुःश्रवेण श्रवणेन्द्रियाह्लादिना सुहृदवस्थानलीलापिशुनेन श्रवणविषयमुपसेदुषा दिव्यगीतशब्देनोत्सार्य गाम्भीर्य मुद्गताश्रुबिन्दुक्किन्नलोचनोदरेण कठोरपुलकपक्ष्मलितकपोलभित्तिना स्मितज्योत्स्नाविशदेन वदनशशिना व्यक्तीकृतं हर्षवैकृतं नियन्तुमितस्ततो दृष्टिपातैः कृतालीकचित्तव्याक्षिप्तिः, अभ्यर्णेष्टसमागमप्रीतिरसविसंस्थूलैरखिलाङ्गैः परवानिव, अनेकसहस्रसंख्यानामेकनीलवर्णमिव विश्वं दर्शयितुमुत्थितानां पृथक्पृथग्वीथीक्रमनिर्मितानामपि परस्परसंपर्किणातिमांसलेन हसितनीलीरसनीलिन्ना प्रभाप्लवेन निर्विभागानामिव विभाव्यमानानां भुवनविजयप्रवृत्तमकरध्वजगजानीककदलिकासंदोहसंदेहदायिनां कदलीगृहाणामन्तरेण स्तोकान्तरमतिक्रम्य अङ्घ्रिपच्छायाकलापमिव पल्लवितमश्वकान्तिहरितं हरिदश्वरथपताकानिकुरम्बमिव प्रतिबिम्बितमम्बरमन्दाकिनीजम्बालकूटमिव वीचिविघट्टनभ्रष्टमभ्रसमयध्वान्त कण्ठकन्दलीदीर्घेण दीर्घीकृतकण्ठनालगम्भीरेण, कूजितेन अव्यक्तशब्देन, क्रियमाणषड्जस्वरानुवाद इव क्रियमाणः, षड्जस्वरस्य-तदाख्यखरस्य, अनुवादः - प्रतिध्वननं यस्मिंस्तादृश इवः पुनः रतिरसतरङ्गिणीपूरायमाणः प्रीतिरसनदीप्रवाहायमाणः; पुनः प्रवलवेणुवीणाविलाससंवलनतारः प्रबलैः - प्रचुरैः, वेणूनां - वंशवाद्यविशेषाणां, वीणानां च, विलासैः-ध्वनिसौष्ठवैः, संवलनेन - सम्पर्केण, तारः - अत्यन्ततीत्रः कस्य गीतझात्कारः ? तरुगहनान्तरितमूर्तेः वृक्षवृन्दाच्छन्नशरीरस्य, गाथकजनस्य गानकुशलजनस्य [ई] च पुनः, मनुष्यलोकदुःश्रवेण मनुष्यलोकैः - मनुष्यजनैः, दुःखेन श्रोतुं शक्येन, श्रवणेन्द्रियाह्लादिना श्रवणेन्द्रियप्रसादकेन, सुहृदवस्थानलीलापिशुनेन सुहृदः - मित्रस्य, हरिवाहनस्येत्यर्थः, अवस्थानं - तत्र स्थितिः, तल्लीला पिशुनेनतद्विलाससूचकेन, श्रवणविषयं श्रवणगोचरताम्, उपसेदुषा प्राप्तवता, तेन अधुनैवोपवर्णितेन, दिव्यगीतशब्देन मनोहरगानशब्देन, गाम्भीर्यं हर्षविकार संवरणकौशलम् उत्सार्य परित्यज्य, उद्गताश्रुविन्दुक्लिन्नलोचनोदरेण उद्गतैःउत्थितैः, अश्रुबिन्दुभिः-अश्रुकणैः, क्लिन्नम् - आर्द्रीकृतं, लोचनोदरं - नयनमध्यं यस्मिंस्तादृशेन, पुनः कठोरपुलकपक्ष्मलितकपोल भित्तिना कठोरैः, पुलकैः - रोमाञ्चैः, पक्ष्मलिता - पूरिता, कपोलभित्तिः - गण्डस्थली यस्मिंस्तादृशेन, पुनः स्मितज्योत्स्नाविशदेन मन्दहासमरीचिधवलेन, वदनशशिना मुखचन्द्रेण व्यक्तीकृतं प्रकटीकृतं, हर्षवैकृतं हर्षोद्गारं, नियन्तुं संवरीतुम्, इतस्ततः अत्र तत्र दृष्टिपातैः दृष्टिविक्षेपैः कृतालीकचित्तव्याक्षिप्तिः कृता-विहिता, अलीका - कृत्रिमा, चित्तव्याक्षिप्तिः–चित्तव्यग्रता येन तादृशः, अभ्यर्णेष्ट समागमप्रीतिरसविसंस्थूलैः अभ्यर्णेन-निक्टेन, इष्टसमागमेनहरिवाहनाख्यप्रियजनसङ्गमेन यः प्रीतिरसः - प्रसादात्मको रसः, तेन विसंस्थूलैः -शिथिलैः, अखिलाङ्गैः सर्वावयवैः, परवानिव पराधीन इव, नियन्त्रित इवेत्यर्थः, समरकेतुरित्यर्थः, अनेकसहस्रसंख्यानां बहुसहस्रसंख्यावताम्, पुनः विश्वं जगन्मण्डलम्, एकनीलवर्ण नीलरूपैकवर्ण, दर्शयितुमिव, उत्थितानाम् उद्गतानाम्, पुनः पृथक्पृथग्वीथीक्रमनिर्मितानामपि भिन्नभिन्नपङ्किक्रमनिवेशितानामपि परस्परसंपर्किणा परस्परसंकीर्णेन, अतिमांसलेन अत्यन्तसान्द्रेण पुनः हसितनीली सनी लिम्ना हसितः - तिरस्कृतः, नील्याः - नीलवर्णौषधिविशेषस्य, यो रसः - द्रवः, तत्सम्बन्धी नीलिमा- नीलकान्तिर्येन तादृशेन, प्रभावेन कान्तिकलापेन, निर्विभागानामिव संश्लिष्टानामिव विभाव्यमानानां लक्ष्यमाणानां पुनः भुवनविजयप्रवृत्तमकरध्वजगजानीककदलिका सन्दोहसन्देहदायिनां भुवनविजये - जगद्वशीकरणे, प्रवृत्तस्य, मकरध्वजस्यकामदेवस्य, ये गजानीकाः - गजसैन्याः, तत्सम्बन्धिक दलिकानां - तत्सम्बन्धिपताकानां, संदोहस्य- विचारस्य, सन्देहदायिनां - सन्देहकारिणां कदलीगृहाणां रम्भास्तम्भमयगृहाणाम्, अन्तरेण मध्येन, स्तोकान्तरं किञ्चिद्दूरम्, अतिक्रम्य लङ्घित्वा, गत्वेत्यर्थः, ‘एकं रम्भागृहं कदलीगृहम् अपश्यत् दृष्टवान्' इत्यप्रेणान्वेति कीदृशम् ? पल्लवितं प्रवृद्धम्, अङ्घ्रिपच्छायाकलापमिव वृक्षच्छायासमूहमिव; पुनः अश्वकान्तिहरितम् अश्वकान्तिभिः - अश्वक्षुतिभिः, अश्वकान्तिवद् वा हरितं - हरितवर्णम् ; पुनः प्रतिबिम्बितं प्रतिबिम्बात्मनाऽऽपतितं, हरिदश्वरथपताका निकुरम्बमिव हरिदश्वस्य - सूर्यस्य, या रथपताका "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202