Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 142
________________ टिप्पनक-परागविवृतिसंवलिता। शक्तिभिश्च, रससमूहमारणमहितमाहात्म्याभिश्च, स्तम्भस्तोभोद्वासनविद्वेषणादिप्रयोगयोग्याभिश्च, शतधारस्यापि धारास्तम्भनप्रगल्भाभिः कालकूटस्यापि रसपाटवापनोदिनीभिस्तक्षकस्यापि विषतीक्ष्णतातिरस्कारिणीभिभुवनत्रयस्यापि सुभगकरणीभिरञ्जनमात्रदर्शितादृश्यदूरान्तरितभावाभिरभिलेपमात्रप्रवर्तितानिलवम॑गमनाभिस्तिलक क्रियामात्रकृतसकलतनुतिरोभावाभिरभ्यवहारमात्रजितजरारोगमृत्युभयाभिर्महाप्रभावाभिरोषधीभिरवन्ध्याम् [ध], कचिदुपलरूपतापरिणतैकदेशेन तृणपलाशादिनार्धमग्नेन गम्यमानशीलैः शिलोदकैरशून्यां क्वचित् पान्थतण्डुलप्रस्थम्पचैः प्रतिगर्तमावर्तिना क्वथनेन कथ्यमानप्रकृतिभिर्दहनोदकैरुपेतां, कचिदुपान्तमूर्छितपतत्रिसूचितसामथ्र्यैः सत्त्वरक्षार्थमाटविकरचितकाण्टिकपरिवेषैर्विषोदकैर्विदूषितां, स्थानस्थानेषु मणिमयोर्ध्वसंस्थानाभिर्महाप्रमाणत्वादुद्दीवपुरुषप्रयत्नदृश्यमुखमण्डलाकृतिभिरन्तरिक्षचारिणा खेचरगणेन मूर्छापादने, दृष्टा-परीक्षिता, शक्तिः सामर्थ्य यासां तादृशीभिः; च पुनः, रससमूहमारणमहितमाहात्म्याभिः रससमूहमारणेन पारदादिरसराशिभस्मीकरणेन, महितं पूजितं, प्रशंसितमित्यर्थः, माहात्म्यं सामर्थ्य यासां तादृशीभिः, च पुनः, स्तम्भस्तोभोद्वासनविद्वेषणादिप्रयोग्याभिः स्तम्भः-जडीभावः, स्तोभः-प्रवृत्तकार्यप्रतिबन्धः, उद्वासनम्-उच्चाटनम् , विद्वेषणम्अप्रीतिः, तदादिप्रयोगेषु-तत्प्रभृतिसम्पादनेषु, प्रयोग्याभिः-समर्थाभिः; पुनः शतधारस्यापि वज्रस्यापि, धारास्तम्भनप्रगल्भाभिः निशिताग्रभागरूपधाराव्यापारनिरोधनकुशलाभिः; पुनः कालकूटस्यापि विषराशेरपि, रसपाटवापनोदिनीभिः रसतीव्रतोपशमनकारिणीभिः; पुनः तक्षकस्यापि तदाख्यसर्पराजस्यापि, विषतीक्ष्णतातिरस्कारिणीभिः विषतीव्रतोपहासिनीभिः; पुनः भुवनत्रयस्य वर्ग-मर्त्य-पाताल-लोकानामपि, सुभगकरणीभिः सौभाग्यापादनसाधनभूताभिः; पुनः अञ्जनमात्रदर्शितादृश्यदरान्तरितभावाभिः अञ्जनमात्रेण नयनोपलेपनमात्रेण, दर्शिताः-दृष्टिगोचरीकारिताः, अदृश्या:-अतीन्द्रियाः, दूराः-दूरदेशस्थाः, अन्तरिताः-व्यवहिताश्च, भावाः-पदार्था याभिस्तादृशीभिः; पुनः अनिलेपमात्रप्रवर्तितानिलवम॑गमनाभिः अङ्गयोः पादयोः, लेपमात्रेण-लेपनेनैव, प्रवर्तितं-प्रारब्धम् , अनिलवर्मनि-वायुमार्गे, गगनमार्ग इत्यर्थः, गमनं याभिस्तादृशीभिः; पुनः तिलकक्रियामात्रकृतसकलतनुतिरोभावाभिः तिलकक्रियामात्रेण-तिलकरचनामात्रेण, कृतः, सकलानां-सर्वेषां, तनुतिरोभावः-शरीरान्तर्धानं याभिस्तादृशीभिः; पुनः अभ्यवहारमात्रजितजरारोगमृत्युभयाभिः अभ्यवहारमात्रेण-भक्षणमात्रेण, जितम्-अभिभूतं, जरायाः-वार्धक्यात् , रोगात् , मृत्योः-मरणाच भयं याभिस्तादृशीभिः; पुनः महाप्रभावाभिः समधिकशक्तिशालिनीभिः [ध]। पुनः कीदृशीम् ? क्वचित् कस्मिंश्चित् प्रदेशे, उपलरूपतापरिणतैकदेशेन उपलरूपतया-प्रस्तररूपतया, परिणतः-मिलितः, एकदेशः-एकभागो यस्य तादृशेन, पुनः अर्धमग्नेन जलान्तःस्थितार्धभागकेन, तृणपलाशादिना तृणपत्रादिना, गम्यमानशीलैः गम्यमान-प्राप्यमाणं, शीलं-शैत्यादिस्वभावो येषां तादृशैः, शिलोदकैः प्रस्तरोपरिस्पन्दिजलैः, अशून्यां पूर्णाम् , पुनः क्वचित् कस्मिंश्चित् स्थले, पान्थतण्डुलप्रस्थम्पचैः पान्थानांमार्गगामिजनानां, तण्डुलप्रस्थम्पचैः-प्रस्थपरिमिततण्डुलपाचकैः, प्रतिगर्त प्रतिजलाशयम् , आवर्तिना भ्रमिवता, क्वथनेन प्रज्वलत्प्रवाहेण, कथ्यमानप्रकृतिभिः कथ्यमाना-अभिव्यज्यमाना, प्रकृतिः-उष्णभावो येषां तादृशैः, दहनोदकैः अग्निगभिंतजलैः, उपेतां सहिताम्। पुनः क्वचित् कस्मिंश्चित् स्थले, उपान्तमूर्छितपतन्त्रिसूचितसामथ्र्यैः उपान्ते-निकटप्रदेशे, मूर्छितैः-नष्टसंज्ञैः, पतत्रिभिः- पक्षिभिः, सूचितं-प्रत्यायितं, सामर्थ्य-हिंसनशक्तिर्येषां तादृशैः, पुनः सत्त्वरक्षार्थ जीवरक्षार्थम् , आटविकरचितकाण्टिकपरिवेषैः आटविकैः-वन्यजनैः, रचितः-निर्मितः, काण्टिकः-कण्टकमयः, परिवेषः-परिवेष्टनं येषां तादृशैः, विषोदकैः विषपूर्णजलैः, विदूषिताम् उपहताम् । पुनः स्थानस्थानेषु तत्तत्स्थानेषु, प्रसिद्धसिद्धप्रतिमाभिः प्रसिद्धानां-विश्रुतानां, सिद्धानां-देव विशेषाणां, प्रतिमाभिः-प्रतिकृतिभिः, प्रसाधिताम् अलङ्कताम् , कीदृशीभिः ? मणि नाभिः मणिमयानि-रत्नमयानि, ऊर्ध्वानि,-उच्चानि, संस्थानानि-आकृतयो यासां तादृशीभिः; पुनः महाप्रमाणत्वाद् अतिदीर्घप्रमाणत्वाद्धेतोः, उहीवपुरुषप्रयत्नदृश्यमुखमण्डलाकृतिभिः उदीवैः-उन्नतकण्ठैः, पुरुषैः, प्रयत्नेन, दृश्या-द्रष्टुं शक्या, मुखमण्डलाकृतिः-मण्डलाकारमुखं यासां तादृशीभिः; पुनः अन्तरिक्षचारिणा आकाशगामिना, "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202