Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 147
________________ तिलकमञ्जरी १३५ अध्यासितप्रासादशिखरश्च मुख्यैः खेचराधिपतिभिः सह स्थित्वा विचित्रकथाविनोदेन सुचिरमुचिते शयनसमये समीपस्थपरिजनोपदिष्टमार्गः शयनचित्रशालामगच्छत् । अधिशयितपर्यश्च वारंवारमवलोक्य निकटनिहितापररत्नपर्यङ्कनिविष्टमनेकदुर्गदेशान्तरागमनदुर्बलं म्लानवपुषं समरकेतुमधिकमन्तःसंतापमवहत् । अपृच्छच्च खिन्नवर्णोच्चारया वाचा यथावृत्तमादितः प्रभृति मार्गागमनवृत्तान्तम् । अयमप्यस्मै सर्वमात्मवृत्तान्तं न्यवेदयत् । अनन्तरमीषदुपजातनिद्रश्च नीत्वा रजनीशेषमारोहति मृदूकृतान्धकारगर्वे पूर्वशिखरिणमरुणसारथौ सौधवातायनसविधचारिणा चारणेन बहिरुच्चार्यमाणं वृत्तकुलकमेतदोषीत् [२] "निर्दात्यूहपतद्गिरो रतिगृहाः साक्रन्दचक्रा नदा, विद्राति द्युतिरौडवी निबिडतां धत्ते प्रदीपच्छविः । द्यौर्मन्दस्फुरितारुणा तिमिरिणी सर्वसहा सर्वथा, सीमा चित्तमुषामुषःक्षणदयोः संधिक्षणो वर्तते ॥१॥ जाता दाडिमबीजपाकसुहृदः सन्ध्योदये तारका, यान्ति प्लुष्टजरत्पलालतुलनां तान्तास्तमस्तन्तवः । ज्योत्स्नापायविपाण्डु मण्डलमपि प्रत्यङ्नभोभित्तिभाक्पूर्णेन्दोर्जरपूर्णनाभनिलयप्रागल्भ्यमभ्यस्यति ॥२॥ अध्यासितप्रासादशिखरः अध्यासितम्-अधिष्ठितं, प्रासादशिखरं-राजमन्दिरोर्श्वभागो येन तादृशः, मुख्यैः प्रधानैः, खेचराधिपतिभिः विद्याधरेन्द्रैः, सह, विचित्रकथाविनोदेन अद्भुतोपाख्यानानन्देन, सुचिरम् अतिदीर्घकालं, स्थित्वा, उचिते योग्ये, शयनसमये शयनकाले, समीपस्थपरिजनोपदिष्टमार्गः समीपस्थेन-पन्निहितेन, परिजनेन-परिवारलोकेन, उपदिष्टः-उपदर्शितः मार्गो यस्य तादृशः, शयनचित्रशालां शयनसम्बन्धिचित्रपूर्णगृहम् , अगच्छत् , च पुनः, अधिशयितपर्यङ्कः अधिशयितः-शयनेन व्याप्तः, पर्यङ्कः-खट्वाविशेषो येन तादृशः सन् , निकटनिहितापररत्नपर्यङ्कनिविष्टं निकटनिहिते-समीपस्थापिते, अपरस्मिन्-अन्यस्मिन् , रत्नपर्यके-रत्नमयपर्यङ्के, निविष्टम्-उपविष्टम् , पुनः अनेकदुर्गदेशान्तरागमनदुर्बलम् अनेकेभ्यः-बहुभ्यः, दुर्गेभ्यः-दुःखेन गम्येभ्यः, देशान्तरेभ्यः-अन्यदेशेभ्यः, आगमनेन, दुर्बलं-क्षीणबलम् , पुनः म्लानवपुष मलिनशरीरं, समरकेतुं तदाख्यसुहृदम् , वारंवारम् अनेकवारम् , अवलोक्य दृष्ट्वा, अधिकं प्रचुरम् , अन्तःसन्तापम् अन्तर्वेदनाम्, अवहत प्राप्तवान् , च पुनः, खिन्नवर्णोच्चारया खिन्नः-शैथिल्यमापन्नः, वर्णोच्चारःअक्षरोच्चारणं यस्यां तादृश्या, वाचा गिरा, आदितः प्रभृति आदित आरभ्य, यथावृत्तं यथानिष्पन्नं, मार्गागमनवृत्तान्तं मार्गागमनघटनाम्, अपृच्छम् पृष्टवान् । अयमपि समरकेतुरपि, अस्मै हिरिवाहनाय, सर्व समग्रम् , आत्मवृत्तान्तं खवार्ता, न्यवेदयत् विज्ञापितवान् । अनन्तरं तदव्यवहितोत्तरम् , ईषदुपजातनिद्रः ईषदुपजाता-किञ्चिदुत्पन्ना, निद्रा यस्य तादृशः, रजनीशेषं रात्रिशेषं, नीत्वा व्यतीत्य, मृदकृतान्धकारगर्वे मृदूकृतः-मान्द्यमापादितः, अन्धकारगर्व अन्धकाराभिमानो येन तादृशे, अरुणसारथौ अरुणः-तन्नामा, सारथिर्यस्य तादृशे सूर्ये, पूर्वशिखरिणं पूर्वपर्वतम् , उदयाचलमिति यावत् , आरोहति आगच्छति सति, सौधवातायनसविधचारिणा प्रासादगवाक्षनिकटचारिणा, चारणेन बन्दिविशेषेण, बहिः बाह्यदेशे, उच्चार्यमाणं पठ्यमानं, वृत्तकुलकम् एकार्यान्वितचतुरधिकश्लोकान् , अश्रौषीत् श्रुतवान् [र]। रतिगृहाः कामकेलिगृहाः, नित्यूहपतद्गिरः निर्गताः-निवृत्ताः, दात्यूहस्य-कालकण्ठस्य, पततः-पक्षिणः, गिरःकूजनानि येभ्यस्तादृशाः पुनः नदा: अकृत्रिमा जलप्रवाहास्तु, साक्रन्दचक्राः साक्रन्दाः-आक्रन्दनेन-दम्पतिविश्लेषजन्यरोदनातिशयेन, सहिताः, चक्रा:-चक्रवाकाख्यपक्षिविशेषा येषु तादृशाः, रतिगृहविपरीता इत्यर्थः, उभयत्र सन्तीति शेषः, पुनः औडवी उडूनां-ताराणां सम्बन्धिनी, द्युतिः छविः, विद्राति क्षीयते; पुनः प्रदीपच्छविः प्रदीपदीप्तिस्तु तद्विपरीतभावेन, निबिडतां सान्द्रताम् , धत्ते धारयति, पुनः द्यौः आकाशम् , सूर्यसारथिर्यस्या, मन्दस्फुरितारुणा मन्दं-किञ्चित् , स्फुरितः-उदितः, अरुणः तादृशी; पुनः सर्वेसहा पृथ्वी तु, सर्वथा सर्वप्रकरण, तिमिरिणी अन्धकारिणी; उषःक्षणदयोः प्रभात-रात्र्योः, सन्धिक्षणः मीलनसमयः, चित्तमुषां मनोहारिणां, सीमा उत्कर्षावधिः, वर्तते । अत्र युगपद्विरूपघटनासत्त्वाद् विषमालङ्कारः ॥१॥ "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202