Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी
१३९ नानि, कैश्चिदन्धकारगह्वरप्रवेशितसरलनिर्झरसलिलधारैरसुरकन्याधिरोहणार्थमवलम्बितरजुजालैरिव सततसप्तर्षियात्रापवित्रितानि दिव्याश्रमपदानि, कैश्चिदुत्तुङ्गतालतरुवनैत्रिविष्टपमुपस्प्रष्टुमूर्वीकृतभुजैरिव निरातङ्कनाकिमिथुनाभ्यस्यमानमन्मथक्रीडाभणितानि मणिशिलालयनानि शिखरैर्धारयन्तं [ह], निविष्टानन्तवनदेवतानगरमिव लतागृहातैः, आविष्कृतानेकपातालमिव सान्धकारकन्दरैः, प्रसूतनिःसंख्यापत्यमिव दिङ्नागयूथैः, उत्थापितप्रबलबहुलप्रदोषमिव तमालतरुमण्डलैः, आवासितापारवासरमिव स्वर्णसानुप्रभाप्राम्भारैः, प्रकटितानेकरामायणमिव किलिकिलायमानवानरानीकनिकायैः, दर्शितापूर्वप्रजासर्गमिव किंपुरुषवगैः [क्ष], कचिद् बद्धमण्डलगरुडगोत्रपक्षिव्यावर्ण्यमानद्वीपान्तरप्रचारवार्त, क्वचिद् विपक्षवारणविरोधपरिणतगजोन्मूलितगलगण्डशैलं, कचिन्मृगारातिकरकुलिशदारितजलदगर्भोद्गीर्णमुक्ताफलाकीर्णं, कचिन्नृत्तप्रवृत्त
टिप्पनकम्-बहुल:-कृष्णपक्षः । किंपुरुषः-किन्नरः [क्ष] । मृगारातिः-सिंहः । नीलकण्ठः-मयूरः [ज्ञ] ।
विद्याधरगणैः, परिहृतम्-अत्युन्नतत्वात् परिवर्जितं, लङ्घनं येषां तादृशानि, सिद्धायतनानि सिद्धजनमन्दिराणि, धारयन्तम् , पुनः अन्धकारगह्वरप्रवेशितसरलनिर्झरसलिलधारैः अन्धकारगह्वरे-अन्धकारपूर्णदेवखातबिले, प्रवेशिता,सरला-अवक्राकारा, निर्झरसलिलधारा-प्रवाहजलधारा यैस्तादृशैः, अत एव असुरकन्याधिरोहणार्थम् असुरकन्यायाः-दैत्यसुताया, अधिरोहणार्थम-आरोहणार्थम. अवलम्बितरजजालैरिव अवलम्बितम-आनमितं. रजजालं-रजपजो यैस्तादृशैरिवेत्यत्प्रेक्षा. कैश्चित कतिपयैः शिखरैः, सततसप्तर्षियात्रापा वित्रितानि निरन्तरमरीच्यादिसप्तर्षिप्रयाणपूतानि, दिव्याश्रमपदानि उत्तमाश्रमस्थानानि, धारयन्तम् , पुनः उत्तुङ्गतालतरुवनैः उत्तुङ्गम्-उन्नतं, तालतरूणां-तालवृक्षाणां, वनं येषु तादृशैः, अत एव त्रिविष्टपं वर्गम् , उपस्प्रष्टुम् उपस्पर्शनार्थम् , ऊर्वीकृतभुजैरिव ऊवीकृताः-उन्नमिताः, भुजाः-बाहवो यैस्तादृशैरिव, कैश्चित् कैरपि, शिखरैः, निरातङ्कनाकिमिथुनाभ्यस्यमानमन्मथक्रीडाभणितानि निरातकैः-निःशङ्कः, नाकिमिथुनैःदेवद्वन्द्वैः, अभ्यस्यमानं-पौनःपुन्येन क्रियमाणं, मन्मथक्रीडाभणितं-कामकेलिकूजितं येषु तादृशानि, मणिशिलालयानि मणिरूपशिलामयमन्दिराणि, धारयन्तम् [ ह] पुनः कीदृशम् ? लतागृहवातैः लतागृहसमूहः, निविष्ठानन्तवनदेवतानगरमिव निविष्टम्-अन्तर्भूतम् , अनन्तम्-अपारम् , वनदेवतानां-वनस्थदेवानां, नगरं यस्मिंस्तादृशमिव; पुनः सान्धकारकन्दरैः अन्धकारपूर्णगुहाभिः, आविष्कृतानेकपातालमिव आविष्कृतानि-प्रकटितानि, अनेकानि-बहूनि, पातालानि येन तादृशमिव; पुनः दिङ्नागयूथैः दिग्गजगणैर्हेतुभिः, प्रसूतनिस्संख्यापत्यमिव प्रसूतानि-उत्पादितानि, निस्संख्यानि-संख्यारहितानि, अपत्यानि-पुत्रा येन तादृशमिव, तद्वत् प्रतीयमानमित्यर्थः; पुनः तमालतरुमण्डलैः तमालजातीयवृक्षगणैः, उत्थापितप्रवलबहुलप्रदोषमिव उत्थापितं-जनितः,प्रबल:-सान्द्रः, बहुलस्य-कृष्णपक्षस्य, प्रदोषः-रजनीमुखं येन तादृशमिव; पुनः स्वर्णसानुप्रभाप्रागूभारैः स्वर्णसानोः-सुवर्णमयपर्वतकायसमभूमिकायाः, प्रभाप्रारभारैः-द्युतिसन्दोहैः, आवासितापारवासरमिव आवासिताः-निवासिताः, अपारा:-अनवधिकाः, वासरा:-दिवसा येन तादृशमिव; पुनः किलकिलायमानवानरानीकनिकायैः किलकिलायमानानां किलकिलात्मकशब्दं कुर्वतां, वानराणां मर्कटानां, यत् , अनीकं-सैन्यं यद्वा संग्रामः, तस्य निकायैः-निवासस्थानः, यद्वा समूहैः, प्रकटितानेकरामायणमिव प्रकटितानि-आविष्कृतानि, अनेकानि-बहूनि, रामायणानि-रामचरितानि येन तादृशमिव; पुनः किंपुरुषवगैः किन्नरगणैः,दर्शितापूर्वप्रजासगमिव दर्शितः-प्रकटितः, अपूर्वप्रजासर्गः-विलक्षणसन्ततिसृष्टिर्येन तादृशमिवेति सर्वत्रोत्प्रेक्षा; [क्ष] । पुनः क्वचित् कस्मिंश्चित् स्थाने, बद्धमण्डलगरुडगोत्रपक्षिव्यावर्ण्यमानद्वीपान्तरप्रचारवात बद्धमण्डलैः-बद्धपतिकैः, गरुडगोत्रपक्षिभिः-गरुडवंशजपक्षिभिः, व्यावर्ण्यमाना-उपाख्यायमाना उपद्वीपान्तरप्रचारवार्ता-अन्यान्यद्वीपसञ्चार वृत्तान्तो यस्मितादृशम् । पुनः क्वचित् कस्मिंश्चिद्
वारणविरोधपरिणतगजोन्मूलितगलगण्डशैलं विपक्षवारणविरोधेन -शत्रुभूतगजविरोधेन, परिणतैःदन्तप्रहारप्रसक्तः, गजैः, उन्मूलितः-उत्पाटितः, अत एव गलन्-पतन् , गण्डशैलः-च्युतस्थूलपाषाणो यस्य तादृशम् , पुनः क्वचित् कस्मिंश्चित् स्थले, मृगारातिकरकुलिशदारितजलदगर्भोद्गीर्णमुक्ताफलाकीर्ण मृगारातीना--मृगरिपूणां,
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202