Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 160
________________ १४८ टिप्पनक-परागविवृतिसंवलिता। स्यैता न पुरुषाणामिति विकल्प्य तास्वेकामतिशयरम्यदर्शनामागमोक्तप्रमाणप्रतिपन्नसकलसुकुमारावयवामब्जचक्रचामरच्छत्रानुकाराभिरनल्पबहुभिरविच्छिन्ननिम्नाभिः प्रशस्तलेखाभिर्लाञ्छितामनुसरन् पदानां पतिमधिकतराभिरामदर्शनमुत्पत्तिसदनमिव सौन्दर्यलक्ष्म्याः श्लक्ष्णसितसुकुमारसिकताकीर्णभूतलमन्योऽन्यलग्नाभिरविरलोद्भिन्नबालदशबलनीलच्छदकलापाच्छादिताभिर्दिवापि संबद्धसान्द्रसंध्यारागशेषं प्रदोषध्वान्तमिव तन्वतीभिरुत्तानकुसुमस्तबकतारकिततनुभिस्तरुणवनलताभिर्निरन्तरपिनद्धनिबिडनिःशेष भित्तिभागं रङ्गमिव जगत्रयारामव्रततिगणिकानां पानगोष्ठीगृहमिवाखिलमधुव्रतव्रातानामाकरमिव समस्तोदारपुष्पमकरन्दस्य स्वेच्छाविहारमन्दिरमिव मकरकेतोरेकमेलालतागृहमद्राक्षम् [ण]। आगत्य चास्य द्वारदेशे कृताव स्थितिरूवस्थित एवाभ्यन्तरे झगिति पुञ्जीभूतमुद्द्योतमिव दावहुतभुजो जाततद्दाहकशक्तिभङ्ग पिशङ्गीभूतसर्वाङ्गैः स्फुरद्भिरन्तःस्फुलिङ्गैरिव लताभृङ्गनिकुरम्बैः करम्बिताभोगमशनि रम्यदर्शनाम् अत्यन्तमनोहरदर्शनां, पुनः आगमोक्तप्रमाणप्रतिपन्नसकलसुकुमारावयवाम् आगमोक्तशास्त्रोक्तेन, प्रमाणेन, प्रतिपन्नाः-प्रमिताः, सुकुमाराः-कोमलाः, सकलाः-समस्ताः, अवयवा यस्यास्तादृशी, पुनः अब्जचक्रचामरच्छत्रानुकाराभिः कमल-चक्र-चामर-छत्रसदृशीभिः, क्वचिद् अब्जस्थाने 'अङ्कुश' इति पाठः, अनल्पबहुभिः अतिमात्रबहुभिः, अविच्छिन्ननिम्नाभिः निरन्तरगम्भीराभिः, प्रशस्तलेखाभिः शुभसूचकरेखाभिः, लाञ्छिताम् उपलक्षिताम् , एकां, पदानां पङ्क्षिपथश्रेणीम् , अनुसरन् अनुगच्छन् , एकम अद्वितीयम्, एलालतागृहम एलालतायाः 'एलाया लोकप्रसिद्धलतासम्बन्धिगृहम् , 'अद्राक्षं दृष्टवानहम्' इत्यग्रेणान्वेति, कीदृशम् ? सौन्दर्यलक्ष्म्याः सौन्दर्यसम्पदः, अभिरामदर्शनं मनोहरदर्शनम् , उत्पत्तिसदनमिव उत्पत्तिगृहमिव, पुनः श्लक्ष्णसितसुकुमारसिकताकीर्णभूतलं लक्ष्णाभिःचिक्कणाभिः, सिताभिः-शुभ्राभिः, सुकुमाराभिः-कोमलाभिः, सिकताभिः-वालुकाभिः, आकीर्ण-व्याप्तं भूतलं यस्य तादृशं, पुनः तरुणवनलताभिः प्रौढवनसम्बन्धिलताभिः, निरन्तरपिनद्धनिबिडनिःशेषभित्तिभाग निरन्तरम् अविरतम् , पिनद्धाः-संबद्धाः, निःशेषाः-समस्ताः, भित्तिभागाः- प्रान्तभागा यस्य तादृशम् , कीदृशीभिः ? अन्योऽन्यलग्नाभिः परस्परश्लिष्टाभिः, पुनः अविरलोद्भिन्नबालदशबलनीलच्छदकलापाच्छादिताभिः अविरलोद्भिन्नैः-निरन्तरप्ररूडैः, बालदशबलनीलैः-बाल:-बाल्यावस्थो यो दशबल:-"दानं शीलं क्षमाऽचौर्य ध्यानप्रज्ञाबलानि च । उपायः प्रणिधिनिं दश बुद्धबलानि वै ॥” इत्यन्यत्रोक्तानि दानादीनि दश बलानि यस्यासौ दशबल:-बुद्धः, तद्वन्नीलवणः, छदकलापैः-पत्रगणैः, आच्छादिताभिः-तिरोहिताभिः, पुनः दिवापि दिनेऽपि, सम्बद्धसान्द्रसन्ध्यारागशेष सम्बद्धः-संश्लिष्टः, सान्द्रस्य-निबिडस्य, सन्ध्यारागस्य-सन्ध्याकालिकरक्तकान्तेः, शेषो येन तादृशं, प्रदोषध्वान्तं रात्र्यारम्भकालिकमन्धकार, तन्वतीभिरिव विस्तारयन्तीभिरिवेत्युत्प्रेक्षा, पुनः उत्तानकुसुमस्तबकतारकिततनुभिः उत्तानानां-विकसितानां, कुसुमानां-पुष्पाणां, स्तबकैःगुच्छैः, तारकिता-सञ्जाततारका, तनुः-मूर्तिर्यासां तादृशीभिः, पुनः, कीदृशम् ? जगत्रयारामव्रततिगणिकानां भुवनत्रयोद्यानसम्बन्धिलतारूपवेश्यानां, रङ्गमिव नृत्यभवनमिव, पुनः अखिलमधुव्रतवातानाम् अशेषभ्रमरगणानां, पानगोष्टीगृहमिव पुष्परसपानार्थसमितिभवन मिव, पुनः समस्तोदारपुष्पमकरन्दस्य निखिलदिव्यपुष्परसरत्नस्य, आकरमिव उत्पत्तिस्थानमिव, पुनः मकरकेतोः कामदेवस्य, स्वेच्छाविहारमन्दिरमिव यथेच्छभ्रमणस्थानमिव [ण]। __ च पुनः, आगत्य निकटमुपस्थाय, अस्य लतागृहस्य, द्वारदेशे प्रवेशनिर्गमस्थाने, कृतावस्थितिः कृतगतिनिवृत्तिः, ऊर्ध्वस्थित एव उत्थित एव, न तूपविष्टः, झगिति शीघ्रम् , अभ्यन्तरे तन्मध्ये, 'आलोकं प्रकाशम् , ईक्षितवान् दृष्टवान्' इत्यप्रेणान्वेति, कीदृशम् ? दावहुतभुजः वनाग्नेः, पुचीभूतं राशीभूतं, जाततद्दाहकशक्तिभङ्गं ध्वस्ततदीयदाहकशक्तिकम् , उद्दयोतमिव प्रकाशमिव पुनः पिशङ्गीभूतसर्वातः पिशङ्गीभूतं-कपिलीभूत, सर्व-समस्तम् , अङ्गं येषां तादृशैः, पुनः अन्तः मध्ये, स्फुरद्भिः सञ्चरद्भिः, लताभृङ्गनिकुरम्वैः लतासक्तभ्रमरगणैः, स्फुलिङ्गैरिव अग्निकणैरिवेत्युत्प्रेक्षा, करम्बिताभोगं करम्बितः-संकीर्णः, आभोगः-मण्डलं यस्य तादृशम् , पुनः अशनिपाताहतिविलीनसुरशैलशिखर "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202