Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 158
________________ टिप्पनक-परागविवृतिसंवलिता। विभवानाम् । अद्यैव तादृशि तृणीकृतत्रिदशपतिविमानसौन्दर्यसंपदि निजे सद्मनि सुहृत्समेतो वीणावादनादिविनोदजनितमानन्दमनुभवन्नवस्थितोऽहमद्यैव दुर्गगिरिकान्तारमध्यवर्ती परिवृतो वनश्वापदशतैरन्यवैदेशिकपथिकसामान्यमवस्थाविशेषम् [ट] । एवमस्वस्थमानसो मानयामि न तद् राज्यम् , न ते राजानः, न स मदान्धगजघटासहस्रसंकुलः स्कन्धावारः, न ते छत्रचामरादयो नरेन्द्रालंकाराः, न तानि श्रवणहारीणि चारणस्तुतिवचनानि, सर्वमेव स्वप्नविज्ञानोपमं संपन्नम् । आस्तां च तावदन्यदप्रत्यासन्नम् , आरोग्य येन स्कन्धमात्मीयमहमेतां भूमिमानीतः, यश्च साधं मयैवास्मिन्नगाधसलिले सरसि मग्नः, सोऽपि नास्ति प्राणभूतो मे पट्टवारणः । न ज्ञायते वराकस्य किं तस्य वृत्तम् , किमतिवेगपतनाद् गुरुत्वाञ्च कायस्य गत्वा दूरमस्य सरसो मूलपङ्के विलग्नो गाढम् , उतान्तराल एव गच्छन् हेलया समकालमेव प्रधावितैः शकलीकृत्य कवलितो महाकायैर्जलचरैः, उतापरमवस्थान्तरं किमपि संप्राप्तः [8] । किं चैकमिह शोच्यते, सर्व एवायमेवंप्रकारः संसारः । इदं तु चित्रं यदीदृशमप्येनमवगच्छतामीदृशीमपि भावानामनियतां विभावयतामीदृशानपि दशाविशेषाननुभवतां न जातुचिजन्तूनां विरज्यते चित्तम्, न विशीर्यते विषयाभिलाषः, न भङ्गुरीभवति आश्चर्यम् । अद्यैव अस्मिन्नेव दिने, तृणीकृतत्रिदशपतिविमानसौन्दर्यसम्पदि तृणीकृता-तुच्छतामापादिता, त्रिदशपतिविमानस्य-इन्द्रव्योमयानस्य, सौन्दर्यसम्पत्-मनोहरत्यसम्पत्तिर्येन तादृशे, निजे स्वकीये, तादृशि तत्प्रकारके, सद्मनि गृहे, सुहृत्समेतः सुहृदा-समरकेतुसंज्ञकमित्रेण, समेतः-सहितः, वीणावादनादिविनोदजनितं वीणाक्वाणनादिक्रीडाजनितम् , आनन्दम् , अनुभवन् आखादयन् , अहम् , अद्यैव अस्मिन्नेव दिने, दुर्गगिरिकान्तारमध्यवर्ती दुर्गस्य-दुःखेन गन्तुं, शक्यस्य, गिरेः-पर्वतसम्बन्धिनः, कान्तारस्य-वनस्य, मध्यवर्ती-मध्यस्थः सन् , वनश्वापदशतैः वनसम्बन्धिहिंस्रपशुशतैः, परिवृतः परिवेष्टितः, अन्यवैदेशिकपथिकसामान्यम् इतरविदेशवासिपथिकसामान्यम् , अवस्थाविशेषं दुरवस्थाम् , अवस्थितः प्राप्तः [2] । एवम् अनेन प्रकारेण, अस्वस्थमानसः व्याकुलहृदयः, मानयामि मन्ये, तत् अनुभूतपूर्वराज्यं न, अस्तीति, शेषः, ते परोक्षभूताः, यद्वा परिचिताः, राजानः, न सन्तीति योगः, मदान्धगजघटासहस्रसंकुलः मन्दान्धानां-मदमूढानां, गजघटानां-गजयूथानां, सहस्रण, संकुल:- पूर्णः, सः अनुभूतपूर्वः, स्कन्धावारः शिबिरं राजधानी, वा न, अस्तीति शेषः । छत्रचामरादयः, ते अनुभूतपूर्वाः, नरेन्द्रालङ्काराः नृपभूषणानि, न सन्तीति शेषः, पुनः श्रवणहारीणि श्रोत्रप्रियाणि, तानि श्रुतपूर्वाणि, चारणस्तुतिवचनानि बन्दिजनस्तुतिवाक्यानि, न, सन्तीति शेषः । सर्वमेव अनुपदोक्तं समस्तमेव वस्तु, स्वप्नविज्ञानोपमं वनकालिकविज्ञानतुल्यं, मिथ्येति यावत् , सम्पन्नं सजातम् , अप्रत्यासन्नम् असन्निकृष्टम् , अन्यत् अनुपदवक्ष्यमाणाद् व्यतिरिक्तं वस्तु, तावत् , आस्तां तिष्ठतु । येन आत्मीयं स्वकीयं, स्कन्धं पृष्ठोपरि, आरोप्य अधिष्ठाप्य, एताम् इमाम् , भूमिम् , अहम् , आनीतः प्रापितः; च पुनः, यो मयैव, साधं सह; अगाधसलिले अतलस्पर्शजले, अस्मिन् अदृष्टपाराख्ये, सरसि कासारे, मग्नः अन्तर्लीनः, यो मम प्राणभूतः प्राणरूपः, सोऽपि पट्टवारणः प्रधानहस्ती नास्ति, न ज्ञायते निर्णीयते, वराकस्य दयनीयस्य, तस्य पट्टवारणस्य, किं कीदृशं, वृत्तं समाचारः, जातं वा, तथाहि अतिवेगपतनाद वेगातिशयेन पतनाद्धेतोः, च पुनः, कायस्य शरीरस्य, गुरुत्वाद्धेतोः, दूरं गत्वा, अस्य प्रकृतस्य, सरसः कासारस्य, मूलपङ्के अधस्तनकर्दमे, गाढम् अत्यन्तं, विलग्नः निषक्तः, किम् ? उत वितळते, हेलया क्रीडया, गच्छन् समकालमेव एककालमेव, प्रधावितैः प्रकर्षेण कृतधावनैः, महाकायैः विशालशरीरैः, जलचरैः मकरादिभिः, शकलीकृत्य खण्डशः कृत्वा, मध्य एव, कवलितः भक्षितः, उत वितळते, अपरम् उक्तावस्थाद्वयभित्र, किमपि अनिश्चितविशेषम् , अवस्थान्तरम् अवस्थाभेदं, सम्प्राप्तः सम्यगनुभूतवान् , सर्वत्र स पट्टवारण इत्यनुवर्तते [3] | च पुनः, इह संसारे, एकं प्रकृतहस्तिमात्रं, किं शोच्यते शोकलक्ष्यीक्रियते, सर्व एव समस्त एव, अयं संसारः, एवंप्रकारः एतादृशः, शोच्य इत्यर्थः । इदं तु चित्रम् आश्चर्यम् , यत् यस्माद् , एनं संसारम् , ईदृशं शोच्यम् - अवगच्छतामपि जानतामपि, पुनः भावानां वस्तूनाम् , ईदृशीम् एवंप्रकाराम् , अनित्यतां विनश्वरता, विभाव, यतामपि विचारयतामपि, पुनः ईदृशान् अनुपदोक्तप्रकारान् , दशाविशेषान् अवस्थाविशेषान् , अनुभवतामपि "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202