Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 161
________________ तिलकमञ्जरी .... १४९ पाताहतिविलीनसुरशैलशिखरप्रवृत्तकाञ्चनरसप्रवाहबहलमालोकमीक्षितवान् [त] । उत्पन्नवन्यौषधिप्रकाशाशङ्कश्च क्षणमिव ध्यात्वा दिक्षु निक्षिप्तदृष्टिर्वारंवारं बालरक्ताशोकमूले कृतोर्वावस्थानाम् , अमलकान्तिजलतरङ्गिषु सर्वाङ्गभागेषु समकालसंक्रान्तैरासन्नवल्लीपुष्पफलपल्लवैलतेति संलक्ष्यमाणाम् , अल्पदिवसाधिरूढनवयौवनाम् [थ], अतिनिगूढदृढपर्वाभिरधिकतनुतारताम्रनखपरम्परापरिगतामाभिः कुसुमसायकशरशलाकाभिरिव विरहिजनहृदयशोणिताईशल्याभिः सरलसुकुमाराभिरङ्गुलीभिरुपेतेन साधुलोकेनेव स्निग्धत्वचाऽरुणालोकसुभगेन चरणाब्जयुगेनाचिरकालपीतं लाक्षारागरसमिव सफेनोद्गमं धाराभिरुद्रिन्तीम् [द], उद्भिन्नसुन्दरशोणबिन्दोर्वरकरिकलभशुण्डालदण्डस्य खण्डयितुमिव गुणाधिक्यदर्पमुत्सर्पिणा नूपुरपद्मरागकरकलापेन स्पृश्यमानपीनपरिमण्डलोरुयुगलाम् , एकतः कान्तिजलभृता नाभिमण्डलीकनकभाण्डेनान्यतोऽपि वृत्तानुपूर्वेण परिणाहिनोरुतूणीरद्वयेनाशून्यपार्श्व निशानमणिशिलाफलकमिव कुसुमास्त्रपत्रिणामतिविशाल टिप्पनकम्-साधुलोकेनेव स्निग्धत्वचारुणा लोकसुभगेन एकत्र स्निग्धत्वमनोज्ञेन जनसौभाग्यवता, अन्यत्र स्नेहवञ्चर्मणा रक्ततेजसा [द]। शुण्डारः-हस्वा शुण्डा, 'शुण्डालः-प्रशस्तशुण्डा' [ध]। प्रवृत्तकाञ्चनरसप्रवाहबहलम् अशनिपाताहत्या-वज्रपाताघातेन, विलीनस्य-द्रुतस्य, सुरशैलस्य-सुमेरुपर्वतस्य, शिखरात, प्रवृत्तेन-आपतितेन, काञ्चनरसप्रवाहेण-सुवर्णरसप्रवाहेण, बहलं-पूर्णम् [त]। च पुनः, उत्पन्नवन्यौषधिप्रकाशाशङ्कइव उत्पन्नवन्यौषधेः-वनभवौषधेः, प्रकाशस्य, आशङ्का-संशयो यस्मिंस्तादृश इव, क्षणं किञ्चित् कालं, ध्यात्वा विचिन्त्य, दिक्षु, निक्षिप्तदृष्टिः-व्यापारितलोचनः, “एकां बालिका कन्यकाम् , अपश्यं दृष्टवानहम्' इत्यग्रेणान्वेति, कीदृशीम् ? बालरक्ताशोकमूले बालस्य-लघोः, रक्ताशोकस्य-रक्तवर्णाशोकतरोः, मूले–अधोदेशे, कृतोर्वावस्थानाम् उत्थिताम् , न तूपविष्टामित्यर्थः; पुनः अमलकान्तिजलतरङ्गिषु अमलकान्तिजलानाम्-उज्वलद्युतिरूपजलानां, तरङ्गो येषु तादृशेषु, सर्वाङ्गभागेषु सर्वावयवप्रदेशेषु, समकालसंक्रान्तैः युगपतसंलग्नैः, आसन्नवल्लीपुष्पफलपल्लवैः आसन्नानां-सन्निहितानां, वल्लीनां-लतानां, पुष्पैः फलैः पल्लवैश्च, लतेति संलक्ष्यमाणां प्रतीयमानाम् ; पुनः अल्पदिवसाधिरूढनवयौवनाम् अचिरोत्पन्नतारुण्याम् [थ]; पुनः अतिनिगूढदृढपर्वाभिः अतिनिगूढानिअतितिरोहितानि, दृढानि-बलवन्ति, पर्वाणि-ग्रन्थयो यासां तादृशीभिः, पुनः अधिकतनुतारताम्रनखपरम्परापरिगताग्राभिः अधिकतन्वीभिः-अतिकृशीभिः, ताराभिः-स्वच्छाभिः, ताम्राभिः-रक्ताभिः, नखपरम्पराभिः-नखपतिभिः, परिगतंव्याप्तम् , अग्रम्-अन्यभागो यासां तादृशीभिः, पुनः विरहिजनहृदयशोणिताशल्याभिः विरहिजनानां-वियोगजनितकामावस्थाविशेषसहितानां जनानां, यद् हृदयस्य शोणितं-रुधिरं, तेन आद्र-क्लिन्नं, शल्य-शल्यतुल्याग्रभागो यासां तादृशीभिः, कुसुमसायकशरशलाकाभिरिव कुसुमसायकस्य-कामदेवस्य, शरशलाकाभिरिव-बाणलेखाभिरिव, सरलसुकुमाराभिः सरलाभिः-ऋज्वीभिः, सुकुमाराभिः-कोमलाभिश्च, अङ्गुलीभिः, उपेतेन सहितेन, पुनः साधुलोकेनेव सज्जनेनेव, स्निग्ध त्वचा चिक्कणचर्मणा, अरुणालोकसुभगेन रक्तप्रकाशजनप्रियेण, पक्षे स्निग्धत्वचारुणा स्निग्धत्वेन वात्सल्येन, चारुणामनोहरेण, लोकसुभगेन जनप्रियेण, चरणालयुगेन चरणकमलद्वयेन, अचिरकालपीतं किञ्चित्पूर्वकालपीतं, सफेनोद्गमं विकृतरसोद्गमसहितं, लाक्षारागरसं लाक्षासम्बन्धिविलेपनरक्तद्रव्यं, धाराभिः प्रवाहैः, उद्गिरन्तीमिव उद्वमन्तीमिव [द] पुनः उद्भिन्नसुन्दरशोणबिन्दोः उद्भिन्नः-उद्गतः, सुन्दरः, शोणबिन्दुः-रक्तबिन्दुर्यस्मिंस्तादृशस्य; तारुण्ये हि हस्तिनो देहे रक्तबिन्दवो भवन्ति, वरकरिकलभशुण्डालदण्डस्य प्रशस्तत्रिंशदब्दकहस्तिशिशुसंबन्धिप्रशस्तशुण्डारूपदण्डस्य, गुणाधिक्यदर्प गुणोत्कर्षाभिमानं, खण्डयितुमिव निराकर्तुमिव, उत्सर्पिणा उद्भासिना, नूपुरपद्मरागकरकलापेन पादकटकवतिरक्तमणिकिरणनिकरण, स्पृश्यमानपीनपरिमण्डलोरुयुगलां स्पृश्यमान-सम्पृच्यमानं, पीनं-स्थूलं, परिमण्डलं-वर्तुलम् , ऊल्युगलं-जङ्घाद्वयं यस्यास्तादृशीम् ; पुनः एकतः एकभागे, कान्तिजलभृता कान्तिरूपजलपूर्णेन, नाभिमण्डलीकनकभाण्डेन नाभिचक्ररूपेण सुवर्णपात्रेण, पुनः अन्यतोऽपि अन्यभागेऽपि, वृत्तानुपूर्वेण वृत्तं-वर्तुलम् , "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202