Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी
१४१ आकर्ण्य चैनमुद्भिन्नपुलकः सहर्षमब्रवीत् समरकेतुः-'कुमार ! साध्वनेन मङ्गलपाठकेन पठितम् , किं दृश्यते ? किं च वर्ण्यते ? सकलकुलधराधरसाधारणगुणग्रामगरिमा गिरिरेषः । दर्शनीयो वर्णनीयश्च त्वमेको जगति येन निःसामान्यनिजचरितखर्वीकृतसर्वान्यभूभृता निजभुजादण्डमात्रसहायेन निर्गत्य शिबिरात् परिमितैरहोभिरावर्जितं विद्याधरचक्रवर्तित्वम् , अनुचरीकृताः खेचराधिपतयः, विधेयीकृतं विद्यादेवताचक्रम् , तदास्तां तावदस्य शिखरिणो दर्शनव्यावर्णनानि । तमेवावेदय यथावृत्तमादितः प्रभृति सर्वमात्मीयवृत्तान्तम् । दुष्टकरटी स तावत् लौहित्यतटपर्वताटव्यां भवन्तमपहृत्य व गतः ? क स्थितः ? त्वयापि ततोऽवतीर्य किं कृतम् ? किं दृष्टम् ? किमनुभूतम् ? क प्रदेशे कृतस्थितिना प्रेषितः स लेखः ? केन वा स शीघ्रमेव प्रापितः शिविरम् ? कुत ईदृशीनामाकाशगमनादिकार्यजनितजगद्विस्मयानामखिलानामपि महाप्रभावाणां विद्यानामधिगतिः ? कथमियमतर्कितैव विद्याधरचक्रवर्तिपदप्राप्तिः ? केन वा प्रसङ्गेन तत्र चैत्ररथवनविडम्बिनि जिनायतनकानने कृतमागमनम् ? का च सा त्रिलोकीतिलकभूता रूपगर्वमप
अनन्यतुल्यमहिमा अनन्यसाधारणमहत्त्वशाली, त्वं भगवान् हरिवाहन एव, द्रष्टव्यः दर्शनार्हः, अधःकृतखेचरेन्द्रतत्रतिना अधःकृता-न्यूनीकृता, खेचरेन्द्रततिः-विद्याधरेन्द्रगणो येन तादृशेन, येन अस्य प्रत्यक्षवर्तिवैताढ्यपर्वतस्य, मूर्भि मस्तके, ऊर्चभूमिकायामित्यर्थः, स्थितिः, बद्धा दृढीकृता, च पुनः, एनम् इमं श्लोकम् , आकर्ण्य श्रुत्वा, उद्भिन्नपुलका उद्गतरोमाञ्चः सन् , समरकेतुः, सहर्ष सप्रमोदम् , अब्रवीत् उक्तवान् , अनेन प्रत्यक्षवर्तिना, मङ्गलपाठकेन मङ्गलात्मकश्लोकपाठिना, साधु सम्यक्, पठितं व्यक्तमुक्तम् , सकलकुलधराधरसाधारणगुणग्रामगरिमा सकलकुलधराधरसाधारणः. निखिलकुलपर्वतसाधारणः, गुणग्रामगरिमा-गुणगणगौरवं यस्य तादृशः, एषः समीपतरवती, गिरिः वैताव्यपर्वतः, किं दृश्यते दृष्टिगोचरीक्रियते, च पुनः, किं वर्ण्यते स्तूयते, न किमपि दृश्यं स्तुत्यं वाऽत्रेत्यर्थः । किन्तु जगति लोके, एका एकमात्रं, त्वं भवान् , दर्शनीयः दर्शनार्हः, च पुनः, वर्णनीयः वर्णनाहः, असीति शेषः, निःसामान्य निजचरितखर्वीकृतसर्वान्यभूभृता निःसामान्यचरितैः-असाधारणस्वचरितैः, खर्वीकृताः-लघूकृताः, सर्वे-समस्ताः, अन्ये, भूभृतः-राजानो येन
नः निजभजादण्डमात्रसहायेन निजभुजादण्डमात्रं-खबाहुरूपदण्ड एव, सहायं-सहकारि यस्य तादृशेन, येन, शिबिरात् सैन्यावासात् , निर्गत्य निःसृत्य, परिमितैः परिगणितैः, अहोभिः दिनैः, विद्याधरचक्रवर्तित्वं विद्याधरसम्राट्त्वम् , आवर्जितं प्राप्तम् , पुनः खेचराधिपतयः विद्याधराधिपतयः, अनुचरीकृताः भृत्यतामापादिताः, पुनः विद्यादेवताचक्रं विद्याधिष्ठातृदेवगणः, विधेयीकृतं वश्यतामापादितं, तत् तस्माद्धेतोः, अस्य शिखरिणः पर्वतस्य, दर्शनव्यावर्णनानि दर्शनानि वर्णनानि, आस्ताम आसन्तामित्यर्थकमव्ययम् , तिष्ठन्तु निवर्तन्तामित्यर्थः । आदितः प्रभृति आरभ्य, सर्व समस्तम् , आत्मीयवृत्तान्तम् आत्मीयं-स्वकीयं, वृत्तान्तमेव-समाचारमेव, आवेदय, तावदिति वाक्यालङ्कारे । स प्रकृतः, तावदिति वाक्यालंकारे, दुष्टकरटी दुष्टहस्ती, लौहित्यतटपर्वताटव्यां लोहितस्य-ब्रह्मपुत्रनदस्य, अपत्यभूता नदी-लौहित्या, तत्तटवर्तिपर्वतसम्बन्धिन्याम् , अटव्यां-वने, भवन्तं त्वाम् , अपहृत्य अपहारकर्मतामापाद्य, क्व कस्मिन् स्थाने, गतः यातः, क्व कस्मिन् , स्थाने, स्थितः स्थिरीभूतः, ततः हस्तिनः, अवतीर्य अधस्तादागत्य, त्वयापि, किं कृतं किं विहितं, पुनः किं दृष्टं दृष्टिगोचरीकृतं, पुनः किम् अनुभूतम् अनुभवगोचरीकृतं, पुनः क्व कस्मिन् , प्रदेशे स्थाने, कृतस्थितिना स्थितेन, त्वयेत्यनुवर्तते, सः मत्प्राप्तः, लेखः पत्रं, शिबिरं सैन्यावासं, शीघ्रमेव प्रापितः उपस्थापितः, पुनः आकाशगमनादिकार्यजनितजगद्विस्मयानाम् आकाशगमनादिकायैः-आकाशविहारादिरूपाभिः-फलभूतक्रियाभिः, जनितः-उत्पादितः, जगतः-लोकस्य, विस्मयः-आश्चर्य याभिस्तादृशीनाम् , पुनः महाप्रभावाणाम अधिकशक्तिशालिनीनाम्, ईदृशीनाम् अनुभूयमानप्रकाराणाम् , अखिलानामपि सर्वासामपि, विद्यानां सिद्धीना, कुतः कस्मात, अधिगतिः प्राप्तिः, विद्याधरचक्रवर्तिपदप्राप्तिः विद्याधरसम्राट्पदप्राप्तिः, कथं केन प्रकारेण, अभूदिति शेषः, वा पुनः, केन प्रसङ्गेन उद्देशेन, चैत्ररथवनविडम्बिनि कुबेरोद्यानानुकारिणि, तत्र तस्मिन् , जिनायतनकानने जिनमन्दिरप्राङ्गणभूतारामे, आगमनं, कृतं विहितं, त्वयेति सर्वत्रानुषज्यते, च पुनः, त्रिलोकीतिलकभूता त्रिभुवनशिरोधार्या, पुनः
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202