Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 152
________________ १४० टिप्पनक-परागविवृतिसंवलिता । नीलकण्ठनिवहदर्शिताकालशावलं, कचिन्मुग्धवनमहिषपुरस्कृतपलायमानाश्वमुखसमूह, त्रिविक्रममिव पादाननिर्गतत्रिपथगासिन्धुप्रवाहम् , रथमिव चक्रवर्तिबलचूर्णितासन्नभूतलम् , मेरुकल्पपादपालीपरिगतमपि नमेरुकल्पपादपालीपरिगतम् , वनगजालीसंकुलमपि नवनगजालीसंकुलं तमवलोकितवान [क]। ___ उपजातविस्मयं च तं तस्य शिखरिणः स्वभावरमणीयासु शिखरश्रेणिषु पुनः पुनः प्रहितदृशमुद्दिश्य नग्नाचार्य एकः समुच्चार्य जयशब्दमब्दध्वानजयिना खरेण प्रक्रमागतमिमं श्लोकमपठत् "दृश्यं भूमिभृतोऽस्य देव! किमिह स्कन्धस्थविद्याधरश्रेणीयस्य वहन्ति यस्य समतामन्येऽपि गोत्राचलाः । द्रष्टव्यस्त्वमनन्यतुल्यमहिमा मध्ये धरित्रीभृतां येनाधःकृतखेचरेन्द्रततिना बद्धाऽस्य मूर्ध्नि स्थितिः ॥" [ख] । टिप्पनकम्-त्रिविक्रममिव पादाग्रनिर्गतत्रिपथगासिन्धुप्रवाहम् एकत्र चरणाग्रप्रादुर्भूतगङ्गानदीस्रोतसम् , अन्यत्र प्रत्यन्तगिरिशिखरैनिःसृतगङ्गासिन्धुनदीद्वयप्रवाहम् । रथमिव चक्रवर्तिबलचूर्णितासन्नभूतलम् एकत्र रथाङ्गाग्रधाराचूर्णीकृतनिकटभूपृष्ठम् , अन्यत्र चक्रवर्तिराजसैन्यचूर्णितासन्नभूतलम् । मेरुकल्पपादपालीपरिगतमपि न मेरुकल्पपादपालीपरिगतं यदि मेरुतुल्यप्रत्यन्तगिरिपतियुक्तं कथं न मेरुकल्पादिम् , अन्यत्र नमेरुवृक्षविशेषकल्पतरुराजिसंगतम् । वनगजालीसंकुलमपि नवनगजालीसंकुलम् अरण्यकरिसंकुलं यदि कथं न संकुलम्, अन्यत्र नूतनवृक्षगहनव्याप्तम् [क]। सिंहानामित्यर्थः, करकुलिशैः-हस्तवज्रः, दारितस्य-खण्डितस्य, जलदस्य-मेघस्य, गर्भात-उदरात , उद्गीर्णैः-निर्गतैः, मुक्ताफलैःमुक्तामणिभिः, आकीर्ण-व्याप्तम् ; पुनः क्वचित् कस्मिंश्चित् स्थले, नृत्तप्रवृत्तनीलकण्ठनिवहदर्शिताकालशाड्वलं नृत्तप्रवृत्तेन-नृत्यप्रसक्तेन, नीलकण्ठनिवहेन-मयूरगणेन, दर्शितं प्रत्यायितं, शाड्वलं-हरिततृणमयस्थलं यस्मितादृशम् । पुनः क्वचित् कस्मिंश्चित् प्रदेशे, मुग्धवनमहिषपुरस्कृतपलायमानाश्वमुखसमूहम् अविवेकावस्थवनसम्बन्धिमहिषैः, पुरस्कृतःअश्वधिया अग्रतः कृतः, अत एव पलायमानः-धावितः, अश्वमुखानाम्-अश्वमुखसदृशमुखवतां वन्यपशुविशेषाणां, किन्नराणां वा, समूहो यस्मिंस्तादृशम् [ज्ञ]; पुनः त्रिविक्रममिव विष्णुमिव, पादाग्रनिर्गतत्रिपथगासिन्धुप्रवाहं पादाग्रात्प्रत्यन्तपर्वतात्, पक्षे चरणाग्रात् , निर्गताः-निःस्पन्दिताः, त्रिपथगायाः-स्वर्ग-मर्त्य-पातालरूपमार्गत्रयगामिन्याः; सिन्धोः-नद्याः, गङ्गाया इत्यर्थः, पक्षे त्रिपथगायाः-गङ्गानद्याः, सिन्धोः-सिन्धुनद्याश्च, प्रवाहा यस्मिंस्तादृशम् ; पुनः रथमिव चक्रवर्तिबलचर्णितासन्नभूतलं चक्रवर्तिबलेन-अखण्डमण्डलेश्वरसैन्येन, पक्षे रथाङ्गभूतं चक्रं तत्सम्बन्धिना वर्तिबलेन-अग्रधारा शक्त्या, चूर्णितं-पिष्टम् , आसन्नभूतलं-निकटभूमिपृष्ठं यस्य तादृशम् ; पुनः मेरुकल्पपादपालीपरिगतमपि मेरुकल्पानां-मेरुसदृशानां पादाना-प्रत्यन्तगिरीणां, पाल्या-पङ्कया, परिगतमपि-व्याप्तमपि, न मेरुकल्पपादपालीपरिगतमिति विरोधः, तत्परिहारे तु नमेरूणां-तदाख्यानां, कल्पानां-तदाख्यानां च, पादपानां-वृक्षाणाम् , आल्या-पतया, परिगतं-व्याप्तम् ; पुनः वनगजालीसंकुलमपि वन्यहस्तियूथपूर्णमपि, न वनगजालीसंकुलमिति विरोधः, तत्परिहारे तु नवानां-नवीनानां, नगानां-वृक्षाणां, जाल्या-समूहेन, संकुलं-व्याप्तम् [क]। उपजातविस्मयं वैताड्यपर्वतावलोकनोत्पन्नाश्चर्यम् , पुनः तस्य प्रकृतस्य, शिखरिणः पर्वतस्य, स्वभावरमणीयासु खभावेन मनोहरासु, शिखरश्रेणीषु शिखरपतिष, पुनः पुनः अनेकवारम् , प्रहितदृशं व्यापारितनेत्रं, तं हरिवाहनम् , उद्दिश्य लक्ष्यीकृत्य, एकः, नग्नाचार्यः मङ्गलपाठकः, जयशब्दं जयकारं समुच्चार्य, अब्दध्वानजयिना मेघनादादधिकगम्भीरेण, खरेण, प्रक्रमागतं प्रकरणप्राप्तम् , इमं वक्ष्यमाणं, श्लोकं पद्यम् , अपठत् उच्चारितवान् , भो देव भो राजन् ! स्कन्धस्थविद्याधरश्रेणीय[क]स्य स्कन्धस्था-शिखरवर्तिनी, विद्याधरश्रेणी-विद्याधरपतिर्यस्य तादृशस्य; अस्य प्रत्यक्षस्य, भूमिभृतः पर्वतस्य, इह अस्मिन् शिखरप्रदेशे, किं दृश्यम् ? अपूर्वदर्शनयोग्य वस्तु सम्भवति, यस्य पर्वतस्य, समतां तुल्यताम् , अन्येऽपि गोत्राचलाः कुलपर्वताः, वहन्ति प्राप्नुवन्ति, धरित्रीभृतां पृथ्वीपतीनां पक्षे पर्वतानां मध्ये, "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202