Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 148
________________ १३६ टिप्पनक-परागविवृतिसंवलिता। उद्यजाड्य इव प्रगेतनमरुत्संसर्गतश्चन्द्रमाः, पादानेष दिगन्ततल्पतलतः सङ्कोचयत्यायतान् । अन्तर्विस्फुरितोरुतारकतिमिस्तोमं नभःपल्वलाद्धान्तानायमयं च धीवर इवानूरुः करैः कर्षति ॥३॥ सद्यःसंहृतघोरघूत्कृति मनागन्धीभवदृष्टयो, जीर्णानोकहकोटराणि शनकैर्मार्गन्त्यमी कौशिकाः । किञ्चास्कन्दति शैलकन्दरभुवो भिन्नं करैरारुणैरेतदर्पकरालकोलकपिलश्यामं त्रियामातमः ॥ ४ ॥ ताम्बूलद्रवरागराजिरुचिरैर्मध्ये बहिषूसरैः, किञ्चिन्नूतनकाञ्चनारसुमनःपत्रं हसन्त्योऽधरैः । एताः पण्यपुरन्ध्रयो निधुवनक्रीडाजडैरङ्गकैर्निर्गत्य प्रियसद्मनः स्ववसतेर्वीथीरलंकुर्वते ॥ ५ ॥ जाताः सर्वदिशो दिनान्धवयसामन्धास्तवेव द्विषां, प्राप्यन्ते घटना रथाङ्गमिथुनैस्त्वद्वाञ्छिताथैरिव । आरोहत्युदयं प्रताप इव ते तापः पतङ्गत्विषां, द्रष्टुं नाथ ! भवन्मुखश्रियमिवोन्मीलन्ति पद्माकराः॥६॥"[ल]। सन्ध्योदये प्रभातोदये, तारकाः ताराः, दाडिमबीजपाकसुहृदः पक्कदाडिमबीजसदृशरक्तकान्तयः, जाताः; पुनः तान्ताः ग्लानाः क्षीणा इति यावत्, तमस्तन्तवः तमांसि तन्तव इवेति तमस्तन्तवः, सूत्रसदृशकृशाकारा अन्धकारा इत्यर्थः, प्लष्टजरत्पलालतुलनां प्लुष्टाः-दग्धा ये, जरन्तः-जीर्णाः, पलालाः-धान्यरहिततदीयकाण्डाः, तत्तुलनां-तत्सादृश्यं, यान्ति प्राप्नुवन्ति; पुनः ज्योत्स्नापायविपाण्ड ज्योत्स्नायाः-चन्द्रिकायाः, अपायेन-विनाशेन, विपाण्डु-विशेषेण पाण्डवर्ण, श्वेतपीतवर्णमित्यर्थः, पुनः प्रत्यङ्नभोभित्तिभाक् पश्चिमाकाशरूपभित्तिस्थितं, पूर्णेन्दोः पूर्णचन्द्रस्य, मण्डलं बिम्ब, जरदूर्णनाभनिलयप्रागल्भ्यं जरतः-जीर्णस्य, ऊर्णनाभनिलयस्य-लूतातन्तुमयगृहस्य, प्रागल्भ्यं-प्रतिभा, क्षीणतया तद्वत् प्रतिभासमानतामित्यर्थः, अभ्यस्यति दृढं धत्ते । अत्रोपमालङ्कारः ॥२॥ .... एषः अयं, चन्द्रमाः, प्रगेतनमरुत्संसर्गतः प्रातःकालिकपवनसंसर्गात्, उद्यजाड्य इव उद्यत्-उद्भवत्, जाड्यं शैल्यं यस्मिंस्तादृश इव, दिगन्ततल्पतलतः दिगग्रभागात्मकशय्यातलात , आयतान् विस्तारितान् , पादान् किरणचरणान्, सङ्कोचयति उपसंहरति; च पुनः, अयं प्रत्यक्षवर्ती, अनूरुः सूर्यसारिथिः, धीवर इव कैवर्त इव, नभःपल्वलात् आकारूपादखातसरसः, अन्तर्विस्फरितोरुतारकतिमिस्तोमम अन्तः-मध्ये, विस्फुरितानि-सञ्चारितानि, उरुतारकाण्येवबहुतरनक्षत्राण्येव, तिमिस्तोमः-मत्स्यविशेषसमूहो यस्य तादृशं, ध्वान्तानायम् अन्धकाररूपं जालं, करैः किरणहस्तैः, कर्षति उद्धरति । अत्र पूर्वार्धे उत्प्रेक्षा, उत्तरार्धे रूपकोपमे ॥३॥ ___ सद्यःसंहृतघोरघूत्कृति सद्यः-तत्क्षणे, संहृताः-सङ्कोचिताः, घोराः-भयानकाः, घूत्कृतयः-खकीयध्वनिविशेषा यस्मिस्तादृशं यथा स्यात् तथा, मौनावलम्बनपूर्वकमित्यर्थः, मनाक किञ्चित् , अन्धीभवद्दष्टयः अन्धीभवन्त्य अन्धत्वमापद्यमानाः, दृष्टयो-लोचनानि येषां तादृशाः, अमी विप्रकृष्टभूताः, कौशिकाः उलूकाख्यया प्रसिद्धपक्षिविशेषाः, शनकैः मन्दं मन्दं, जीर्णानोकहकोटराणि जीर्णानां-पुराणानां, अनोकहानां-वृक्षाणां, कोटराणि-रन्ध्राणि, मार्गन्ति दिनान्धतया निवासार्थम् अन्विष्यन्ति; किञ्च, दर्पकरालकोलकपिलश्यामं दर्पण-गर्वेण, करालः, यः कोल:-शूकरः, तद्वत् कपिलंकपिलवण, श्याम-कृष्णवर्णं च, एतत् प्रत्यक्षभूतं, त्रियामातमः रात्रिसम्बन्ध्यन्धकारः, आरुणैः सूर्यसम्बन्धिभिः, करैः किरणैः, भिन्नं विघटितं सत्, शैलकन्दरभुवः पर्वतगुहास्थलीः, आस्कन्दति आक्रामति । अत्र पूर्वार्धे खभावोक्तिः, उत्तरार्धे तूत्प्रेक्षोपमे ॥ ४ ॥ मध्ये अभ्यन्तरे, ताम्बूलद्रवरागराजिरुचिरैः ताम्बूलद्रवस्य-ताम्बूलरसस्य, रागराज्या-रक्तकान्तिकलापेन, रुचिरैः-सुन्दरैः, पुनः बहिः बाह्यभागे, धूसरैः सुरतश्रमेण किञ्चित्पीतश्वेतवर्णैः, अधरैः ओष्ठैः, किञ्चिन्नूतनकाञ्चनारसुमनःपत्रं किञ्चिन्नूतनम्- ईषन्नवीनं, काश्चनारसुमनसः-काञ्चनाराख्यपुष्पविशेषवृक्षस्य, पत्रं, हसन्त्यः तिरस्कुर्वन्त्यः, एताः इमाः, पण्यपुरन्ध्रयः केतव्यस्त्रीविशेषाः, निधुवनक्रीडाजडैः सुरतक्रीडाशिथिलैः, अङ्गकैः अनुकम्पनीयैरवयवैः, उपलक्षिताः, प्रियसद्मनः खप्रियजनगृहात् , निर्गत्य निःसृत्य, स्ववसतेः स्ववासभवनस्य, वीथीः मार्गान् , यद्वा पतीः, अलङ्कुर्वते विभूषयन्ति, अत्र व्यतिरेकालङ्कारः ॥ ५॥ .. हे नाथ! तव द्विषां शत्रुणाम् , इव, दिनान्धवयसां दिने अन्धाना--दर्शनशक्तिशून्यानां, वयसां-पक्षिणाम् , उलूकानामित्यर्थः, सर्वदिशः समस्ता अपि दिशः, अन्धाः दृष्टयगोचराः, जाताः संवृत्ताः; पुनः त्वद्वाञ्छिताथै रिव "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202