Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 145
________________ तिलकमञ्जरी पन्ननानाविधव्रतैराराधयद्भिः साधयद्भिश्च नानाविधविद्याधरैरध्यासितां [फ ], स्फटिकराजपट्टप्रायोपलां सैकतप्रायभूतलां नीवारप्रायतृणोलपां कस्तूरिका मृगप्रायश्वापदां शिखण्डिपरभृतप्रायाण्डजां किंपुरुषप्रायवनचरां चन्द्रकान्तनिःष्यन्दप्रायनिर्झरां गल्वर्कोद्गीर्णपावकप्रायदावानलं वनदेवता निःश्वसितपवनप्रायमारुतामेकशृङ्गवैताढ्यपर्वतान्तरालाटवीं वीक्षमाणः क्षणेनैव दक्षिणेतर श्रेणितिलकभूतमभिभूतपुरुहूतनगरीरूपविभ्रममुदग्रमणिशिलाशाल शिखरोल्लिखितगगनोदरं गगनवल्लभनगरमासाद [ब] | प्रतिसदनमुत्तम्भितविविधवस्त्रध्वजेन गन्धजलसिक्तनिजनिजप्रतोलिना सर्वतो विप्रकीर्णपुष्पप्रकरेण ‘निर्यत्नसाधिता खिलप्रधानविद्यः परिगतः समागतसकलतन्त्रैः खेचराधिपतिभिरद्यैवोपजातसमागमेन प्रेयसा सदृशरूपयौवनेन सुहृदा स्वदेशागतेन सार्धमचिरानुभूतराज्याभिषेकसंपदभिनवः प्रभुरस्माकमागच्छति' १३३ पन्ननानाविधव्रतैः आप्तोपदेशेन - आप्तस्य - प्रत्ययितजनस्य, धर्माचार्यस्येत्यर्थः, उपदेशेन - अनुशासनेन, प्रतिपन्नानि - स्वीकृतानि, नानाविधानि व्रतानि यैस्तादृशैः; आराधयद्भिः तदाराधनां कुर्वद्भिः च पुनः, नानाविधाः अनेकप्रकाराः, या विद्या ताः, साधयद्भिः तत्सिद्धिं कुर्वद्भिः [फ ] । पुनः कीदृशीम् ? स्फटिकराजपट्टप्रायोपलाम् स्फटिकरा जपट्टप्रायाः-स्फटिकश्रेष्ठफलकप्रचुरा उपलाः-प्रस्तरा यस्यां तादृशीम्, पुनः सैकतप्रायभूतलां सैकतप्रायं - वालुका बहुलं, भूतलं यस्यां तादृशीम्, पुनः नीवारप्राय तृणोलपां नीवारप्रायाः - नीवाराः - तृणधान्यविशेषा वनत्रीहयः, तत्प्रायाः- तत्प्रचुराः, तृणोलपाः - तृणानि, उलपाः- सूक्ष्मतृणविशेषाश्च यस्यां तादृशीम्, पुनः कस्तूरिकामृगप्रायश्वापदां कस्तूरिकामृगप्रायाः - कस्तूरिकाभृताण्डशालिमृगप्रचुराः, श्वापदाःवन्यपशवो यस्यां तादृशीम्, पुनः शिखण्डिपरभृतप्राय ण्डजां शिखण्डिपरभृतप्रायाः - मयूरकोकिलबहुलाः, अण्डजाः पक्षिणो यस्यां तादृशीम्, पुनः किंपुरुषप्रायवनचरां किंपुरुषप्रायाः - किन्नरप्रचुराः किन्नरकल्पां वा, वनचराः - किरातादिवन्यजना यस्यां तादृशीम्, पुनः चन्द्रकान्तनिःष्यन्दप्राय निर्झरां चन्द्रकान्तमणिस्यन्दमान जलप्रचुरप्रवाहाम् । पुनः गल्वकदीर्णपावकप्रायदावानलां गल्वर्केण- अग्निपाषाणेन, उद्गीर्णः - उद्भावितः यः पावकः - अग्निः, तत्प्रायः- तत्कल्पः, दावानलः - वनाग्निर्यस्यां तादृशीम् । पुनः वनदेवतानिःश्वसितपवनप्रायमारुतां वनदेवतानां - वनाधिष्ठातृदेवानां निःश्वसितपवनप्रायाः-नासिकावायुप्रचुराः, मारुताः - वायवो यस्यां तादृशीम् । कीदृशं गगनवल्लभनगरम् ? दक्षिणेतरश्रेणितिलकभूतं दक्षिणेतरश्रेण्याः-वैताढ्यपर्वतस्योपरिस्थिताया उत्तरदिगवस्थितनगर श्रेणिस्तस्याः, तिलकभूतं - तिलकरूपम् । पुनः अभिभूतपुरुहूतनगरीरूपबिभ्रमम् अभिभूतः - पराजितः, तिरस्कृत इत्यर्थः, पुरुहूतनगर्याः - इन्द्रपुर्याः, रूपविभ्रमः - रूपशोभा येन तादृशम् । पुनः उदग्रमणिशिलाशाल शिखरोल्लिखितगगनोदरम् उदप्राणाम्-उन्नतानां, मणिशिलाशालानां - मणिरूपशिलामयप्राकाराणां, शिखरैः-शृङ्गैः, उल्लिखितं संस्पृष्टं, गगनोदरम् - आकाशमध्यं यस्मिंस्तादृशम्, गगनवल्लभनगरं नभः प्रदेशे वल्लभप्रायःभूतं नगरम्, आससाद प्राप्तवान् [ब] | जगाम, पौरनरनारीजनेन नगरवासिनरनारीनिकरेण, दृश्यमानः - अलोक्यमानो हरिवाहनः मन्दिरं राजभवनं, वव्राज कीदृशेन पौरनारीजनेन ? प्रतिसदनं प्रतिगृहम्, उत्तम्भितविविधवस्त्रध्वजेन उत्तम्भिताः - उच्छ्रिताः, विविधाः अनेकप्रकाराः वस्त्रध्वजाः - वस्त्रपताका येन तादृशेन, पुनः गन्धजलसिक्तनिजनिजप्रतोलिना गन्धजलैः - सुगन्धिजलैः, सिक्ता आर्द्रीकृता, निजनिजप्रतोली - स्वस्वरथ्या येन तादृशेन, पुनः सर्वतोविप्रकीर्णपुष्पप्रकरेण सर्वतः - सर्वभागेषु, विप्रकीर्णः-विक्षिप्तः, पुष्पप्रकरः - पुष्पराशिर्येन तादृशेन, पुनः आकर्ण्य आकर्ण्य श्रुत्वा श्रुत्वा समुपजात कुतूहलेन उत्पन्नदिदृक्षारसेन; किमाकर्यैत्याह-निर्यत्नसाधिताखिलप्रधानविद्यः निर्यत्नम् - अनायासं यथा स्यात् तथा, साधिताःअधिगताः, अखिलाः-सर्वाः प्रधानविद्या येन तादृशः, पुनः समागतसकलतन्त्रैः समागताः - समनुप्राप्ताः, सकलाःसमस्ताः, तन्त्राः, अधीनजना यान् तादृशैः, खेचराधिपतिभिः विद्याधरेन्द्रैः परिगतः परिवेष्टितः, पुनः अद्यैव अधुनैव, उपजातसमागमेन सञ्जातसम्मेलनेन, प्रेयसा प्रियतमेन सदृशरूपयौवनेन सदृशं तुल्यं, रूपं - शरीरशोभा, यौवनं - तारुण्यं च यस्य तादृशेन, स्वदेशागतेन स्वकीयदेशादुपस्थितेन, सुहृदा मित्रेण, समरकेतुनेत्यर्थः, सार्धं सह, अचिरानुभूतराज्याभिषेकसम्पत् अचिरं- शीघ्रम् अनुभूता प्राप्ता, राज्याभिषेकसम्पत्-विद्याधर चक्रवर्तित्वाभिषेकसम्पत्तिर्येन तादृशः, अस्माकम् अभिनवः नवीनः प्रभुः स्वामी हरिवाहनः, आगच्छति, इति इत्थम्, पुनः कीदृशेन "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202