Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 144
________________ १३२ टिप्पनक-परागविवृतिसंवलिता। सान्निध्यक्षुभितरसकूपिकैः स्मरान्धखेचरानीतभूगोचरवधूविलापवाचालैरर्धजर्जरद्विरदशय्यासहस्रसूचितातिक्रान्तचक्रवर्तिसैन्यसंनिवेशैः प्रदेशैरुपशोभितां [प], सर्वतश्च सर्वविद्याधरनगरनिर्गतैः सर्ववर्णान्तःपातिभिः सर्वारम्भविरतैः सर्वविषयप्रतिषेधलब्धाशयशुद्धिभिः सिद्धिनिमित्तमङ्गीकृतारण्यवासैश्चिरागतैश्चाचिरप्रविष्टैश्च सरित्तटनिवासिभिश्च गिरिगुहाध्यासिभिश्च गह्वरोपगह्वरविहारिभिश्च निर्झरानुसारिभिश्च सदनीकृतलताजालैश्च प्रतिपन्नपर्णशालैश्च परित्यक्ताभ्यवहारैश्च फलमूलपायाहारैश्च पञ्चतपःसाधनविधानसंलग्नैश्चाकण्ठमुदकमग्नैश्च प्रारब्धधूमपानाधोमुखैश्च ब्रनविम्बनिरीक्षणोद्वीक्षणैश्च जञ्जपूकैश्च वाचंयमैश्च कैश्चिदुकन्दमूलोद्धारिभिरवगाढवातातपोपहतवारिभिर्विधृताजिनजटाकलापैस्तापसकल्पं कलयद्भिः कैश्चिदुद्दण्डकोदण्डपाणिभिः प्राणिविशसनोपरतैरन्तिकस्थप्रेयसीभिः संभोगसुखपरामखैः पत्रशबरपरिबर्ह वह द्भिराप्तोपदेशप्रति अत्यन्तं भयग्रस्ता ये, अध्वन्याः-पथिकाः, तैदृश्यमानाः, रसातलसोदराः-पातालतुल्याकाराः, पतनकन्दराः-पतनस्थानात्मकगुहा येषु तादृशैः; पुनः यदृच्छाप्रवृत्तविद्याधरपुरन्ध्रिसान्निध्यक्षुभितरसकूपिकैः यदृच्छया-यथेच्छं, प्रवृत्तानां-क्षोभणप्रसक्तानां, विद्याधरपुरन्ध्रीणां-विद्याधरपत्नीनां सान्निध्येन -सामीप्येन, क्षुभिताः-सञ्चलिताः, रसकूपिकाः-सुवर्णादिजनकरसभृताः, कूपिकाः-भाजनविशेषा गर्ता वा येषु तादृशैः; पुनः स्मरान्धखेचरानीतभूगोचरवधूविलापवाचालैः स्मरान्धैःकामान्धैः, खेचरैः-गगनगामिजनैः, आनीतानाम्-बलादपहृतानां, भूगोचरवधूनां-भूमिवास्तव्यस्त्रीणां, विलापैः-क्रन्दनैः, वाचालैः-वावदूकैः; पुनः अर्धजर्जरद्विरदशय्यासूचितातिक्रान्तचक्रवर्तिसैन्यसन्निवेशैः अर्धजर्जराभिः-अर्धजीर्णाभिः, द्विरदशय्याभिः-हस्तिशय्याभिः, सूचितः-प्रत्यायितः, अतिक्रान्तचक्रवर्तिनः--भूतपूर्वाखण्डमण्डलेश्वरस्य, सैन्यसन्निवेशःसैन्यावासो येषु तादृशैः [प] । पुनः कीदृशीम् ? सर्वतः सर्वप्रदेशेषु, नानाविधविद्याधरैः अनेकविधविद्याधरजातीयैः, अध्यासिताम् , अधिष्ठिताम् । कीदृशः? सर्वविद्याधरनगरनिर्गतैः सर्वेभ्यः विद्याधरनगरेभ्यः, सर्ववर्णान्तःपातिभिः सकलवर्णसङ्कीर्णैः; पुनः सर्वारम्भविरतैः सर्वव्यापारनिवृत्तः; पुनः सर्वविषयप्रतिषेधलब्धाशयशुद्धिभिः सर्वविषयप्रतिषेधेन-रूपरसाद्यशेषविषयविशेषभोगत्यागेन, लब्धा-प्राप्ता, आशयशुद्धिः-अन्तःकरणशुद्धि पुनः सिद्धिनिमित्तं सिद्धिसम्पत्यर्थम् , अङ्गीकृतारण्यवासैः अङ्गीकृतः-स्वीकृतः, अरण्यवासः-वनवासो यै स्तादृशैः; पुनः चिरागतैः अतिपूर्वप्रविष्टः:च पुनः. अचिरप्रविष्टः तत्कालकृतप्रवेशैः च पुनः, सरित्तटनिवासिभिः नदीतटनिवासिभि च पुनः, गिरिगुहाध्यासिभिः पर्वतकन्दरावासिभिः;च पुनः, गह्वरोपगह्वरविहारिभिः गह्वरस्य-निकुरजस्य, उपगहरेएकान्ते, विहरणशीलैः,च पुनः, निर्झरानुसारिभिः गिरिनदीप्रवाहानुगामिभिः; च पुनः, सदनीकृतलताजालैः सदनीकृतं गृहीकृतं, लताजालं-लताराशियैस्तादृशैः; च पुनः, प्रतिपन्नपर्णशालैः प्रतिपन्ना-निवासस्थानत्वेन स्वीकृता, पर्णशाला पत्रमयकुटी यैस्तादृशैः. च पुनः, परित्यक्ताभ्यवहारैः परित्यक्तः-वर्जितः, अभ्यवहारः-भोजनं यैस्तादृशैः, उपवासपरेरित्यर्थः, च पुनः, फलमूलप्रायाहारैः फलमूलप्रधानकः, आहारः-भोजनं येषां तादृशैः, च पुनः, पञ्चतपःसाधनविधानसंलग्नैः पञ्चानां तपसां सूर्यपञ्चमानिसाध्यतपसां, साधन विधाने-साधनानुष्ठाने, संलग्नैः-प्रसक्तैः; च पुनः, आकण्ठं कण्ठपर्यन्त उदकमग्नैः जलमग्नः, च पुनः, प्रारब्धधूमपानाधोमुखैः प्रारब्धाय-प्रवर्तिताय, धूमपानाय, अधोमुखैः-अवनतवदनैः; च पुनः, ब्रनविम्बनिरीक्षणोद्वीक्षणैः बनबिम्बस्य-सूर्यमण्डलस्य, निरीक्षणाय-दर्शनाय, उद्वीक्षणैः-उत्-उन्नते, वीक्षणेनयने येषां तादृशैः; च पुनः, जअपूकैः जपासक्तैः; च पुनः, वाचंयमैः मौनव्रतिभिः; पुनः कैश्चित् कैरपि, अकन्दमूलोद्धारिभिः कन्दमूलोद्धरणविरतैः; पुनः अवगाढवातातपोपहतवारिभिः अवगाढं-कृतावगाहं, वातातपाभ्यांपवन-सूर्यरश्मिभ्याम् , उपहतं-दूषितं, वारि-जलं यैस्तादृशैः, पुनः विधृताजिनजटाकलापैः विधृतेन, अजिनेन-व्याघ्रचर्मोत्तरीयेण, जटाकलापेन च-जटापुजेन च, तापसाकल्पं तपस्विवेषं, कलयद्भिः धारयद्भिः; पुनः कैश्चित् कैरपि, उद्दण्डकोदण्डपाणिभिः उद्दण्डः-उन्नतदण्डः, कोदण्ड:-धनुः, पाणौ-हस्ते येषां तादृशैः; पुनः प्राणिविशसनोपरतैः प्राणिनांजीवानां, विशसनात् - हिंसनात् , उपरतैः-निवृत्तैः; पुनः अन्तिकस्थप्रेयसीभिः निकटस्थप्रियतमाभिः सह, सम्भोगसुखपराङ्मुखैः कामकेलिसुखनिवृत्तैः, पुनः पत्रशबरपरिबर्ह पत्रचित्रशिखां, वहद्भिः धारयद्भिः; पुनः आप्तोपदेशप्रति "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202