Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
१२८
टिप्पनक-परागविवृतिसंवलिता । पथप्रस्थानलीलोत्थापितविस्मयेन समरकेतुना सविस्मयमवलोकिता प्रलयजलधिपङ्कपर्यङ्कलुठितवैकुण्ठकोलकायकाली कुपितकालयवनकालकालितां केलिमिव कालीयस्य, तत्कालकर्कशार्कमरीचिसंपर्कमूछितां मूर्छामिव महीगोलस्य, शकलीकृत्य काश्यपीगोलकमुत्कलितां कण्ठेकालकूटकालिकामिव कालाग्निकण्ठेकालस्य विषमविषधरविषानलोद्वेगवेगोद्गतां पद्धतिमिव पातालपङ्कस्य, बहुशैवलच्छटावच्छादितामपसरणसरणिमिव प्रलयान्तशान्तोत्तराशाजलराशेः, अवनिपीठपर्यस्तपीवरप्रवाहां मदवारिवाहिनीमिव सार्वभौमस्य, भूमौ प्रतिमागतां रथरेखामिवानूरुसारथिरथावर्तामखर्वपर्वतशिखरशेखरितान्तराम् [त], अन्तरान्तरा वहद्विमलजलवाहिवाहिनीप्रवाहाभिरुत्पतत्पांशुमुष्टिस्पष्टिततरुस्तम्बधृतवनस्तम्बेरमस्तोमाभिः पर्यस्तजर्जरभूर्जवल्कलभारसुखसंचाराभिरुजिहानमञ्जिष्ठाकुरजालजालकितजलाशयोपशल्याभिर्निपतिततिरश्चीनप्राचीनामलकतिलकितक्षितितलाभि
अथ अनन्तरम् , 'एकशृङ्गवैताढ्यपर्वतान्तरालाटवीम् एकं शृङ्ग-शिखरं यस्य तादृशस्य वैताळ्यपर्वतस्य, अन्तरालां-मध्यवर्तिनीम् , अटवीं-वनं, वीक्षमाणः पश्यन् , क्षणेनैव क्षणमात्रेणैव, गगनवल्लभनगरम् गगनवल्लभनामक नगरम् , आससाद गतवान्' इत्यग्रेणान्वेति । कीदृशीमटवीम् ? अतर्किततारकापथप्रस्थानलीलोत्थापितविस्मयेन अतर्कितं-पूर्वमनालोचित, यत् तारकापथप्रस्थानम्-आकाशप्रयाणं, तल्लीलया, उत्थापितः-उद्भावितः, विस्मयः-आश्चर्य यस्य तादृशेन, समरकेतुना, सविस्मयं साश्चर्यम् , अवलोकितां दृष्टाम् ; पुनः प्रलयजलधिपङ्कपर्यङ्कलुठितवैकुण्ठकोलकायकालीं प्रलयकालिको यो जलधिः-समुद्रः, तदीयपङ्करूपे पर्यके, लठितस्य-शयितस्य, वैकुण्ठकोलस्य-नारायणावतारभूतशूकरस्य, कायवत्-शरीरवत् , कालीं-कृष्णवर्णाम् ; पुनः कालीयस्य हरिवध्यस्य नागराजस्य, कुपितकालयवनकालाकालिता कुपितः क्रोधयुक्तः, काल:-श्यामश्च,यो यवनकाल:-यवनारिः, हरित्यर्थः, तेन कालितां-श्यामीकृतां, केलिमिव पुनः तत्कालकर्कशार्कमरीचिसम्पर्कमूर्च्छितां तत्काले-तत्समये, कर्कशस्य-तीवस्य, अर्कस्य-सूर्यस्य, मरीचिभिः-किरणैः, सम्पर्केण, मूच्छितां-प्रसृतां, महीगोलस्य पृथ्वीमण्डलस्य, मूर्छामिव नष्टचैतन्यावस्थामिव; पुनः काश्यपीगोलकं भूमण्डलं, शकलीकृत्य विदार्य, उत्कलिताम् उच्छलितां, कालाग्निकण्ठेकालस्य कालाग्नेः-प्रलयकालिकाग्निरूपस्य, कण्ठेकालस्य-रुद्रस्य, कण्ठेकालकूटकालिकामिव कण्ठेकालकूटस्य-कण्ठवर्तिहालाहलपुञ्जस्य, कालिकां-कृष्णकान्तिम्, इव; पुनः विषमविषधरविषानलोद्वेगवेगोद्गतां विषमाणां-भयंकराणां, विषधराणां--सर्पाणां, विषानलेन-विषरूपाग्निना, य उद्वेगः-उद्गमः, तस्य वेगेन, उद्गताम्-उत्थिताम् , पातालपङ्कस्य रसातलकर्दमस्य, पद्धतिमिव मार्गभूमिमिव; पुनः . प्रलयान्तशान्तोत्तराशाजलराशेः प्रलयान्ते-प्रलयावसाने, शान्तस्य-निवृत्तवेगस्य, उत्तराशाजलराशेः-उत्तर दिग्वाहिनः समुद्रस्य, बहुशैवलच्छटावच्छादितां बहुशैवलच्छटया-प्रचुरजलतृणश्रेण्या, अवच्छादिताम्-आवृताम् , अपसरणसरणिमिव निर्गमनमार्गमिव पुनः सार्वभौमस्य समग्रोत्तरभूमण्डलेश्वरस्य, अवनिपीठपर्यस्तपीवरप्रवाहाम अवनिपृष्ठेभूमिपृष्ठे, पर्यस्तः-प्रक्षिप्तः, पीवरः-स्थूलः, प्रवाहो यस्यास्तादृशीम् , मदवारिवाहिनीमिव प्रभुत्वाभिमानजलनदीमिव; पुनः अखर्वपर्वतशिखरशेखरितान्तराम् अखर्वस्य-उन्नतस्य, पर्वतस्य, शिखरैः-ऊर्श्वभागैः, शेखरितं-शोभितम् , अन्तरंमध्यभागो यस्यास्तादृशीम् , अत एव अनूरुसारथिरथावर्ती न विद्यते ऊरू जङ्घ यस्य सोऽनूरुः-अरुणः, स सारथिःरथनियन्ता यस्य तस्य-अनूरुसारथेः-सूर्यस्य, यो रथः, तस्य आवर्ताः-चक्राकारा यत्र तादृशीम् , भूमौ पृथिव्यां, प्रतिमागतां प्रतिबिम्बात्मना आपतितां, रथरेखामिव नेमिपतिमिव [त] । पुनः अन्तरान्तरा मध्ये मध्ये, वनस्थलीभिः वनभूमिभिः, उद्भसिताम् उद्दीपिताम् ; कीदृशीभिः? वहद्विमलजलवाहिवाहिनीप्रवाहाभिः वहन्तः-स्यन्दमानाः, विमलजलवाहिनीना-स्वच्छजलस्यन्दिनीनां, वाहिनीना-नदीना, प्रवाहा यासु तादृशीभिः; पुनः उत्पतत्पांशुमुष्टिस्पष्टिततरुस्तम्बधृतवनस्तम्बेरमस्तोमाभिः उत्पतन्ती-उच्छलन्ती, या पांशुमुष्टिः-मुष्टिप्रमाणा धूली, तया स्पष्टितः-स्पष्टं सूचितः, तरुस्तम्बधृतः-वृक्षकाण्डनियन्त्रितः, वनस्तम्बेरमस्तोमः-वनहस्तियूथो यासु तादृशीभिः; पुनः पर्यस्त
ल्कलभारसुखसञ्चाराभिः पर्यस्तैः-विकीर्णैः, जर्जरभूर्जवल्कलभारैः-जीर्णभोजपत्राख्यलोकप्रसिद्धवृक्षसम्बन्धिकोमलत्वपुजैः, सुखसञ्चाराभिः-अक्लेशविहारयोग्याभिः; पुनः उजिहानमञ्जिष्ठाकुरजालजालकितजलाशयोपशल्याभिः उज्जिहानैः-उद्गच्छद्भिः
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202