Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 138
________________ १२६ टिप्पनक - परागविवृतिसंवलिता । गत्वा देवीमवलोकय' इत्यभिदधानः सहैव मागधजयध्वनिकलकलेनोदतिष्ठत् [ झ ] । द्वारसंगलितसत्वराङ्गरक्षककरतलप्रचलदुत्खातखड्ग मण्डली परिगतश्च विकचनीलोत्पलवनमध्यचारी राजहंस इव गत्वा सविभ्रमं ससंभ्रमाधोरणढौकितां कुम्भपीठपातिताङ्कुशकोटिघट्टनोपविष्टामनवरतनिष्ठुराक्रोशकर्शितोत्थानयत्नां यानगजबशामग्रतोऽधिरूढेन समरकेतुना समर्पितपाणिरध्यरोहत् [ अ ] | अथोष्णीष पट्टकृतशिरोवेष्टना दृढाकृष्टकज़ुककशाधिककृशोदरश्रियः स्कन्धविन्यस्त वल्गाविह स्ताग्रवामहस्तास्त दितरकरावलम्बमानलम्बाजिनयष्टयः पादकटकप्रविष्टैकाङ्क्षिपल्लवावष्टम्भेन परिवर्धकैरपरकटका क्रान्तिनिश्चलीकृतपर्याणैरुपस्थापितान् पुरः पार्थिवा यथास्वमश्वानारुरुहु: [ ८ ] | तैश्च तरलायमानतारहारच्छटाच्छोटितवक्षःस्थलैरान्दोलितश्रवणोत्पलगलत्परागपांशुलकपोलपालिभिसहेलव्रजद्वाजिविघटमानसंघट्टमानच्छत्र धारैरागत्यागत्य परि रालोलमौलिशेखरस्खलनखलीकृतालिजालैः टिप्पनकम् - संगलिताः - मिलिताः [ अ ] । देवीं स्वमातरमित्यर्थः, अवलोकय पश्य, इति इत्थम्, अभिदधानः ब्रुवाणः, मागधजयध्वनिकलकलेन मागधानांमङ्गलपाठकानां, जयध्वनिकलकलेन - जयाकारकोलाहलेन, सहैव, उदतिष्ठत् उत्थितः, हरिवाहन इति शेषः [झ ] । च पुनः, द्वारसंगलितसत्वराङ्गरक्षककर तलप्रचलदुत्खातखड्ग मण्डलीपरिगतः द्वारसंगलितानां द्वारदेशे सम्पतितानां सम्मिलितानामिति यावत् अङ्गरक्षकाणां शरीररक्षणाधिकृत सैनिकानां करतलेषु, प्रचलन्त्या - प्रकम्पमानया, उत्खातयाउत्थापितया, खड्गमण्डल्या - कृपाणश्रेण्या, परिगतः परिवेष्टितः सन् विकचनीलोत्पलवनमध्यचारी विकसितनीलकमल - काननमध्यविहारी, राजहंस इव हंसविशेष इव सविभ्रमं सविलासं गत्वा, यानगजवशां यानरूपां - वाहनरूपां, गजवशां- हस्तिनीम्, अध्यरोहत् आरूढ़वानित्यग्रेणान्वेति कीदृशीम् ? ससम्भ्रमाधोरणढौकितां ससम्भ्रमैः सत्वरैः, आधोरणैः-हस्तिपकैः, ढौकिताम् - आनीताम् पुनः कुम्भपीठपातिताङ्कुशकोटिघट्टनोपविष्टां कुम्भपीठे - मस्तक प्रदेशे, पातितस्य, अङ्कुशस्य, कोट्या - अग्रभागेन, यद् घट्टनम् - आघातः, तेन उपविष्टाम्, पुनः अनवरतनिष्ठुराक्रोशकर्शितोत्थानयत्नाम् अनवरतं - निरन्तरं, निष्ठुरैः - कठोरैः, आक्रोशैः - भर्त्सनैः, कर्शितः- शिथिलितः, उत्थानयत्नः - उत्थानोद्यमो यस्यास्तादृशीम् । कीदृशः ? अग्रतः प्रथमम् अधिरूढेन कृतारोहणेन, समरकेतुना, समर्पितपाणिः अवलम्बनार्थं दत्तहस्तः [ अ ] । अथ अनन्तरं, पार्थिवाः तदनुगामिनोऽन्येऽपि नृपाः, यथास्वं स्वमनतिक्रम्य, स्वकीयं स्वकीयानित्यर्थः, अश्वान्, आरुरुहुः आरूढवन्तः इत्यग्रेणान्वेति । कीदृशाः ? उष्णीषपट्टकृत शिरोवेष्टनाः उष्णीषपट्टेन मस्तकावरणपटबन्धेन, कृतं शिरोवेष्टनं-मस्तकाच्छादनं यैस्तादृशाः; पुनः दृढाकृष्टकञ्चककशाधिककृशोदरश्रियः दृढं - नितान्तं यथा स्यात् तथा, आकृष्टाभ्यां - निगृहीताभ्यां कछुककशाभ्यां चोलका कृति सन्नाहाश्वताडनीभ्याम्, अधिककृशा- अत्यन्तक्षीणा, उदरश्रीः- उदरशोभा येषां तादृशाः; पुनः स्कन्धविन्यस्तवल्गा विहस्ताग्रवामहस्ताः स्कन्धविन्यस्तया - स्कन्धदेशारोपितया, वल्गया - मुखरज्वा, तद्रहणेनेत्यर्थः, विहस्तः - व्याकुलः, अग्रवामहस्तः - वामहस्ताग्रभागो येषां तादृशाः; पुनः तदितरकरावलम्बमान लम्बाजिनयष्टयः तदितरकरात् तदन्यहस्तात्, दक्षिणहस्तादित्यर्थः, अवलम्बमाना - अवनमन्ती, लम्बा-दीर्घा, अजिनयष्टिःचर्मदण्डो येषां तादृशाः; कीदृशानश्वान् ? पादकटकप्रविष्ठैकाङ्क्षिपल्लवावष्टम्भेन पादकटके -पादवलये, प्रविष्टेन एकेन, अङ्घ्रिपल्लवेन-चरणपल्लवेन, यः, अवष्टम्भः - अवरोधः, तेन अपरकटकाक्रान्तिनिश्चलीकृतपर्याणैः अपरकट काक्रान्त्या - अन्यपादवलयाक्रमणेन, निश्चलीकृतं - सुस्थिरीकृतं, पर्याणं - पृष्ठारोपितोपवेशनं यैस्तादृशैः, परिवर्धकैः अश्ववाहकैः पुरः अग्रे, उपस्थापितान् आनीतान् [ ट ] । च पुनः, तरलायमानतारहारच्छटाच्छोटितवक्षःस्थलैः तरलायमानया चपलायमानया, तारहारच्छटयाविशुद्धमौक्तिकमाल्यश्रेण्या, आच्छोटितम् - आवृतं, वक्षःस्थलम् - उरः प्रदेशो येषां तादृशैः; पुनः आन्दोलितश्रवणोत्पलगलत्परागपांशुलकपोलपालिभिः आन्दोलितेविधूते, श्रवणोत्पले कर्णकमले, ताभ्यां गलत - प्रवहत् परागपांशुलं-परागस्तस्तेन युक्ताः, कपोलपालयः-मस्तकतटप्रदेशाः ये तैः । पुनः आलोलमौलिशेखरस्खलनखलीकृतालिजालैः आलोलात् "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202