Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad
View full book text ________________
तिलकमञ्जरी
मासक्तसूक्ष्मवल्कलम्, अनिलविलुलितेन वनतरुपुष्परेणुना धूसरित सकलावयवम्, अनेकदुःखनिधानमानुष्यकद्वेषेण वृक्षतामिव लब्धुमारब्धोद्यममाधारमिव धैर्यस्य, हृदयमिव सौहृदस्य, स्वतत्त्वमिव सत्त्वस्य, परिपाकमिव पौरुषस्य, जयस्तम्भमिवावष्टम्भस्य, दृष्टान्तमित्र कष्टुंसहानाम्, सुदुस्तरव्यसनसागरविलङ्घनैकसेतुं समरकेतुम् [ग]। आलोकितमात्र एव तत्र गलितनिः शेषहृदयातङ्कभारः सहसैवाध्यासितस्वदेशमिव दृष्टसकलस्वज्ञातिलोकमिवानेक सहायशतपरिवृतमिव प्रत्यागत समस्त पूर्वानुभूतनिर्भरक्रीडा सुख समूहमिवात्मानमुद्वहन्नधिष्ठितोभयकपोलेन सिंहलेश्वरसूनुमभि सरभसप्रधावितस्य चक्षुषः प्रसरमपवारयन्तमानन्दाश्रुजलपटलमिव परिमार्ज्जुमनवरतमुत्तिष्ठता पुलकजालकेन पिशुनितान्तः प्रहर्षोदयः किसलयाग्रहस्तपर्यस्तदशमुद्विकाशकुसुमप्रकटितस्मिताभिः पूर्णपात्र संभावनयेव वारं वारमवलम्ब्यमानमासन्नवर्तिनीभिर्वनलताभिराकर्षन् कराग्रेण सत्वरमुत्तरीयसिचयाञ्चलं कदलीगृहाभ्यन्तर एव द्वित्राणि पदान्यभिमुखमगच्छत् [घ] उपसृतं च
१२३
वनतरुपुष्परेणुना वनसम्बन्धिवृक्षपुष्पधूल्या, धूसरितसकलावयवं धूसरिताः - किञ्चित्पीतश्वेतीकृताः, सकलाःसमस्ताः, अवयवाः–अङ्गानि यस्य तादृशम् । अत एव अनेकदुःखनिधानमानुष्यकद्वेषेण अनेकदुःखनिधानस्यविविधदुःखास्पदस्य, मानुष्यकस्य- मनुष्यत्वस्य, द्वेषेण-अप्रीत्या, वृक्षतां वृक्षरूपतां लब्धुमिव प्राप्तुमिव, आरब्धोद्यमं प्रवर्तितोद्योगम् । पुनः धैर्यस्य सहिष्णुतायाः, आधारमिव आश्रयमिव, पुनः सौहृदस्य सख्यस्य, हृदयमिव प्रधानाङ्गमित्र । पुनः सत्त्वस्य बलस्य, स्वतत्त्वमिव स्वकीयसारभागमिव सतत्त्वमिति पाठे वास्तविकरूपमिव । पुनः पौरुषस्य पराक्रमस्य परिपाकमिव परिणतरूपमिव । पुनः अवष्टम्भस्य दृष्टसिद्धिप्रतिबन्धस्य, जयस्तम्भमिव जयध्वजमिव । पुनः कष्ėसहानां दुःखसहनशीलानां दृष्टान्तमिव उदाहरणमिव । पुनः सुदुस्तरव्यसनसागरविलङ्घनैक सेतुं सुदुस्तरस्य-अतिदुःखेन तरीतुं शक्यस्य, व्यसनसागरस्य - कष्टसमुद्रस्य, विलङ्घने - संतरणे, एकसेतुं प्रधानसेतुभूतम् [ग] |
च पुनः, तत्र तस्मिन् समरकेताविति यावत्, आलोकितमात्र एव दृष्टमात्रे सत्येव, गलित निःशेषहृदयातङ्कभारः गलितः - पतितः, निवृत्त इत्यर्थः, निःशेषः- समस्तः, हृदयस्य - चित्तस्य, आतङ्कभार :- शङ्काभारो यस्य तादृशः; पुनः सहसैव शीघ्रमेव, अध्यासित स्वदेशमिव अध्यासितः - अधिष्ठितः, स्वस्य देशः - अयोध्या येन तादृशमिव, अत एव दृष्टसकलस्वज्ञातिलोकमिव दृष्टाः - पुनः साक्षात्कृताः सकलाः समस्ताः, ज्ञातिलोकाः - बन्धुजना येन तादृशमिव पुनः अनेकसहायशतपरिवृतमिव अनेकैः - बहुभिः सहायानां सार्थगामिनां शतैः परिवृतमिव-परिवेष्टितमिव, पुनः प्रत्यागतसमस्त पूर्वानुभूतनिर्भरक्रीडासुख समूहमिव प्रत्यागतः - परावृत्तः, समस्तः - समग्रः, पूर्वानुभूतः, निर्भरक्रीडासुखसमूहः-अतिमात्रक्रीडाजन्यानन्दसन्दोहो यस्य तादृशमिव, आत्मानं खम्, उद्वहन् धारयन्; पुनः पुलकजालकेन रोमाञ्चगणेन, पिशुनितान्तः प्रहर्षोदयः पिशुनितः - सूचितः, अन्तः प्रहर्षस्य - अन्तः प्रमोदस्य, उदयः - उद्गमो यस्य तादृशः, कीदृशेन ? अधिष्ठितोभयकपोलेन अधिष्ठितः - आश्रितः, उभयकपोलः - गण्डमण्डलद्वयं येन तादृशेन; पुनः सिंहलेश्वरसूनुं सिंहलेश्वरस्य-सिंहलद्वीपाधिपतेः, चन्द्रकेतोरिति यावत्, सूनुं पुत्रं समरकेतुम्, अभि लक्ष्यीकृत्य, सरभसप्रधावितस्य सत्वरं प्रस्थितस्य, चक्षुषः, प्रसरं व्यापारम्, अपवारयन्तं निरुन्धन्तम्, आनन्दाश्रुजलपटलम् आनन्दजन्याश्रुजलराशि, परिमाष्टुमिव विशोधयितुमिव, अनवरतं निरन्तरम्, उत्तिष्ठता उद्गच्छता, पुनः कीदृशम् ? किसलयाग्रहस्त पर्यस्तदर्श करपल्लवाग्रेण, पर्यस्ता-व्याप्ता धृतेति यावत्, दशा - अन्त्यावयवो यस्य तादृशम्, पुनः उद्विकाशकुसुमप्रकटितस्मिताभिः उद्विकाशैः-उत्–उत्कृष्टः, विकाशो येषां तादृशैः कुसुमैः प्रकटितानि - प्रकाशितानि स्मितानि - मन्दहासा याभिस्तादृशीभिः, आसन्नवर्तिनीभिः निकटस्थाभिः, वनलताभिः पूर्णपात्र सम्भावनयेव पूर्णपात्रस्य - "उत्सवेषुसुहृद्भिर्यद् बलादाकृष्य गृह्यते वस्त्रमाल्यादि तत् पूर्णपात्रं" इत्युक्तस्य, सम्भावनेव - कल्पनयेव, वारं वारं मुहुर्मुहुः, अवलम्ब्यमानम् आश्रीयमाणम्, उत्तरीयसिचयाञ्चलम् उत्तरीयवस्त्रामं, सत्वरं ससम्भ्रमम्, कराग्रेण हस्ताग्रेण, आकर्षन् लताभ्यो विश्लेषयन्, कदलीगृहाभ्यन्तर एव कदलीगृहमध्य एव, द्वित्राणि द्वे वा त्रीणि वा पदानि, अभिमुखं सम्मुखम् अगच्छत् गतवान् [घ ] |
"Aho Shrutgyanam"
Loading... Page Navigation 1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202