Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 133
________________ तिलकमञ्जरी उदारनेपथ्यसहचरीवृन्दपरिवृतया विधूयमानेन कान्त्या विलासिनीसंहत्या च विरल विरलमुज्वलहेमदण्डेन बालव्यजनक व्रजेन वीज्यमानया सखीजनोत्सङ्गनिहितनिः सहार्धदेह योद्धृतैकैकमणिवलयमात्रालङ्कारया ताम्बूलविरहोत्कलितमधुरविम्बाधररागया शरद्दिवेव चन्दनाङ्गरागपाण्डुरपयोधरया राजहंसिकयेव सरसमृणालिकाहारभूषितशरीरया [ औ ] तत्कालमेव सलिलादुद्धृतैः कमलकुमुदकुवलयमृणालैः कल्पितोपधानमब्जिनीपत्रसंस्तरमधिशयानया जगत्र्यातिशायिरूपलावण्यया नवीनवयसा नरेन्द्रकन्यया सनाथीकृतपार्श्वम् [ अं ] अङ्घ्रिपैरपि कृतोर्ध्वावस्थानैरनुजीविभिरिव परिवृतं, कदलीभिरप्यनिलदोलायितदला भिश्चामरग्राहिणीभिरिव वीज्यमानं, धरण्याप्युपरिघृतसरलकाण्डसुरपादपया गृहीतातपत्र येवोत्सङ्गितम्, अह्नापि तरुशाखान्तरप्रवेशितप्रांशुरविकरेण प्रतिपन्नकनकवेत्रेणेव प्रकटितानुभावं हरिवाहनमद्राक्षीत् [ अ ] । wwwwwm १२१ टिप्पनकम् - विधूयमानेन कान्त्या विलासिनी संहत्या च एकत्र विधूयमानेन चन्द्रायमाणेन कान्त्या, अन्यत्र प्रेर्यमाणेन विलासिनी संघातेन । शरदिवेव चन्दनाङ्गराग पाण्डुरपयोधरया चन्दनाङ्गरागवद् धवलमेघया, अन्यत्र चन्दनाङ्गरागेण धवलस्तनया । राजहंसिकयेव सरसमृणालिकाहारभूषितशरीरया एकत्र भार्द्वमृणालभोजन पुष्टदेहया, अन्यत्र सरसमृणालहारशोभितदेहया [ औ ] । कृत पार्श्व सनाथीकृतं - सहितम्, अधिष्ठितमित्यर्थः, पार्श्व - वामभागो यस्य तादृशम् कीदृश्या तया ? उदारनेपथ्यसहचरीवृन्दपरिवृतया उदारम् - उज्ज्वलम्, नेपथ्यं - कृत्रिमवेषो यस्य तादृशेन, सहचरीवृन्देन - सखीसमूहेन, परिवृतया - परिवेष्टितया; पुनः कान्त्या दीया, विधूयमानेन चन्द्रायमाणेन । च पुनः, विलासिनीसंहत्या विलासशीलाङ्गनागणेन विधूयमानेन प्रेर्यमाणेन, विरलविरलं मन्दं मन्दं यथा स्यात् तथा, उज्वलहेमदण्डेन उज्जवल सुवर्णदण्डावलम्बितेन, बालव्यजनक - व्रजेन चामरगणेन, वीज्यमानया पवनस्पर्शमाणयाः पुनः सखीजनोत्सङ्ग निहित निः सहार्धदेहया सखीजनोत्सङ्गेसखीजनकोडमध्ये, निहितः - स्थापितः, निःसहः - दुर्बलः, अर्धदेहः - देहार्धभागो यया तादृश्या; पुन; उद्धृतैकैकमणिवलयमात्रालङ्कारया विरहक्षीणबलतया उद्धृतः - करमूले परिहितः, एकैकः, मणिवलयमाल - केवलरत्नकङ्कणात्मकः, अलङ्कारःभूषणं यया तादृश्याः पुनः ताम्बूलविरहोत्कलितमधुर बिम्बाधररागया ताम्बूलविरहेण - ताम्बूलरससम्पर्कभावेन, उत्कलितः-उद्दीप्तः, मधुरः - दृष्टिप्रियः, स्वाभाविक माधुर्य रससम्भृतस्य वा, बिम्बाधरस्य - बिम्बफल तुल्यरक्तोष्ठद्रयस्य, रागः- रक्तता यस्यास्तादृश्या; पुनः शरद्दिवेव शरदृतुसम्बन्धिदिनश्रियेव, चन्दनाङ्गरागपाण्डुरपयोधरया चन्दनाङ्गरागेण - चन्दनद्रवः रूपाङ्गोपलेपनद्रव्येण, पाण्डुरौ - किञ्चित्पीतश्वेतवर्णी, पयोधरौ - स्तनौ यस्यास्तादृश्या, पक्षे चन्दनाङ्गरागवत्, पाण्डुरः- धवलः, पयोधरः–मेघो यस्यां तादृश्या; पुनः राजहंसिकयेव रक्तचरणचञ्चुकहंस्येव, सरसमृणालिकाहारभूषितशरीरया विरहानिशान्तये सरसानाम् आर्द्राणां मृणालिकानां - बिसलतानां, हारेण-माल्येन, पक्षे आहारेण-भक्षणेन, भूषितं शोभितं, पक्षे पुष्टं शरीरं यस्यास्तादृश्या; [ औ ] तत्कालमेव तत्क्षणमेव, सलिलात् जलात्, उद्धृतैः ऊर्ध्वमानीतैः, कमल-कुमुदकुवलयमृणालैः कमलस्य - साधारणपद्मस्य, कुमुदस्य - श्वेतपद्मस्य, कुत्रलयस्य- नीलपद्मस्य, मृणालैः - बिसतन्तुभिः, कल्पितोपधानं कल्पितं - रचितम् उपधानं शयन कालिकशिरोभागारोपणस्थानं यत्र तादृशम्, अजिनीपत्र संस्तरं कमलिनीपत्रशय्याम्, अधिशयानया स्वपत्या; जगत्रयातिशायिरूपलावण्यया जगत्रयातिशायि-भुवनत्रयोत्कृष्टं, रूपलावण्यंस्वरूपसौन्दर्यं यस्यास्तादृश्याः पुनः नवीनवयसा यौवनावस्थया [ अ ] । पुनः कीदृशम् ? अनुजीविभिरिव भृत्यैरिव, कृतोर्ध्वावस्थानैः ऊर्ध्वमवस्थितैः, अङ्गिपैरपि वृक्षैरपि परिवृतं परिवेष्टितम् । पुनः अनिलदोलायितदलाभिः, अनिलेन - वायुना, दोलायितानि - उत्क्षिप्तानि, दलानि - पत्राणि यासां तादृशीभिः कदलीभिरपि पुनः चामरग्राहिणीभिरिवेत्युत्प्रेक्षा, वीज्यमानं पवनेन सम्पर्च्यमानम् । पुनः उपरिधृतसरलकाण्डसुरपादपया उपरिधृतः, सरलकाण्डः - सरलः - ऋजुः, काण्डः - स्कन्धो यस्य तादृशः, सुरपादपः- देववृक्षः पारिजात इत्यर्थः, यया तादृश्या, धरण्यापि पृथिव्यापि, गृहीतातपत्रयेव धृतच्छायेव, उत्सङ्गितं स्वकोडे स्थापितम् । पुनः तरुशाखान्तरप्रवेशित प्रांशुरविकरेण तरुशाखान्तरे - वृक्षशाखामध्ये, प्रवेशितः, प्रांशुः - उन्नतः, रविकरः- सूर्यकिरणो येन तादृशेन, अह्नापि दिनेनापि, प्रतिपन्नकनकवेत्रेणेव गृहीतसुवर्णदण्डेनेव, प्रकटितानुभावं प्रकटितः - प्रदर्शितः, अनुभावः- प्रभावो यस्य तादृशम् [ अ ] । १६ तिलक० "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202