Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 132
________________ १२० टिप्पनक- परागविवृतिसंवलिता । स्त्यानतां गते पृथुनि कुरुविन्दमणिशिलातले निषण्णम्, अच्छशिशिरेण शैलेन्द्रमिव हिमद्रवेण चन्द्रातपरुचा दिव्यचन्दनेनापादमनुलिप्तम्, अतिविमलघनसूत्रेण संख्यानशास्त्रेणेव नवदशालङ्कृतेन श्वेतचीनवस्त्रद्वयेन संवीतम् [ ए ] अखिलदेहाभरणमणिसंक्रान्ताभिरासन्नचामरग्राहिणी प्रतिमाभिर्विद्यादेवताभिरिव सद्यः साधिताभिः सर्वतोऽधिष्ठितशरीरम्, आनाभिलम्बमभिनवं मौक्तिकप्रालम्बमद्याप्यशुष्कमभिषेकवारिकणकला वि हेमाचलशिलाविशालेन वक्षसा धारयन्तम् [ ऐ] निसर्गनिर्मला लोकाभ्यामभिनवं नयमार्गमुपदेष्टुममरगुरुभार्गवाभ्यामिवोपगताभ्यामिन्दुमणिकुण्डलाभ्यामाश्रितोभयश्रवणम्, अलिकतटसङ्गिना विततभास्वरेण कनकपट्टबन्धेन वलयितमुत्तमं मणिमुकुटमरिकुलविनाशार्थमुद्गतं तपनमण्डलमिव सपरिवेषमुत्तमाङ्गस्थमुद्रहन्तम्, इतस्ततः प्रहिततरलतारका भिर्दिग्भिरिव सेवागताभिश्चतसृभिर्वारवनिताभिरुद्धूयमानचामरम् [ओ] टिप्पणकम् — कुरुविन्दः- पद्मरागमणिः । संख्यानशास्त्रेणेव नवदशालङ्कृतेन श्वेतची नवस्त्रद्वयेन संवीतम् संवेष्टितम्, एकन्न नवदशाङ्ककशोभितेन, अन्यत्र नूतन दशिकाराजितेन, संख्यानशास्त्रं - गणितशास्त्रम् [ ए ] । अलिकं-ललाटम् [ओ ] | इत्यग्रेणान्वेति । कीदृशम् ? कुरुविन्दमणिशिलातले पद्मरागमणिमयशिलोपरि, निषण्णम् उपविष्टम् कीदृशे ? अमलांशुकाच्छादिते निर्मलसूक्ष्म श्लक्ष्णवस्त्रास्तीर्णे, पुनः किंशुकच्छविनि पलाशकुसुमसदृशरक्त कान्तिशालिनि, अत एव स्त्यानतां संहतावस्थां गते प्राप्ते, चरणारविन्दरुचिसन्तान इव चरणकमलकान्तिकला पश्चेत्युत्प्रेक्षा, पुनः पृथुनि विशाले । पुनः कीदृशम् ? हिमद्रवेण प्रालेयपङ्केन, शैलेन्द्रमिव हिमालयमिव, अच्छशिशिरेण धवलशीतलेन, चन्द्रातपरुचा चन्द्रकिरणकान्तिशालिना, दिव्यचन्दनेन स्वर्गीयचन्दनेन, चन्दनोत्तमेनेत्यर्थः, आपादं चरणपर्यन्तम्, अनुलिप्तम् कृतानुलेपनम् । पुनः अतिविमलघनसूत्रेण अतिविमलधनानि - अत्यन्तस्वच्छसान्द्राणि, सूत्राणि - तन्तवो यस्मिंस्तादृशेन, पुनः संख्यानशास्त्रेणेव गणितशास्त्रेणेव, नवदशालङ्कृतेन नवीनदशिकाशोभितेन, पक्षे नव-दशाङ्ककशोभितेन, श्वेतची नवस्त्रद्वयेन चीनदेशोद्भवधवलसूक्ष्मश्लक्ष्णवस्त्रयुगलेन, संवीतम् आवृताम् [ ए ] । पुनः अखिलदेहाभरणमणिसंक्रान्ताभिः शरीरालङ्करणभूताशेषमणिप्रविष्टाभिः आसन्नचामरग्राहिणीप्रतिमाभिः सन्निहितचामरधारिणीजनप्रतिबिम्बैः सद्यःसाधिताभिः तत्कालोपासनाप्रमोदिताभिः, देवताभिरिव विद्याधिष्ठातृदेवताभिरिव सर्वतः सर्वावयवावच्छेदेन, अधि.. ष्ठितशरीरं व्याप्तदेहम् । पुनः आनाभिलम्बं नाभिपर्यन्तं लम्बमानं पुनः अभिनवं नवीनं, मौक्तिकप्रालम्बं मुक्तामणिमयं कण्ठाधस्तादृग्लम्बि माल्यम्, अद्यापि अधुनापि, अशुष्कं शुष्कतामनापन्नम्, अभिषेकवारिकणाकलापमिव विद्याधरचक्रवर्तिपदाधिरोहणकालिकाभिषेकजलबिन्दुसन्दोहमिव, हेमा चलशिलाविशालेन सुमेरुशिला तुल्यविस्तारेण, वक्षसा उरःस्थलेन, धारयन्तं परिदधानम् [ ऐ ] । पुनः निसर्गनिर्मला लोकाभ्यां निसर्गेण - प्रकृत्या, निर्मल:- स्वच्छ:, आलोकः-प्रकाशो ययोस्तादृशाभ्याम्, अभिनवं नूतनं, नयमार्गं नीतिपथम् उपदेष्टुं शिक्षयितुम्, उपगताभ्यां कर्णान्तिकमागताभ्याम्, अमरगुरु भार्गवाभ्यामिव बृहस्पति शुक्राभ्यामिव, इन्दुमणिकुण्डलाभ्यां चन्द्रकान्तमणिमयकुण्डलाभ्याम्, आश्रितोभयश्रवणम् आश्रितम् - अधिष्ठितं विभूषितमिति यावत्, उभयं दक्षिणं वामं च, श्रवणं कर्णो यस्य तादृशम् । पुनः अलिकतटसङ्गिना ललाटप्रान्तलम्बिना, विततभास्वरेण विस्तृतद्युतिशालिना, कनकपट्टबन्धेन सुवर्णमयपट्टबन्धेन, वलयितं वेष्टितम् उत्तमम् उत्कृष्टम्, मणिमुकुटं मणिमय किरीटम्, अरिकुलविनाशार्थं वैरिवर्गविध्वंमनार्थम्, उद्गतम् उदितम्, पुनः सपरिवेषं परिवेषेण - उत्पातात्मकसूर्यतेजोमण्डलेन, सहितम्, उत्तमाङ्गस्थं मस्तकवर्ति, तपनमण्डलमिव सूर्यबिम्बमिव उद्वहन्तम् उपरि धारयन्तम् । पुनः इतस्ततः अत्र तत्र, प्रहिततरलतारकाभिः प्रहिताः - प्रक्षिप्ताः, तरला - चञ्चलाः, तारकाः-तारा याभिस्तादृशीभिः दिग्भिरिव प्राच्यादिचतुर्दिग्भिरिव, सेवागताभिः निषेवणार्थमुपस्थिताभिः, चतसृभिः चतुः संख्यिकाभिः, वारवनिताभिः वेश्याभिः उद्भूयमानचामरम् उद्धूयमानम्उद्वेल्यमानं, चामरं यस्मिंस्तादृशम् [ अ ] । पुनः कीदृशम् ? नरेन्द्रकन्यया विद्याधरराजकन्यया तिलकमञ्जर्या, सनाथी "Aho Shrutgyanam" ·

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202