Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 130
________________ ११८ टिप्पनक-परागविवृतिसंवलिता । संघातमिव नभसः शर्वरी विरह विनोदनागतम् [उ] अनिलसङ्गतरला भिरुष्णसमयमवजित्यावर्जिताभिर्वैजयन्तीविततिभिरिव प्रान्तपातितपनपादच्छेदनवाञ्छया व्यापारिताभिः परश्वधपरम्पराभिरिव पत्रराजिभिरव्यज्यमानविवराभिर्विराजितम् [ऊ] अविरतारब्धवारिच्छटासेककिङ्करपुरुषमध्यपतितेन शतपत्रकोशरजःकषायमुदकशीकरनिकरमादाय पुनरुक्तमापतता पर्यन्तसरसीसमीरणेन कौतुकादिव चतुर्दिशमुपसिच्यमानम् , उपरचितसिन्दूरकुट्टिमकमनीयाभ्यन्तरम् [ऋ] अन्तःप्ररूढस्य किञ्चिदारूढप्रौढेरुगाढसौकुमार्यावलीढसुदृढमूलस्य मूलभागकल्पितेनानल्पीयसा कार्तस्वरशिलापीठबन्धेन महार्हसिंहासनेनेव यथार्थीकृतसकलवनस्पत्याधिपत्यस्य प्रवालभङ्गमुग्धस्निग्धपल्लवालङ्कृतस्य मरकतहरितहारिपत्रनिवहनिवारितदिनेशदीधितिप्रवेशविशदच्छायस्य विसारिसौरभाहृताभिरपहायोपवनपादपानुपसर्पन्तीभिर्मदान्धमधुपधोरणीभिरहमहमिकयेव विलुप्यमानमञ्जरीजालकस्य मुनिजनमनःस्खलितमार्गणप्रसरामर्षितेन कुसुमधनुषासकृत्सायकीकृतकुसुमस्य दक्षिण रथाधिष्ठितध्वजः, तन्निकुरम्ब-तत्समूहमिवः पुनः वीचिविघट्टनभ्रष्टं वीचिभिः-तरङ्गैः, विघटनेन-आघातेन, भ्रष्ट-पतितम् , बरमन्दाकिनीजम्बालकटमिव आकाशगङ्गाशैवालपुञ्जमिव; पुनः नमसः आकाशात् , शर्वरीविरहविनोदनागतं शर्वर्याः-रात्र्याः , यः, विरहः-विश्लेषः, तद्विनोदनाय-तन्निवारणाय, ३.वरीसम्पादनायेत्यर्थः, आगतम्-आपतितम् , अभ्रसमयध्वान्तसंघातमिव मेघकालिकान्धकारराशिमिवेत्युत्प्रेक्षा [3] । पुनः पत्रराजिभिः दलावलिभिः, विराजितं विशोभितम् , कीदृशीभिः ? अनिलसङ्गतरलाभिः पवनाघातचञ्चलाभिः, अत एव उष्णसमयं ग्रीष्मकालम् , अवजित्य पराजित्य, आवर्जिताभिः वर्षाकालेनावनमिताभिः, वैजयन्तीविततिभिरिव विजयपताकापरम्पराभिरिव, पुनः प्रान्तपातितपनपादच्छेदनवाञ्छया प्रान्तपातिनः-स्वनिकटाक्रामिणः, तपनस्य-सूर्यस्य, पादच्छेदनवाञ्छया-किरणकर्तनाकाङ्कया, व्यापारिताभिः-विक्षिप्ताभिः परश्वधपरम्पराभिरिव कुठारपतिभिरिव, पुनः अव्यज्यमानविवराभिः अलक्ष्यमाणान्तराभिः, सान्द्राभिरित्यर्थः । पुनः कीदृशम् ? पर्यन्तसरसीसमीरणेन प्रान्तस्यन्दिमहासरःपवनेन, कौतुकादिव खोत्कटस्नेहादिव, चतुर्दिशं परितः, उपसिच्यमानम्-आर्द्रतामापाद्यमानम् , कीदृशेन ? अविरतारब्धवारिच्छटासेककिङ्करपुरुषमध्यपतितेन अविरतं-निरन्तरम् , आरब्धः-प्रवर्तितः, वारिच्छटाभिः-जलधाराभिः, सेकः-क्षरणं यैस्तादृशानां, किङ्करपुरुषाणां-भृत्यजनानां, सेचनकर्मनियुक्तजनानामित्यर्थः, मध्यपतितेन-निपत्योपस्थितेन, शतपत्रकोशरज:कषायं शतपत्राणां-कमलानां, कोशेषु-वुङ्गलेषु, यानि रजांसि-पुष्परेणवः, तैः कषायं-किञ्चिद्रक्तम् , उदकशीकरनिकरं जलकणगणम् , आदाय गृहीत्वा, पुनरुक्तं पुनः पुनः, आपतता आगच्छता, वहतेत्यर्थः । पुनः कीदृशम् ? उपरचित । सिन्दूरकुट्टिमकमनीयाभ्यन्तरम् उपरचितेन-निर्मितेन, सिन्दूरकुट्टिमेन-रक्तमणिबद्धभूम्या, कमनीयं-मनोहरम् , अभ्यन्तर-मध्यं यस्य तादृशम् [ऋ] । पुनः कीदृशम् ? पारिजातकतरोः पारिजातकाख्यदिव्यवृक्षस्य, शाखाततिभिः शाखासमूहैः, समन्ततः सर्वतः, स्थगितम् आवृतम् , कीदृशस्य? अन्तःप्ररूढस्य अभ्यन्ताङ्कुरितस्य, पुनः किञ्चिदारूढ़प्रौढेः किञ्चिदारूढा--किञ्चिदवाप्ता, प्रौढिः-प्रागल्भ्य, तारुण्य मित्यर्थः येन तादृशस्य, पुनः उद्दाढसौकुमार्यावलीढदृढमूलस्य उद्गाढेन-अत्यन्तेन, सौकुमार्येण-मार्दवेन, अवलीढम्-आक्रान्तं, दृढं मूलं यस्य तादृशस्य, पुनः महार्हसिंहासनेनेव प्रशस्तनृपासनेनेव, मूलभागकल्पितेन अधोभागरचितेन, अनल्पीयसा अत्यन्तबृहदाकारेण, कार्तस्वरशिलापीठबन्धेन सुवर्णमयशिलाफलकबन्धेन, यथार्थीकृतसकलवनस्पत्याधिपत्यस्य यथार्थीकृतं-सार्थकीकृतं, सकलवनस्पतीनां समस्तवृक्षाणाम् , आधिपत्यम्-अधिपतित्वं यस्य तादृशस्य, पुनः प्रवालभङ्गमुग्धस्निग्धपल्लवालकृतस्य प्रवालभङ्गवत्-विद्रुमखण्डवत् , मुग्धैः-सुन्दरैः, रक्तरित्यर्थः, स्निग्धैः-सरसैः, पल्लवैः-अभिनवदलैः, अलङ्कृतस्य-विभूषितस्य, पुनः मरकतहरितहारिपत्रनिवहनिवारितदिनेशदीधितिप्रवेशविशदच्छायस्य मरकतस्य-तदाख्यहरितमणेः, यः हरितः-हरितकान्तिः, तद्धारिणा-तदपहारिणा, पत्रनिवहेन-पत्रगणेन, निवारितः-निरुद्धः, दिनेशदीधितीनां-सूर्यकिरणानां, प्रवेशो यस्यां तादृशी, विशदास्वच्छा, छाया यस्य तादृशस्य, पुनः विसारिसौरभाहृताभिः विसारिभिः-विस्तारिभिः, सौरभैः-सुगन्धैः, आहृताभिःआकृष्टाभिः, उपवनपादपान् उद्यानवृक्षान् , अपहाय त्यक्त्वा, उपसर्पन्तीभिः आपतन्तीभिः, अहमहमिकयेव परस्पर्धयेव, विलुप्यमानमञ्जरीजालकस्य विलुप्यमानं-विच्छिद्यमानं, मञ्जरीजालं-मञ्जरीपुञ्जो यस्य तादृशस्य, पुनः "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202