Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 94
________________ ८२ टिप्पनक-परागविवृतिसंवलिता। मुत्तीर्णश्रममुल्लसितसविशेषोत्साहमध्वक्षमं वर्तते वपुः, तरुणदूर्वाप्रतानसुकुमारसमतलाश्च मार्गभूमयः, प्रावृषेण्यजलदश्यामलानि च पुरस्ताद् विभाव्यन्ते पादपवनानि, प्रसन्नदिङ्मुखो मन्दपवनश्वानन्दशंसी चाद्यतनो वासरः, सरःपरपारदर्शनौत्सुक्यपरवशं च मानसम् , न चाद्यापि तिलकयति मध्यभागमम्बरश्रियो वासरमणिः, अनारूढप्रौढयश्च नातिगाढमुद्वैजयन्ति धर्मोर्मयः [फ] । तद् गच्छामि तावत् कियन्तमप्यध्वानम् , पश्चात् कठोरतामुपेयुषि वासरे कस्मिंश्चित् प्रच्छायपादपे सरसि वा शैलप्रस्रवणे वा गिरिनदीस्रोतसि वा तापसाश्रमपदे वा विश्रम्य विस्रब्धनिर्वर्तितदेवतार्चनविधिर्विदग्धकविप्रबन्धैरिव परिपाकमधुरैर्विविधरसशालिभिस्तरुफलैराप्यायितवपुर्दिवसमवलोक्य स्तोकमग्रतः प्रस्थास्ये स्थास्यामि वा' [ब] । इति कृतगमननिश्चयः प्रविश्य भूयो लतावेश्मनि निबिडीकृतपरिधानो दृढावनद्धस्नानविरलकेश टिप्पनकम्-विदग्धकविप्रबन्धैरिव परिपाकमधुरैर्विविधरसशालिभिस्तरुफलैराप्यायितवपुः एकत्र परिणतिमाधुर्ययुक्तैः, अन्यत्र परिपक्वमधुरैः, विविधशृङ्गारादिरसंशोभिभिः, अन्यत्र नानामधुराम्लादिरसयुक्तैः [व] । चितम् । सम्प्रति अधुना, वपुः शरीरम् , अध्वक्षम मार्गगमनश्रमसहं, वर्तते अस्ति, कीदृशम् ? विरतसन्तापं निरुक्तसरोवरमजनेन निवृत्तसन्तापम् , पुनः उपशान्तशोषं उपशान्तः-निवृत्तः, शोषः-दौर्बल्यं यस्मिस्तादृशम् , पुनः उत्तीर्णश्रमम् उत्तीर्णः-अपनीतः, श्रमः-मार्गोल्लङ्घनजन्यखेदो यस्य येन वा तादृशम् , पुनः उल्लसितसविशेषोत्साहम् उल्लसितः-उद्भुतः, सविशेषः-अत्यन्तः, उत्साहो यस्मिंस्तादृशम् ।च पुनः, तरुणदूर्वाप्रतानसुकुमारसमतला तरुणानां-परिणताना, दूर्वाणांशतपत्रिकाख्यतृणविशेषाणां, प्रतानेन-विस्तारेण, सुकुमार-कोमलं, समतलं-निम्नोन्नतभावरहितस्थलं यासु तादृश्यः, मागेभमय: मार्गक्षेत्राणि, वर्तन्त इति शेषः । च पुनः, पुरस्तात् अग्रे, प्रावृषेण्यजलदश्यामलानि प्रावृषेण्याः-प्रावृषि वर्षाकाले भवाः, ये जलदाः- मेघाः, तद्वत् श्यामलानि-कृष्णवर्णानि, पादपवनानि-वृक्षपतयः, विभाव्यन्ते लक्ष्यन्ते । च पुनः, अद्यतनः अद्यभवः, अयमित्यर्थः, वासरः दिवसः, प्रसन्नदिङ्मुखः प्रसन्नानि-विमलानि, दिङ्मुखानि-दिगग्राणि यस्मिस्तादृशः, पुनः मन्दपवनः मन्दः-धीरः, पवनः-वायुर्यस्मिन् तादृशः, च पुनः, आनन्दशंसी आनन्दसूचकः, वर्तत इति शेषः । च पुनः, मानसं हृदयं, सरःपरपारदर्शनौत्सुक्यपरवशं सरसः -प्रकृतसरोवरस्य, यः परः-अन्तिमः, पार:-अवधिः, तद्दर्शनौत्सुक्यस्य-तद्दर्शनोत्कण्ठायाः, परवशं-पराधीनं, वर्तत इति शेषः । च पुनः, वासरमणिः सूर्यः, अद्यापि अधुनापि, अम्बरश्रियः आकाशलक्ष्म्याः , मध्यभागं मध्यप्रदेश, न तिलकयति स्वबिम्बात्मकेन तिलकेनोद्भासयति, नोदेतीत्यर्थः । च पुनः, अनारूढप्रौढयः अनारूढाः-अनुत्पन्नाः, प्रौढ़यः-उत्कर्षाः, असह्यता इत्यर्थः, यासां ता धर्मोमयः,-खेदधाराः, अतिगाढं अत्यधिकं, न उद्धेजयन्ति दुःखाकुर्वन्ति [फ] । तत् तस्माद्धेतोः, तावदिति वाक्यालङ्कारे, कियन्तमपि अल्पमपि, अध्वानं मार्ग, गच्छामि लङ्घयामि । पश्चात् कियत्कालानन्तरं, वासरे दिवसे, कठोरतां आतपतीव्रताम् , उपेयुषि प्राप्तवति सति, कस्मिंश्चित्, प्रच्छायपादपे प्रच्छाये-प्रकृष्टा छाया-अनातपो यस्य तादृशे, पादपे-वृक्षे, तस्याधस्तादित्यर्थः, वा अथवा, सरसि कासारे, वा अथवा, शैलप्रस्रवणे पर्वतनिझरे, वा अथवा, गिरिनदीस्रोतसि पर्वतीयनदीप्रवाहे, वा अथवा, तापसाश्रमपदे तपखिनामाश्रमस्थाने, विश्रम्य श्रममपनीय, विस्रब्धनिर्वर्तितदेवतार्चनविधिः विस्रब्धं-विश्वस्त यथा स्यात् तथा, निर्वर्तितः-सम्पादितः, देवतार्चनरूपः-देवपूजनरूपः, विधिः-कार्य येन तादृशः सन् , विदग्धकविप्रबन्धैरिव विदग्धानां-कुशलानां, कवीनां, प्रबन्धैः-काव्यैरिव, परिपाकमधुरैः परिपाके-परिपक्वतायां, मधुरैः, पक्षे परिपाके-रसास्वाददशायां, मधुरैः-मनोहरैः, विविधरसशालिभिः मधुराम्लाद्यनेकरसशोभिभिः, पक्षे शृङ्गारादिनानारसाभिव्यञ्जकैः, तरुफलैः वृक्षफलैः, आप्यायितवपुः आप्यायितं-परितोषितं, वपुः-शरीरं येन तादृशः, दिवसं दिनशेषम् , अवलोक्य दृष्ट्वा, अग्रतः अग्रे, स्तोकं किञ्चित् , प्रस्थास्ये प्रयास्यामि, वा अथवा, स्थास्यामि तदवसाने प्रस्थानादुपरस्यामि, [ब]। इति इत्थं, कृतगमननिश्चयः कृतप्रयाणावधारणः सन् , भूयः पुनः, लतावेश्मनि माधवीलतामन्दिरे, प्रविश्य निलीय, निबिडीकृतपरिधानः निबिडीकृत-सान्द्रीकृतं, दृढीकृतमित्यर्थः, परिधानम्-अन्तरीयवस्त्रं येन तादृशः; पुनः दृढावनद्धस्नान "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202