Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 100
________________ ८८ टिप्पनक - परागविवृतिसंवलिता । धवलं च, आपानगोष्टीबन्धमिव मधुकरका मोदितमामत्तनानामधुपमण्डलीमुखरितं च, कश्मीरमण्डलमिव विकसत्कुङ्कुमकच्छकमनीयमनेककीरप्रामानुगतं च, वातरोगोपहतमिव बहुगुल्मसंकुलोदरं श्यामलताक्रान्तं च, सर इवोत्पलाशमल्लिकाक्ष मुरुतरलह रिसेवितं च [ क्ष ], पादपैरपि पवनकम्प्र शिखरैर्विस्मयचलितमौलिभिरिव निर्वर्ण्यमानं, लताभिरपि विकसितस्तबकाभिः कौतुकोत्तानलोचनाभिरिव विलोक्यमानं, विटपैरपि विततपल्लवान्तरितरविकर प्रवेशैरीर्ष्याप्रसारितकरसह सैरिव त्रियमाणम्, ऋतुभिरपि दर्शितनिज निजद्रुमकुसुम टिप्पनकम्-अम्भोधिमथनमिव सुरभिपारिजातोद्गमसुभगमुत्सर्पितगरं च एकत्र सुरभिगावी - पारिजातवृक्षोत्थानचारु उद्गतविषं च अन्यत्र सुगन्धिपारिजातकुसुमशोभनम् उद्गच्छत्तगरवृक्षं च । त्र्यम्बकोत्तमाङ्गमिव पतत्रिमार्गाङ्कितमध्यमानीलना गलतावनद्धबालपूगं च एकत्र पतङ्गाचिह्नितमध्यं कृष्णफणिलताबद्ध केशसंघातं च, अन्यत्र पक्षिपथाङ्कितमध्यम्, आनीलनागवल्लीश्लिष्टबालपूगवृक्षं च । कामिनीकपोलतलमिव पत्रलतालीकृतच्छायमुद्यन्मधूकधवलं च एकत्र पत्र वेल्या सखीविहितशोभं विकसन्मधूककुसुमगौरं च, अन्यत्र पर्णवत्तालीतरुकृता तपाभावम्, उद्गच्छन्मधूकावदातम् । आपानगोष्ठीबन्धमिव मधुकरकामोदितमामत्तमधुपमण्डली मुखरितं च एकत्र मद्यवार्धटिकावत्, ईषत्क्षीव मद्यपगोष्टीप्राप्त मुखरत्वं च, अन्यत्र भ्रमरानाङ्गमङ्ग (?) [ नङ्ग–भङ्ग ] रुतं क्षीवभ्रमरसंघातमुखरितं च। कश्मीरमण्डलमिव विकसत्कुङ्कुमकच्छ कमनीयमनेक की रग्रामानुगतं च एकत्र विकासि कुङ्कुमगहनप्रदेशरमणीयं कीराख्यजनसंबन्धिसंवसथयुक्तं च, अन्यत्राप्येकं विशेषणं समानार्थं, नानाशुकसंघातसंयुक्तं च । वातरोगोपहतमिव बहुगुल्मसंकुलोदरं श्यामलताक्रान्तं च एकत्र लतागुल्मरोगव्याप्तजठरं श्यामत्वव्याप्तं च, अन्यत्र अनेकलता संघाताकीर्णमध्यं प्रियङ्गुलताव्याप्तं चम्पकादिलताक्रान्तं च वा । सर इवोत्पलाशमल्लिकाक्षमुरुतरलहरिसेवितं च एकत्र प्रबलमांसाशिहंसम् विस्तीर्णचञ्चलमण्डूकसेवितं च, विस्तीर्णतरजललहरियुक्तं च वा, अन्यत्र उद्गतत्रिपर्णविचकिलबिभीतकवृक्षं महाचञ्चलवानरसेवितं च [क्ष ] । 3 धवलं- गौरम् ; पुनः आपानगोष्ठीबन्धमिव सुरापानसमासन्निवेशमिव, मधुकर कामोदितं मधुभिः - मधूकैः, करकैः - दाडिमैश्व पक्षे मधुकरकैः - मद्यपात्रविशेषैः, आमोदितं - गन्धाढ्यीकृतम्, यद्वा मधुकराणां भ्रमराणां, कामोदितं - स्वेच्छया ध्वनिर्यत्र तादृशम्, च पुनः, आमन्तनानामधुपमण्डलीमुखरितम् आमत्तानाम् - उन्मत्तानां नानामधुपानां - नानाभ्रमराणां, पक्षे नानामद्यपायिनां मण्डल्या-समूहेन, मुखरितं - वाचालितम्, पुनः कश्मीरमण्डलमिव कश्मीराख्य प्रदेशमिव, विकसत्कुङ्कुमकच्छकमनीयं विकसन्ति- फुल्लन्ति, कुङ्कुमानि तदाख्यप्रसिद्धौषधयो यस्मिंस्तादृशेन, कच्छेन - जलप्रायप्रदेशेन, कमनीयं रमणीयम्, च पुनः अनेककीरग्रामानुगतम् अनेकेषां-बहूनां, कीराणां - शुकानां, लतानां वा यो ग्रामः समूहः तेन अनुगतम्अनुबद्धम्, पक्षे अनेकैः - बहुभिः, कीराणां - कीराख्यजनानां, ग्रामैः - संवसथैः, अनुगतं सहितम्; पुनः वातरोगोपहतमिव वातव्याधिकवलितमिव, बहुगुल्म संकुलोदरम् बहुभिः, गुल्मैः - अप्रकाण्डतरुभिः संकुलं व्याप्तम्, उदरं - मध्यं यस्य, पक्षे गुल्मेन - वातगुल्माख्येन व्याधिना, संकुलम्, उदरं जठरं यस्य तादृशम्, च पुनः, श्यामलताक्रान्तं श्यामलताभिः -श्यामाख्याभिर्लताभिः, पक्षे श्यामलतया - श्यामवर्णेन, आक्रान्तं - व्याप्तम् पुनः सर इव कासारमिव, उत्पलाशमल्लिकाक्षम् उत् - ऊर्ध्वं, पलाशानि - पत्राणि यासां तादृश्यः, मल्लिकाः - पुष्पविशेषलताः, अक्षाः - बिभीतकवृक्षाः सूक्ष्मैलका वृक्षा वा यस्मिंस्तादृशम्, यद्वा उतू - उद्गताः, पलाशाः - किंशुकवृक्षाः, मल्लिकाः - निरुक्तलताः, अक्षाः - बिभीतका यस्मिंस्तादृशम्, पक्षे उत्पलानि - कमलानि, अश्नन्ति - भुञ्जन्ते ये ते उत्पलाशाः, यद्वा उत्- प्राबल्येन पलाशं -मांस ये अश्नन्ति तादृशा मल्लिकाक्षा: हंसविशेषा यस्मिंस्तादृशम्, च पुनः, उरुतरलहरिसेवितम् उरुभिः - बहुभिः, तरलैः - चञ्चलैः, हरिभिः - मर्कटैः, पक्षे उरुतराभिः - बहुतराभिः, लहरिभिः-महातरङ्गैः सेवितं - व्याप्तम् [क्ष ] । पुनः पवनकम्प्रशिखरैः पवनेन - वायुना, कम्प्रं- कम्पनशीलं, शिखरं-शिरोभागो येषां तादृशैः पादपैरपि वृक्षैरपि, विस्मयचलितमौलिभिरिव विस्मयेन - सौन्दर्यदर्शनाश्चर्येण, चलितःकम्पितः, मौलिः - मस्तकं येषां तादृशैरिव, निर्वर्ण्यमानं निरीक्ष्यमाणम् ; पुनः विकसितस्तबकाभिः पुष्पितगुच्छाभिः, लताभिरपि कौतुकोत्तानलोचनाभिरिव कौतुकेन - दिदृक्षारसेन, उत्ताने - उन्मीलिते, लोचने - नयने यासां तादृशीभिरिव, विलोक्यमानं दृश्यमानम् ; पुनः विततपल्लवान्तरितरविकर प्रवेशैः विततैः - विस्तृतैः, पलवैः - नूतनदलैः, अन्तरितः "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202