Book Title: Tilakamanjiri Part 3
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 118
________________ टिप्पनक-परागविवृतिसंवलिता। न जाने वयस्यः केदानीं वर्तते, इत्यादिचिन्ताव्याक्षिप्तचेतस एवास्य सुरासुरवृन्दनिर्दयाकर्षणभ्रमन्मन्दरतटाच्छोटनसमुच्छलदमृतशीकरासारशिशिरस्तर्पयन्निवादयन्निव हृदयमतिशयपेशलो ध्वनिरतर्कितव्यक्तिरेव श्रवणकन्दरे मन्दमन्दमविशत् [न]। उपजातसंभ्रान्तिना च मानसेन तस्य शब्दस्य दत्तकर्णः स्तम्भित इवोत्कीर्ण इव लिखित इव निश्चलसर्वाङ्गः क्षणमात्रं सिंहलराजपुत्रः स्थितवान् । अथ सहसैवोद्भिद्यमानपुलकाश्चितकपोलभित्तिना विलोललोचनोत्पलेन मुखशशिना प्रकाश्यमानाधिकसंभ्रमः समचिन्तयत् - 'हन्त, किमिदमकाण्ड एवापरमाश्चर्यमुपनतं यतः कचिदत्र केनापि कलकण्ठकोमलगिरा श्लोक इव पठ्यते, तत्र च हरिवाहनशब्द इवोच्चार्यमाणः श्रूयते, क एष हरिवाहनः । किं वयस्यः ? आहोस्विद् वयस्यनामधेयाभिधेयः कोऽप्यपरः ? कुतोऽत्र ययस्यस्य संभवः, प्रायः केनापि करुणापराधीनवृत्तिना दिव्येन ममेदमाश्वासनं क्रियते, कृतमलीकविकल्पकल्पनाभिर्मनसा खेदितेन, पश्यामि तावत् कः पुनरेष पठति [प], इति कृत्वा मति निश्चिनोमि, वयस्यः सखा हरिवाहनः, इदानीम् अधुना, क्व कस्मिन् स्थाने, वर्तते तिष्ठति । इत्यादिचिन्ताव्याक्षिप्तचेतस एव इत्यादिभिः-ईदृशीभिः, चिन्ताभिः-आलोचनाभिः, व्याक्षिप्त-व्याकुलीकृतं, चेतः-चित्तं यस्य तादृशस्यैव, अस्य समरकेतोः, श्रवणकन्दरे कर्णविवरे, सुरासुरवृन्दनिर्दयाकर्षणभ्रमन्मन्दरतटाच्छोटनसमुच्छलदमृतशीकरासारशिशिरः सुरासुरवृन्देन-देवदैत्यगणेन, यत् निर्दयं-निष्ठुरम् , आकर्षणम्-उत्क्षेपणम् , तेन भ्रमतः-घूर्णमानस्य, मन्दरस्यतदाख्यपर्वतस्य, तटेन-एकदेशेन, यत् आच्छोटनम्-आस्फालनम् , आलोडनमित्यर्थः, तेन समुच्छलद्भिः-समुत्पतद्भिः, अमृतशीकरासारैः-अमृतबिन्दुधाराभिः, शिशिरः-शीतलः, अतः हृदयं तर्पयन्निव प्रीणयन्निव, पुनः आर्द्रयन्निव सिञ्चन्निवेत्युप्रेक्षा, अतिशयपेशल: अत्यन्तमनोहरः, ध्वनिः नादः, अतर्कितव्यक्तिरेव अतर्किता-आकस्मिकी, व्यक्तिःआविर्भावो यस्य तादृश एव, मन्दमन्दं मन्दप्रकारम् , अविशत् प्रविष्टः [न] । च पुनः, उपजातसम्भ्रान्तिना उपजाता-उत्पन्ना, सम्भ्रान्तिः-संक्षोभो यस्य तादृशेन, मानसेन, तस्य प्रकृतस्य शब्दस्य ध्वनेः तमनुसंधातुमित्यर्थः, दत्तकर्णः दत्तौ-प्रवर्तितो करें येन तादृशः सन् , स्तम्भित इव प्रतिबद्ध इव, पुनः उत्कीर्ण इव उत्खानेन निर्मित इव, पुनः लिखित इव चित्रित इव, निश्चलसर्वाङ्गः निश्चलानि-स्थिराणि, सर्वाणिअङ्गानि-हस्तपादादीनि यस्य तादृशः सन् , सिंहलराजपुत्रः समरकेतुः, क्षणमात्रम् एकमात्रक्षणं, स्थितवान् उपरत, क्रियोऽभूत् । अथ अनन्तरं, सहसैव शीघ्रमेव, उद्भिद्यमानपुलकाश्चितकपोलभित्तिना उद्भिद्यमानैः-उद्गच्छद्भिः, पुलकैः-रोमाञ्चैः; अञ्चिता-विशिष्टा, कपोलभित्तिः-गण्डरूपा भित्तिर्यस्य तादृशेन, पुनः विलोललोचनोत्पलेन विलोलं-चञ्चलं लोचनोत्पलं-नयनकमलं यस्य तादृशेन, मुखशशिना मुखचन्द्रेण, प्रकाश्यमानाधिकसम्भ्रमः प्रकाश्यमानः-प्रत्याय्यमानः, अधिकः-प्रचुरः, सम्भ्रमः-उद्वेगो यस्य तादृशः, समचिन्तयत् आलोचितवान् , किमित्याह-हन्त खेदः, इदं किम् , परमाश्चर्यम् अत्यन्तमाश्चर्यम् , अकाण्ड एव अनवसर एव, उपनतम् उपस्थितम् , यतः यस्माद्धेतोः, अत्र अस्मिन्नुद्याने, क्वचित् कस्मिंश्चित् स्थाने, कलकण्ठकोमलगिरा कलकण्ठस्य-कोकिलस्येव, कोमला-मधुरा, गीः-वाणी यस्य तादृशेन, केनापि केनचिजनेन, श्लोक इव पद्यमिव, पठ्यते उच्चायते, च पुनः, तत्र तस्मिन् श्लोके, हरिवाहनशब्द इव हरिवाहनेत्याकारकः शब्द इव, उच्चार्यमाणः पठ्यमानः, श्रूयते श्रवणपथमयतरति । एषः अयं, हरिवाहनः कः? किं वयस्यः? मदीयः सखा ?, आहोस्वित् उत, वयस्यनामधेयाभिधेयः वयस्यनामधेयेन-वयस्यवाचकेन हरिवाहनशब्देन, अभिधेयःवाच्यः, अपरः-अन्यः, कोऽपि, अस्तीति शेषः, अत्र अस्मिन्नारामे, वयस्यस्य मित्रहरिवाहनस्य, कुतः कस्मात्, संभवः आशा, करुणापराधीनवृत्तिना करुणापराधीना-कृपाऽऽयत्ता, वृत्तिः-मनोवृत्तियस्य तादृशेन, केनापि, दिव्येन दैवेन, मम, इदम् , आश्वासनं सान्त्वनं-धैर्याधानमित्यर्थः, प्रायः क्रियते विधीयते, अलीकविकल्पकल्पनाभिः मिथ्यात्मकविविधवितकः, खेदितेन-क्लेशितेन, परिश्रमितेनेति यावत् , मनसा हृदयेन, मनःखेदेनेत्यर्थः, कृतं व्यर्थम् , तावत् प्रथमम् , कः, एषः अयं, पुनः खलु, पठति पद्यमिवोच्चारयतीति पश्यामि गवेषयामि [प], इति ईदृशीं, मतिं बुद्धिं, कृत्वा, उन्मुक्त "Aho Shrutgyanam"

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202